सामग्री पर जाएँ

ब्रह्मपुराणम्/अध्यायः ३६

विकिस्रोतः तः
← अध्यायः ३५ ब्रह्मपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

पार्वतीस्वयंवर-वर्णनम्

ब्रह्मोवाच
विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले।
अभवत् स तु कालेन शैलपुत्र्याः स्वायंवरः॥ ३६.१ ॥
अथ पर्व्वतराजोऽसौ हिमवान् ध्यानकोविदः।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम्॥ ३६.२ ॥
जानन्नपि महाशैलः समयारक्षणेप्सया।
स्वयंवरं ततो देव्याः सर्व्वलोकेष्वघाषयत्॥ ३६.३ ॥
देवदानवसिद्धानां सर्व्वलोकनिवासिनाम्।
वृणुयात् परमेशानं समक्षं यदि मे मे सुता॥ ३६.४ ॥
तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम्।
इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्॥ ३६.५ ॥
आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः।
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत्॥ ३६.६ ॥
अथैवमाघोषितमात्र एव, स्वयंवरे तत्र नगेन्द्रपुत्र्याः।
देवादयः सर्वजगन्निवासाः, समाययुस्तत्र गृहीतवेशाः॥ ३६.७ ॥
प्रफुल्लपद्‌मासनसन्निविष्टः, सिद्धैर्वृतो योगिभिरप्रमेयैः।
विज्ञापितस्तेन महीध्रराज्ञाऽऽगतस्तदाऽहं त्रिदिवैरुपेतः॥ ३६.८ ॥
अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्याङ्गहारस्रगुदाररूपः।
ऐरावतं सर्व्वगजेन्द्रमुख्यं, स्रवन्मदासारकृतप्रवाहम्॥ ३६.९ ॥
आरुह्य सर्व्वामरराट् स वज्रं बिभ्रत् समागात् पुरतः सुराणाम्।
तेजःप्रभावाधिकतुल्यरूपी, प्रोद्‌भासयन् सर्व्वदिशो विवस्वान्॥ ३६.१० ॥
हैमं विमानं स बलत्पताकमारूढ आगात्त्वारितं जवेन।
मणिप्रदीप्तोज्ज्वलकुण्डलश्च बह्न्यर्कतेजःप्रतिमे विमाने॥ ३६.११ ॥
समभ्यगात् कश्यपसूनुरेक, आदित्यमध्याद्‌भगनामधारी।
पीनाङ्गयष्टिः सुकृताङ्गहारतेजोबलाज्ञासदृशप्रभावः॥ ३६.१२ ॥
दण्डं समागृहय् कृतान्त आगादारुह्य भीमं महिषं जवेन।
महामहीध्रोच्छ्रायपीनगात्रःस्वर्णादिरत्नाञ्चितचारुवेशः॥ ३६.१३ ॥
समीरणः सर्व्वजगद्विभर्त्ता, विमानमारुह्य समभ्यगाद्वि।
संतापयन् सर्व्वसुरासुरेशांस्तेजोधिकस्तेजसि सन्निविष्टः॥ ३६.१४ ॥
वह्निः समभ्येत्य सुरेन्द्रमध्ये, ज्वलन् प्रतास्थौ वरवेशधारी।
नानामणिप्रज्वलिताङ्गयष्टिर्जगद्‌वरं दिव्यविमानमग्य्रम्॥ ३६.१५ ॥
आरुह्य सर्वद्रविणाधिपेशः, स राजराजस्त्वरितोऽभ्यगाच्च।
आप्याययन् सर्व्वसुरासुरेशान्, कान्त्या च वेशेन च चारुरूपः॥ ३६.१६ ॥
ज्वलन्महारत्नविचित्ररूपं, विमानमारुह्य शशी समायात्।
श्यामाङ्गयष्टिः सुविचित्रवेशः, सर्व्वाङ्ग आबद्धसुगन्धिमाल्यः॥ ३६.१७ ॥
तार्क्ष्यं समारुह्य महीध्रकल्पं, गदाधरोऽसौ त्वरितः समेतः।
अथाश्विनौ चापि भिषग्वरौ द्वावेकं विमानं त्वयाऽधिरुह्य॥ ३६.१८ ॥
मनोहरौ प्रज्वलचारुवेशौष आजग्मतुर्देववरौ सुवीरौ।
सहस्रनागः श्फुरदग्निवर्ण, बिभ्रत्तदानीं ज्वलनार्कतेजाः॥ ३६.१९ ॥
सार्द्ध स नागैरपरैर्महात्मा, विमानमारुह्य समभ्यगाच्च।
दितेः सुतानाञ्च महासुराणां, बह्न्यर्कशक्रानिलतुल्यभासाम्॥ ३६.२० ॥
वरानुरूपं प्रविधाय वेशं, वृन्दं समागात् पुरतः सुराणाम्।
