ब्रह्मपुराणम्/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ ब्रह्मपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

आदित्यमाहात्म्यवर्णनम्
मुनय ऊचुः
अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते।
भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम्॥ ३०.१ ॥

भूयः प्रब्रूहि देवेश यत् पृच्छामो जगत्पते।
श्रोतुमिच्छामहे ब्रह्म परं कौतूहलं हि नः॥ ३०.२ ॥

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत् सः॥ ३०.३ ॥

कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम्।
स्वर्गतश्चैव किं कुर्म्माद्‌येन न च्यवते पुनः॥ ३०.४ ॥

देवानां चात्र को देवः पितृणाञ्चैव कः पिता।
यस्मात् परतरं नास्ति नन्मे बूहि सुरेश्वर॥ ३०.५ ॥

कुतः सृष्टमिदं विश्वं सर्व्वं स्थावरजङ्गमम्।
प्रलये च कमभ्येति तद्‌भवान् वक्तुमर्हति॥ ३०.६ ॥

उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः।
परतरो देवः कश्चिदन्यो द्विजोत्तमाः॥ ३०.७ ॥

अनादिनिधनो ह्येष पुरुषः शश्वतोऽव्ययः।
तापयत्येष त्रील्लोकान् भवन्‌रश्मिभिरुल्वणः॥ ३०.८ ॥

सर्व्वदेवमयो ह्येष तपतां तपनो वरः।
सर्व्वस्य जगतो नाथः सर्व्वसाक्षी जगत्‌पतिः॥ ३०.९ ॥

संक्षिपत्येष भूतानि तथा विसृजते पुनः।
एष भाति तपत्येष वर्षत्येष गभस्तिभिः॥॥ ३०.१० ॥

एष धाता विधाता च भूतादिरभूतभावनः।
न ह्येष क्षयमायाति नित्यमक्षयण्डलः॥ ३०.११ ॥

पितृणां च पिता ह्येष देवतानां हि देवता।
ध्रुवं श्थानं स्मृतं ह्येतद्‌यस्मान्न च्यवते पुनः॥ ३०.१२ ॥

सर्गकाले जगत् कृत्स्नमादित्यात् सम्प्रसूयते।
प्रलये च तमभ्येति भास्करं दीप्ततेजसम्॥ ३०.१३ ॥

योगिनश्चाप्यासंख्यातास्त्यक्त्वा गृहकलेवरम्।
वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे॥ ३०.१४ ॥

यस्य रश्मिसहस्राणि शाखा इव विहङ्गमाः।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह॥ ३०.१५ ॥

गृहस्था जनकाद्याश्च राजानो योगधर्म्मिणः।
बालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः॥ ३०.१६ ॥

वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा।
योगमास्थाय सर्व्वे ते प्रविष्टाः सूर्य्यमण्डलम्॥ ३०.१७ ॥

शुको व्याससतुतः श्रीमान्‌योगधर्म्मवाप्य सः।
आदित्यकिरणान् गत्वा ह्यपुर्भावमास्थितः॥ ३०.१८ ॥

शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः।
प्रत्यक्षोऽयं परो देवः सूर्य्यस्तिमिरनाशनः॥ ३०.१९ ॥

तस्मादन्यत्र भक्तिर्हि न कार्य्या शुभमिच्छिता।
यस्माद्‌दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः॥ ३०.२० ॥

अतो भवद्भिः सततमभ्यच्चर्यो भगवान् रविः।
स हि माता पिता चैव कुत्स्नास्य जगतो गुरुः॥ ३०.२१ ॥

अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः।
मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः॥ ३०.२२ ॥

अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च।
सृष्ट्चवा ससागरान् द्वीपान् भुवनानि चतुर्दश॥ ३०.२३ ॥

लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे।
सृष्ट्वा प्रजापतीन् सर्व्वान्सृष्ट्वा च विविधाः प्रजाः॥ ३०.२४ ॥

ततः शतसहस्रांशुर्वयक्तश्च पुनः स्वयम्।
कृत्वा द्वादशधात्मानमादित्यमुपपद्यते॥ ३०.२५ ॥

इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्य्यमा भगः।
विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च॥ ३०.२६ ॥

आभिर्द्वाशभिस्तेन सूर्य्येण परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च द्विजोत्तमाः॥ ३०.२७ ॥

तस्य या प्रथमा मूर्त्तिरादित्यस्येन्द्रसंज्ञिता।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी॥ ३०.२८ ॥

द्वितीया तस्य या मूर्त्तिर्नाम्ना धातेति कीर्त्तिता।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः॥ ३०.२९ ॥

तृतीयार्कस्य या मूर्त्तिः पर्जन्य इति विश्रुता।
मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः॥ ३०.३० ॥

