ब्रह्मपुराणम्/अध्यायः ११५
← अध्यायः ११४ | ब्रह्मपुराणम् अध्यायः ११५ वेदव्यासः |
अध्यायः ११६ → |
अथ पञ्चदशाधिकशततमोऽध्यायः
शेषतीर्थवर्णनम्
ब्रह्मोवाच
शेषतीर्थमिति ख्यातं सर्वकामप्रदायकम्।
तस्य रूपं प्रवक्ष्यामि यन्मया परिभाषितम्।। ११५.१ ।।
शेषो नाम महानागो रसातलपतिः प्रभुः।
सर्वनागैः परिवृतो रसातलमथाभ्यगात्।। ११५.२ ।।
राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम्।
तैर्निरस्तो भोगिपतिर्मामुवाचाथ विहवलः।। ११५.३ ।।
शेष उवाच
रसातलं त्वया दत्तं राक्षसानां ममापि च।
ते मे स्थानं न दास्यन्ति तस्मात्त्वां शरणं गतः।। ११५.४ ।।
ततोऽहमब्रवं नागं गौतमीं याहि पन्नग।
तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम्।। ११५.५ ।।
नान्योऽस्ति लोकत्रितये मनोरथसमर्पकः।
मद्वाक्यप्रेरितो नागो गङ्गामाप्लुत्य यत्नतः।।
कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम्।। ११५.६ ।।
शेष उवाच
नमस्त्रैलोक्यनाथाय दक्षयज्ञविभेदिने।
आदिकर्त्रे नमस्तुभ्यं नमस्त्रैलोक्यरूपिणे।। ११५.७ ।।
नमः सहस्रशिरसे नमः संहारकारिणे।
सोमसूर्याग्निरूपाय जलरूपाय ते नमः।। ११५.८ ।।
सर्वदा सर्वरूपाय कालरूपाय ते नमः।
पाहि शंकर सर्वेश पाहि सोमेश सर्वग।
जगन्नाथ नमस्तुभ्यं देहि मे मनसेप्सितम्।। ११५.९ ।।
ब्रह्मोवाच
ततो महेश्वरः प्रीतः प्रादान्नागेप्सितान्वरान्।
विनाशाय सुरारीणां दैत्यदानवरक्षसाम्।। ११५.१० ।।
शेषाय प्रददौ शूलं जह्यनेनारिपुंगवान्।
ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः।। ११५.११ ।।
रसातसमथो गत्वा निजघान रिपून्रणे।
निहत्य नागः शूलेन दैत्यदावराक्षसान्।। ११५.१२ ।।
न्यवर्तत पुनर्देवो यत्र शेषेश्वरो हरः।
पथा येन समायातो देवं द्रष्टुं स नागराट्।। ११५.१३।।
रसातलाद्यत्र देवो बिलं तत्र व्यजायत।
तस्माद्बिलतलाद्यातं गाङ्गं वार्यतिपुण्यदम्।। ११५.१४ ।।
तद्वारि गङ्गामगमद्गङ्गायाः संगमस्ततः।
देवस्य पुरतश्चापि कुण्डं तत्र सुविस्तरम्।। ११५.१५ ।।
नागस्तत्राकरोद्धोमं यत्र चाग्निः सदा स्थितः।
सोष्णं तदभवद्वापि गङ्गायास्तत्र संगमः।। ११५.१६ ।।
देवदेवं समाराध्य नागः प्रीतो महायशाः।
रसातलं ततोऽभीष्टं शिवात्प्राप्य तलं ययौ।। ११५.१७ ।।
ततः प्रभृति तत्तीर्थं नागतीर्थमुदाहृतम्।
सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम्।। ११५.१८ ।।
आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच्च मुक्तिदम्।
शृणुयाद्वा पठेद्भक्त्या यो वाऽपि स्मरते तु तत्।। ११५.१९ ।।
तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः।
एकविंशतितीर्थानामुभयोस्तत्र तीरयोः।।
शतानि मुनिलार्दूल सर्वसंपत्प्रदायिनाम्।। ११५.२० ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये उभयतीरगतशेषतीर्थशेषेश्वरशूलेश्वराग्निकुण्डरसातलङ्गसंगमेष्णतीर्थाद्येकविंशतिशततीर्थवर्णनं नाम पञ्चदशाधिकशततमोऽध्यायः।। ११५ ।।