गन्धर्व्वराजः स च चारुरूपी, दिव्याङ्गदो दिव्यविमानचारी॥ ३६.२१ ॥
गन्धर्व्वसङ्घैः सहितोऽप्सरोभिः, शक्राज्ञया तत्र समाजगाम।
अन्ये च देवास्त्रिदिवात्तदानों, पृथक् पृथक् चारुगृहीतवेशाः॥ ३६.२२ ॥
आजग्मुरारुह्य विमानपृष्ठं, गन्धर्वयक्षोरगकिन्नराश्च।
शचोपतिस्तत्र सुरेन्द्रमध्ये, रराज राजाऽधिकल्क्ष्यमूर्त्तिः॥ ३६.२३ ॥
आज्ञाबलैश्वर्य्यकृतप्रमोदः, स्वयंवरं तं समलञ्चकार।
हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां स सुरासुराणाम्॥ ३६.२४ ॥
पात्नी च शम्बोः पुरुषस्य धीमतो, गीता पुराणे प्रकृतिः परा या।
दक्षस्य कोपाद्विमवद्‌गृहं सा, कार्यार्थमायात्त्रिदिवौकसां हि॥ ३६.२५ ॥
विमानपृष्ठे मणिहेमजुष्टे, स्थिता वलच्चामरवीजिताङ्गी।
सर्व्वर्त्तुपुष्पां सुसुगन्धमालां, प्रगृह्य देवी प्रसभं प्रतस्थे॥ ३६.२६ ॥
ब्रह्मोवाच
मालां प्रगृह्य देव्यान्तु स्थितायां देवसंसदि।
शक्राद्यैरागतैर्देवैः स्वयंवर उवागते॥ ३६.२७ ॥
द्वाय जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः।
उत्‌सङ्गतलसंसुप्तो बभूव सहसा विभुः॥ ३६.२८ ॥
ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम्।
ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता॥ ३६.२९ ॥
अथ सा सुद्धसङ्गल्पा काङ्‌क्षितं प्राप्य सत्‌पतिम्।
निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम्॥ ३६.३० ॥
ततो दृष्ट्वा शिशुं देवा देव्या उत्‌सङ्गवर्त्तिनम्।
को।यमत्रेति संमन्त्र्य चुक्रुशुर्भृ शमोहिताः॥ ३६.३१ ॥
वज्रमाहारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा।
स बाहुरुत्थितस्तस्य बाहुमुत्क्षिप्य वृत्रहा।
स बाहुरुत्थितस्तस्य तथैव समतिष्ठत॥ ३६.३२ ॥
स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना।
वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥ ३६.३३ ॥
भगो नाम ततो देव आदित्यः काश्यपो बली।
उत्‌क्षिप्य (चिक्षेप) आयुधं दीप्तं छेत्तुमिच्छन् विमोहितः॥ ३६.३४ ॥
तस्यापि भगवान् बाहुं तथैवास्तम्भयत्तदा।
बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः॥ ३६.३५ ॥
शिरः प्रकम्पयन् विष्णुः शङ्करं समवैक्षत।
अथ तेषु स्थितेष्वेवं मन्युमत्‌सु सुरेषु च॥ ३६.३६ ॥
अहं परमसंविग्नो ध्यानमास्थाय सादरम्।
बुद्धवान् देवदेवेशमुमोत्‌सङ्गे समास्थितम्॥ ३६.३७ ॥
ज्ञात्वाऽहं परमेशानं शीघ्रमुत्थाय सादरम्।
ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः॥ ३६.३८ ॥
पुराणैः सामसङ्गीतैः ब्रह्म ध्येयं तदक्षरम्।
अजस्त्वमजरो देवः स्रष्टा विभुः परापरम्॥ ३६.३९ ॥
प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम्।
अमृतं परमात्मा च ईश्वरः कारणं महत् ॥ ३६.४० ॥
ब्रह्मसृक् प्रकृतेः स्रष्टा सर्व्वकृत्‌प्रकृतेः परः।
इयञ्च प्रकृतिर्देवी सदा ते सृष्टिकारणम्॥ ३६.४१ ॥
पत्नीरूपं समास्ताय जगत्‌कारणमागता।
नमस्तुभ्यं महादेव देव्या वै सहिताय च॥ ३६.४२ ॥
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः।
देवाद्यास्तु इमाः सृष्टा म्‌ढास्त्वद्योगमायया॥ ३६.४३ ॥