चतुर्थी तस्य मूर्त्तिर्नाम्ना त्वष्टेति विश्रुता।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्व्वतः॥ ३०.३१ ॥

पञ्चमी तस्य या मूर्त्तिर्नाम्ना पूषेति वुश्रुता।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३२ ॥

मूर्त्तिः षष्ठी रवेर्या तु अर्य्यमा इति विश्रुता।
वायोः संसरणा सा तु देवेष्वेव समाश्रिता॥ ३०.३३ ॥

भानोर्या सप्तमी मूर्त्तिर्नाम्ना भगेति विश्रुता।
भूतिष्ववस्थिता सा तु शरीरेषु च देहिनाम्॥ ३०.३४ ॥

मूर्त्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता।
अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम्॥ ३०.३५ ॥

नवमी चित्रभानोर्या मूर्त्तिर्विष्णुस्च नामतः।
प्रादुर्भवति सा नित्यं देवनामरिशूदनी॥ ३०.३६ ॥

दशमी तस्य या मूर्त्तिरंशुमानिति विश्रुता।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः॥ ३०.३७ ॥

मूर्त्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता।
जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३८ ॥

मूर्त्तिर्या द्वादशो भानोर्नाम्ना मित्रेण चक्षुषा।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे॥ ३०.३९ ॥

वायुभक्षस्तपस्तेषे स्थित्वा मैत्रेण चक्षुषा।
अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः॥ ३०.४० ॥

एवं सा जगतां सूर्त्तिर्हिताय विहिता पुरा।
तत्र मित्रः स्थइतो यस्मात्तस्मान्मित्रं परं स्मृतम्॥ ३०.४१ ॥

आभिर्द्वादशभिस्तेन सवित्रा परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्त्तिभिश्च चद्विजोत्तमाः॥ ३०.४२ ॥

तस्माद्‌ध्येयो नमस्यश्च द्वादशस्थासु मूर्त्तिषु।
भक्तिमद्भर्नरैर्नित्यं तद्‌गतेनान्तरात्मना॥ ३०.४३ ॥

इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः।
नित्यं श्रुत्वा पठित्वा च सूर्य्यलोके महीयते॥ ३०.४४ ॥

मुनय ऊचुः
यदि तावदयटं सूर्य्यश्चादिदेवः सनातनः।
ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा॥ ३०.४५ ॥

ब्रह्मोवाच
एतद्वः संप्रवक्ष्यामि परं गुह्यं विभावसोः।
पृष्टं मित्रेण यत् पूर्व्वं नारदाय महात्मते॥ ३०.४६ ॥

प्राङमयोक्तास्तु युष्मभ्यं रवेर्द्वाश मूर्त्तयः।
मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ॥ ३०.४७ ॥

अब्भक्षो वरुणस्तासां तस्थौ पश्विमसागरे।
मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत्तदा॥ ३०.४८ ॥

अथ मेरुगिरेः श्रृङ्गात् प्रच्युतो गन्धमादनात्।
नारदस्तु महायोगो सर्व्वालोकांश्चरन् वशो॥ ३०.४९ ॥

आजगामाथ तत्रैव यत्र मित्रोऽचरत्तपः।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत् ॥ ३०.५० ॥

योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः चसनातनः।
धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना॥ ३०.५१ ॥

यः पिता सर्व्वदेवानां पराणामपि यः परः।
अयजद्‌देवताः कास्तु पितृन् वा कानसौ येजेत्।
इति सञ्चिन्त्य मानसा तं देवं नारदोऽब्रवीत्॥ ३०.५२ ॥

नार उवाच
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे।
त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम्॥ ३०.५३ ॥

भूतं भव्यं भवच्चैव त्वयि सर्व्वं प्रतिष्ठितम्।
चत्वारस्चाश्रमा देव गृहस्थाद्यास्तथैव हि॥ ३०.५४ ॥

यजन्ति त्वामहरहस्त्वां मूर्त्तित्वं समाश्रितम्।
पिता माता च सर्व्वस्य दैवतं त्वं हि शाश्वतम्॥ ३०.५५ ॥

यजसे पितरं कं त्वं देवं वापि न विद्‌महे॥ ३०.५६ ॥

अवाच्यमेतद्वक्तदव्यं परं गुह्यं सनातनम्।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्॥ ३०.५७ ॥

यत्तत् सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
इन्द्रियैरिन्द्रियार्थैश्च सर्व्वभूतैर्विवर्ज्जितम्॥ ३०.५८ ॥

स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते।
त्रिगुणाद्व्‌यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः॥ ३०.५९ ॥

हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः।
महानिति च योगेषु प्रधानमिति कथ्यते॥ ३०.६० ॥

सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः।
स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः॥ ३०.६१ ॥

धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना।
अशरीरः शरीरेषु सर्व्वेषु निवसत्यसौ॥ ३०.६२ ॥

वसन्नपि शरीरेषु न स लिप्येत कर्म्मभिः।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः॥ ३०.६३ ॥

सर्व्वेषां साक्षिभूतोऽसौ न ग्राह्यं केनचित् क्वचित्।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः॥ ३०.६४ ॥

सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः।
सर्व्वतः श्रुतिमाँल्लोके सर्व्वमावृत्य तिष्ठति॥ ३०.६५ ॥

विश्वमूर्द्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम्॥ ३०.६६ ॥

क्षेत्राणीह शरीराणि तेषाञ्चैव यथासुखम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रञ्च उच्यते॥ ३०.६७ ॥

अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते।
विश्वं बहुविधं ज्ञेयं स च सर्व्वत्र उच्यते॥ ३०.६८ ॥

तस्मात् स बहुरुपत्वाद्विश्वरूप इति स्मृतः।
तस्यैकस्य महात्त्वं हि स चैकः पुरुषः स्मृतः॥ ३०.६९ ॥

महापुरुपषशब्दं हि बिभर्त्त्येकः सनातनः।
स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना॥ ३०.७० ॥

शतधा सहस्रधा चैव तथा शतसहस्रधा।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मता॥ ३०.७१ ॥

आकाशात् पतितं तोयं याति स्वाद्वन्तरं यथा।
भूमे रसविशेषेण तथा गुणपसात्तु सः॥ ३०.७२ ॥

एक एव यथा वायुर्देहष्वेव हि पञ्चधा।
एकत्वञ्च पृथक्‌त्वञ्च तथा तस्य न संशयः॥ ३०.७३ ॥

स्थानान्तरविसेषाच्च यथाग्निर्लभते पराम्।
संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात्॥ ३०.७४ ॥

यथा दीपसहस्राणि दीप एकः प्रसूयते।
तथा रूपसहस्राणि स एकः सम्प्रसूयते॥ ३०.७५ ॥

यदा स बुध्यत्यात्मानं तदा भवति केवलः।
एकत्वप्रलये चास्य बहुत्वञ्च प्रवर्त्तते॥ ३०.७६ ॥

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
अक्षयश्चाप्रमेयश्च सर्व्वेगश्च स उच्यते॥ ३०.७७ ॥

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते॥ ३०.७८ ॥

तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः।
लोके च पूज्यते योऽसौ दैव पित्र्ये च कर्म्मणि॥ ३०.७९ ॥

नास्ति तस्मात् परो ह्यन्यः पिता देवोऽपि वा द्विजाः।
आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम्॥ ३०.८० ॥

स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः।
तेन गच्छन्ति देवर्षे तेनोदिदष्टफलां गतिम्॥ ३०.८१ ॥

तं देवाः स्वाश्रमस्थाश्च नानामूर्त्तिसमाश्रिताः।
भक्त्या सम्पूजयन्त्याद्यं गतिश्चैषां ददाति सः॥ ३०.८२ ॥

स हि सर्व्वगतश्चैव निर्गुणश्चैव कथ्यते।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्॥ ३०.८३ ॥

ये च तद्‌भाविता लोक एकतत्त्वं समाश्रिताः।
एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत॥ ३०.८४ ॥

इति गुह्यसमुद्‌देशस्तव नारद कीर्त्तितः।
अस्मद्‌भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्॥ ३०.८५ ॥

सुरैर्व्वा मुनिभिर्व्वापि पुराणैर्व्वरदं स्मृतम्।
सर्व्वे च परमात्मानं पूजयन्ति दिवाकरम्॥ ३०.८६ ॥

ब्रह्मोवाच
एवमेतत् पुराख्यातं नारदाय तु भानुना।
मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः॥ ३०.८७ ॥

इदमाख्यानामाख्येयं मयाख्यातं द्विजोत्तमाः।
न ह्यनादित्यभक्ताय इदं देयं कदाचन॥ ३०.८८ ॥

यश्चैतच्छ्रावयेन्नित्यं यश्चैव श्रृणुयान्नरः।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः॥ ३०.८९ ॥

मुच्यतार्त्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्।
जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च॥ ३०.९० ॥

क्षणेन लभतेऽधवानमिदं यः पठते मुने।
यो यं कामयते कामं स तं प्राप्नोत्यसंशयम्॥ ३०.९१ ॥

तस्माद्‌भवद्‌भिः सततं स्मर्त्तव्यो भगवान् रविः।
स च धाता विधाता च सर्व्वस्य जगतः प्रभुः॥ ३०.९२ ॥

इति श्रीब्राह्मे महापुराणे आदित्यमाहात्म्यवर्मनं नाम त्रिंशोऽध्यायः ॥ ३० ॥