कुरु प्रसादमेतेषां यथापूर्व्वं भवन्त्विमे।
तत एवमहं विप्रा विज्ञाप्य परमेश्वरम्॥ ३६.४४ ॥
स्तम्भितान् सर्व्वदेवांस्तानिदं चाहं तदोक्तवान्।
मूढाश्च देवताः सर्व्वा नैनं बुध्यत शङ्करम्॥ ३६.४५ ॥
गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम्।
सार्धं मयैव देवेशं परमात्मानमव्ययम्॥ ३६.४६ ॥
ततस्ते स्तम्भिताः सर्व्वे तथैव त्रिदिवौकसः।
प्रणेमुर्मनसा सर्व्वं भावशुद्धेन चेतसा॥ ३६.४७ ॥
अथ तेषां प्रसन्नो।भूद्‌देवदेवो महेश्वरः।
यथापूर्व्वं चकाराऽऽशु देवतानां तनुस्तदा॥ ३६.४८ ॥
तत एवं प्रवृत्ते तु सर्व्वदेवनिवारणे।
वपुश्चकार देवेशस्त्र्यक्षं परममद्‌भुतम्॥ ३६.४९ ॥
तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्व्वे न्यमीलयन्।
तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिक्तिमत्॥ ३६.५० ॥
प्रादात् परमदेवेशमपश्यंस्ते तदा विभुम्।
ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्॥ ३६.५१ ॥
शक्राद्या मेनिरे देवाः सर्व्व एव सुरेश्वराः।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्॥ ३६.५२ ॥
पादयोः स्थापयामास स्रङ्मालाममितद्युतिः।
साधु साध्विति ते होचुः सर्व्वे देवाः पुनर्विभुम्॥ ३६.५३ ॥
सह देव्या नमश्चक्रुः शिरोभिर्भुतलाश्रितैः।
अथास्मिन्नन्तरे विप्रास्तमहं दैवतैः सह॥ ३६.५४ ॥
हिमवन्तं महाशैलमुक्तावांश्च महाद्युतिम्।
श्लाध्यः पूज्यश्च वन्द्यश्च सर्व्वेषां त्वं महानसि॥ ३६.५५
शर्व्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान्।
क्रियतां चारुरुद्वाहः क्रिमर्थं स्तीयते परम्।
ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत॥ ३६.५६ ॥
हिमवानुवाच
त्वमेव कारणे देव यस्य सर्व्वोदये मम।
प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि।
उद्वाहस्तु यदा यादृक् तद्वि (क्तं विः) धत्स्व पितामह॥ ३६.५७ ॥
ब्रह्मोवाच
तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः।
उद्वाहः क्रियतां देव इत्यहं चोक्तवान् विभुम्॥ ३६.५८ ॥
मामाह शङ्करो देवो यथेष्टमिति लोकपः।
तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्म्मितं पुरम्॥ ३६.५९ ॥
उद्वाहार्थं महेशस्य नानार्तनोपशोभितम्।
रत्नानि मणयश्चित्रा हेममौक्तिकमेव च॥ ३६.६० ॥
मूर्त्तिमन्त उपाशस्य नानारत्नोपसोभितम्।
चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता॥ ३६.६१ ॥
भास्वत्स्फटिकभित्तश्च मुक्ताहारप्रलम्बिता।
तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्म्मिता॥ ३६.६२ ॥
शुशुभे देवदेवस्य महेशस्य महात्मनः।
सोमादित्यौ समं तत्र तापयन्तौ महामणी॥ ३६.६३ ॥
सौरभेयं मनोरम्यं गन्धमादाय मारुतः।
प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन्॥ ३६.६४ ॥
समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः।
देवनद्यो महानद्यः सिद्धा मुनय एव च॥ ३६.६५ ॥
गन्धर्व्वाप्सरसः सर्व्वे नागा यक्षाः सराक्षसाः।
औदकाः खेचराश्चान्ये किन्नरा देवचारणाः॥ ३६.६६ ॥
तुम्बुरुर्नारदो हाहाहूहूश्चैव तु सामागाः।
रम्याण्यादाय वाद्यानि तत्राःऽऽजग्मुस्तदा पुरम्॥ ३६.६७ ॥
ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः।
पुण्यान् वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः॥ ३६.६८ ॥
जगतो मातरः सर्व्वा देवकन्याश्च कृत्स्नशः।
गायन्ति हर्षिताः सर्व्वा उद्वाहे परमेष्ठिनः॥ ३६.६९ ॥
ऋतवः षट् समं तत्र नानागन्धसुखावहाः।
उद्वाहः शङ्करस्येति मूर्त्तिमन्त उपस्थिताः॥ ३६.७० ॥
नीलजीमूतसङ्गाशैर्मन्त्रध्वनिप्रहर्षिभिः।
केकायमानैः शिखिभिर्नृत्यमानैस्च सर्वशः॥ ३६.७१ ॥
विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता।
कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता॥ ३६.७२ ॥
प्रत्यग्रसञ्जातशिलीन्ध्रकन्दलीताद्रुमाद्युद्‌गतपल्लवा शुभा।
शुबाम्बुधाराप्रणयप्रबोधितैर्महालसैर्भेकगणैश्च नादिता॥ ३६.७३ ॥
प्रियेषु मानोद्धतमानसानां, मनस्विनीनामपि कामिनीनाम्।
मयूरकेकाभिरुतैः क्षणेन, मनोहरैर्मानविभङ्गहेतुभिः॥ ३६.७४ ॥
तथा विवर्णोज्ज्वलाचारुमूर्त्तिना, शशाङ्कलेखाकुटिलेन सर्वतः।
पयोदसङ्घातसमीपवर्त्तिना, महेन्द्रचापेन भृशं विराजिता॥ ३६.७५ ॥
विचित्रपुष्पाम्बुभवैः सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः।
विकम्पयन्ती पवनैर्मनोहरैः, सुराङ्गनानामलकावलीः शुभाः॥ ३६.७६ ॥
गर्जत्पयोदस्थगितेन्दुबिम्बा, नवाम्बुसिक्तोदकचारुदूर्वा।
निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः॥ ३६.७७ ॥
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा।
चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना॥ ३६.७८ ॥
असितजलदधीरध्वानपित्रस्तहंसा, विमलसलिलधारोत्पातनम्रोत्पलाग्रा।
सुरभिकुसुमरेणुक्लृप्तसर्वाङ्गशोभा, गिरितुहितृविवाहे प्रावृडाविर्बभूव॥ ३६.७९ ॥
मेघकञ्चुकनिर्म्मुक्ता पद्मकोशोद्‌भवस्तनी।
हंसनूपुरनिह्रादा सर्वशस्यदिगन्तरा॥ ३६.८० ॥
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला।
प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा॥ ३६.८१
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी।
नवस्यामलताश्यामसोमराजिपुरस्कृता॥ ३६.८२ ॥
चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिसिवौकसाम्॥ ३६.८३ ॥
समदालिकुलोद्‌गीतमधुरस्वरभाषिणी।
चलत्कुमुदसंघातचारुकुण्डलशोभिनी॥ ३६.८४ ॥
रक्ताशोकप्रशाखोत्थपल्लवाङ्गलिधारिणी।
तत्पुष्पसञ्चयमयैवर्वासोभिः समलङ्कृता ॥ ३६.८५ ॥
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली।
कदलीस्तम्भवामोरूः शशाङ्कवदना तथा॥ ३६.८६ ॥
सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता।
प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा॥ ३६.८७ ॥
निर्ममुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना, नीलाम्बोजविलोचना रविकरप्रोद्‌भिन्नपद्मस्तनी।
नानापुष्परजः सुगन्धिपषनप्रह्रादनी चेतसां, तत्राऽऽसीत् कलहंसनूपुररवादेव्या विवाहे शरत्॥ ३६.८८ ॥
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा।
ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती॥ ३६.८९ ॥
ताभ्यामृतुभ्यां संप्राप्तो हिमवान् स नगोत्तमः।
प्रालेयचूर्मवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ॥ ३६.९० ॥
तेन प्रालेयवर्षेण घनेनैव हिमालयः।
अगाधेन तदा रेजे क्षीरोद इव सागरः॥ ३६.९१ ॥
ऋतुपर्य्यासम्प्राप्तो बभूव स महागिरिः।
साधूपचारात् सहसा कृतार्थ इव दुर्जनः॥ ३६.९२ ॥
प्रालेयपटलच्छन्नैः श्रृङ्गैस्तु शुशुभे नगः।
छत्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः॥ ३६.९३ ॥
मनोभवोद्रेककराः सुराणां सुराङ्गनानाञ्च मुहुः समीराः।
स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां कुसुमैरुपेताः॥ ३६.९४ ॥
विवाहे गुरुकन्याया वसन्तः समागादृतुः॥ ३६.९५ ॥
इषत्समुद्‌भिन्नपयोधराग्रा नार्य्यो यथा रम्यतरा बभूवुः।
नात्युष्णशीतानि पयःसरांसि किञ्जल्कचूर्णैः कपिलीकृतानि॥
चक्राह्वयुग्मैरुपनादितानि ययुः प्रहृष्टाः सुरदन्तिमुख्याः॥ ३६.९६ ॥
प्रियङ्गूं श्चूततरवश्चूतांश्चापि प्रियङ्गवः।
तर्ज्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे॥ ३६.९७ ॥
हिमश्रृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः।
शुशुभुः कार्य्यमुदिदश्य वृद्धा इव समागताः॥ ३६.९८ ॥
फुल्लाशोकलतास्तत्र रेजिरे सालसंश्रिताः।
कामिन्य इव कान्तानां कण्ठालम्बितबाहवः॥ ३६.९९ ॥
तस्मिन्नृतौ शुभ्रकटम्बनीपास्तालास्तमालाः सरलाः कपित्थाः॥ ३६.१०० ॥
अशोकसर्ज्जार्ज्जुनकोविदारा पुन्नागनागेश्वरकर्णिकाराः।
लवङ्गतलागुरुसप्तपर्णा न्यग्रोधशोभाञ्जननारिकेलाः॥ ३६.१०१ ॥
वृक्षास्तथाऽन्ये फलपुष्पवन्तो दृश्या बभूवुः सुमनोहराङ्गाः।
जलाशयाश्चैव सुवर्णतोयाश्चक्राङ्गकारण्डवहंसजुष्टाः॥ ३६.१०२ ॥
कोयष्टिदात्यूहबलाकयुक्ता दृश्यास्तु पद्मोत्पलमीनपूर्णाः।
खगाश्च नानाविधभूषिताङ्गा दृस्यास्तु वृक्षेषु सुचित्रपक्षाः॥ ३६.१०३ ॥
क्रीड़ासु युक्तानथ तर्ज्जयन्तः कुर्वन्ति शब्दं मदनरिताङ्गाः।
तस्मिन् गिरावद्रिसुताविवाहे ववुश्च वाताः सुखशीतलाङ्गाः॥ ३६.१०४ ॥
पुष्पाणि शुभ्राण्यपि पातयन्तः शनैर्नगेभ्यो मलयाद्रिजाताः।
तथैव सर्वे ऋतवश्च पुण्याश्चकाशिरेऽन्योन्यविमिश्रिताङ्गाः॥ ३६.१०५ ॥
येषां सुलिङ्गानि च कीर्त्तितानि, ते तत्र आसन् सुमनोज्ञरूपाः॥ ३६.१०६ ॥
समदालिकुलोद्‌गीतशिलाकुसुमसञ्चयैः।
परस्परं हि मालत्यो भावयन्त्यो विरेजिरे॥ ३६.१०७ ॥
नीलानि नीलाम्बुरुहैः पयांसि, गौराणि गौरेश्च मृणालदण्डैः।
रक्तैश्च रक्तानि भृशं कृतानि , मत्तद्विरेफावलिजुष्टपत्रैः॥ ३६.१०८ ॥
हैमानि विस्तीर्मजलेषु केषुचिन्निरन्तरं चारुतराणि केषुचित्।
वैदूर्य्यनालानि सरःसु केषुचित्‌प्रजज्ञिरे पद्मवनानि सर्वतः॥ ३६.१०९ ॥
वाप्यस्तत्राभवन्‌रम्याः कमलोत्पलपुष्पिताः।
नानाविहङ्गसंजुष्टा हैमसोपानपङ्क्तयः॥ ३६.११० ॥
श्रृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः।
समुच्छ्रितान्यवरलैर्हेमानीव बभुर्द्विजाः॥ ३६.१११ ॥
ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः।
संबभूबुर्दिशः सर्वाः पवनाकम्पिमूर्त्तिभिः॥ ३६.११२ ॥
कृष्णार्ज्जुना दसगुणा नीलाशोकमहीरुहाः।
गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम्॥ ३६.११३ ॥
वारुवविजुष्टानि किंशुकानां वनानि च।
पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे॥ ३६.११४ ॥
तमालगुल्मैस्तस्यासीऽऽच्छोभा हिमवतस्तदा।
नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु॥ ३६.११५ ॥
निकामपुष्पैः सुविशालशाखैः, समुच्छ्रितैश्चन्दनचम्पकैस्च।
प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज॥ ३६.११६ ॥
श्रुत्वा शब्दं मृदुमदकलं सर्व्वतः कोकिलानां,चञ्चत्पक्षाः सुमधुरतरं नीलकण्ठा विनेदुः।
तेषां शब्दैरुपचितबलः पुष्पचापेषु हस्तः, सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः॥ ३६.११७ ॥
पटुः सूर्यायतपस्चापि प्रायशोऽल्प (ल्पो) जलाशयः।
देवीविवाहसमये ग्रीष्म आगाद्धिमाचलम्॥ ३६.११८ ॥
स चापि तरुभिस्तत्र बहुभिः सुकुमोत्करैः।
शोभयामास श्रृङ्गणि प्रालेयाद्रेः समन्ततः॥ ३६.११९ ॥
तथाऽपि च गिरौ तत्र वायवः सुमनोहराः।
ववुः पाटलविस्तीर्णकदम्बार्ज्जुनगन्धिनः॥ ३६.१२० ॥
वाप्यः प्रफुल्लपद्‌मौघकेसरारुणडुमूर्त्तयः।
अभवंस्तटसंघु (जु) ष्टकलहंसकदम्बकाः॥ ३६.१२१ ॥
तथा कुरबकाश्वापि कुसुमापाण्डुमूर्त्तयः।
सर्वेषु नगश्रृङ्गेषु भ्रमरावलिसेविताः॥ ३६.१२२ ॥
बकुलाश्च नितम्बेषु विशालेषु महीभृतः।
उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः॥ ३६.१२३ ॥
इति कुसुमविचित्रसर्ववृक्षा विविधविहङ्गमनादरम्यदेशाः।
हिमगिरितनयाविवाहभूभूत्यै षडुपययुर्ऋतवो मुनिप्रवीराः ॥ ३६.१२४ ॥
तत एवं प्रवृत्ते तु सर्व्वभूतसमागमे।
नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः॥ ३६.१२५ ॥
शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा।
पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः॥ ३६.१२६ ॥
ततस्तु पुनरेवेशमहं चैवोक्तवान् विभुम्।
हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः॥ ३६.१२७ ॥
ददासि मह्यं यद्याज्ञां कर्त्तव्योऽयं क्रियाविधिः।
मामाह शङ्करश्चैवं देवदेवो जगत्‌पतिः॥ ३६.१२८ ॥
शिव उवाच
यदुद्दिष्टं सुरेशान तत्‌कुरुष्व यथेप्सितम्।
कर्त्ताऽस्मि वचनं सर्व ब्रह्मंस्तव जगद्विभो॥ ३६.१२९ ॥
ततश्चाहं प्रहृष्टात्मा कुशानादाय सत्वरम्।
देवस्य देव्याश्च योगबन्धेन युक्तवान्॥ ३६.१३० ॥
ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः।
श्रुतिगीतैर्महामन्त्रैर्मूर्त्तिमद्भिरुपस्थितैः॥ ३६.१३१ ॥
यथोक्तविधिना हुत्वा सर्पिस्तदमृतं हविः।
ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम्॥ ३६.१३२ ॥
मुवत्वा हस्तसमायोगं सहितः सर्वदैवतैः।
पुत्रैश्च मानसैः सिद्धैः प्रकृष्टेनान्तरात्मना॥ ३६.१३३ ॥
वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम्।
योगेनैव तयोर्विप्रास्तदुमापरमेशयोः॥ ३६.१३४ ॥
उद्वाहः स परो वृत्तो यं देवा न वुदुः क्वचित्।
इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम्।
उद्वाहश्चैव देवस्य श्रृणुघ्वं परमाद्भुतम्॥ ३६.१३५ ॥
इति श्रीआदिब्राह्मे महापुराणे स्वयंभु-ऋषिसंवादे उमाहेश्वरयोर्विवाहनिरूपणं नाम षट्‌त्रिंशोऽध्यायः॥ ३६.३६ ॥