ब्रह्मपुराणम्/अध्यायः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९ ब्रह्मपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

{लोमहर्षण उवाच॒ }
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः॥ १०.१॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः॥ १०.२॥(1.8.2)
सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा॥ १०.३॥
तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम्।
उर्वशी वरयामास हित्वा मानं यशस्विनी॥ १०.४॥
तया सहावसद्राजा दश वर्षाणि पञ्च च।
षट्पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः॥ १०.५॥
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे॥ १०.६॥
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान्।
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे॥ १०.७॥
एतेषु वनमुख्येषु सुरैराचरितेषु च।
उर्वश्या सहितो राजा रेमे परमया मुदा॥ १०.८॥
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते।
राज्यं स कारयामास प्रयागे पृथिवीपतिः॥ १०.९॥
एवंप्रभावो राजासीदैलस्तु नरसत्तमः।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः॥ १०.१०॥
{लोमहर्षण उवाच॒ }
ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः।
गन्धर्वलोके विदिता आयुर्धीमानमावसुः॥ १०.११॥
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः।
दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः॥ १०.१२॥
अमावसोस्तु दायादो भीमो राजाथ राजराट्।
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः॥ १०.१३॥
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः।
सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसंभवः॥ १०.१४॥
आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम्।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह॥ १०.१५॥
नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १०.१६॥
सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम्॥ १०.१७॥
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः॥ १०.१८॥
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम्।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्॥ १०.१९॥
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम्॥ १०.२०॥
जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम्।
कावेर्यां जनयामास अजकस्तस्य चात्मजः॥ १०.२१॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्॥ १०.२२॥
कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा॥ १०.२३॥
बल्लवैः सह संवृद्धो राजा वनचरः सदा।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः॥ १०.२४॥
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत॥ १०.२५॥
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः॥ १०.२६॥
पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्॥ १०.२७॥
पौरा यस्याभवद्भार्या गाधिस्तस्यामजायत।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा॥ १०.२८॥
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः।
तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः॥ १०.२९॥
पुत्रार्थं साधयामास चरुं गाधेस्तथैव च।
उवाचाहूय तां भार्यामृचीको भार्गवस्तदा॥ १०.३०॥
उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे।
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः॥ १०.३१॥
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्॥ १०.३२॥
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति।
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः॥ १०.३३॥
तपस्यभिरतो नित्यमरण्यं प्रविवेश ह।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्॥ १०.३४॥
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा॥ १०.३५॥
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्।
माता तु तस्या दैवेन दुहित्रे स्वं चरुं ददौ॥ १०.३६॥
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह।
अथ सत्यवती सर्वं क्षत्रियान्तकरं तदा॥ १०.३७॥
धारयामास दीप्तेन वपुषा घोरदर्शना।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च॥ १०.३८॥
ततोऽब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम्।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना॥ १०.३९॥
जनयिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः॥ १०.४०॥
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा॥ १०.४१॥
प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत्।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत्॥ १०.४२॥
{ऋचीक उवाच॒ }
नैष संकल्पितः कामो मया भद्रे तथास्त्विति।
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात्॥ १०.४३॥
पुनः सत्यवती वाक्यमेवमुक्त्वाब्रवीदिदम्।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम्॥ १०.४४॥
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो॥ १०.४५॥
यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम।
ततः प्रसादमकरोत्स तस्यास्तपसो बलात्॥ १०.४६॥
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति॥ १०.४७॥
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं दान्तं जमदग्निं समात्मकम्॥ १०.४८॥
भृगोर्जगत्यां वंशेऽस्मिञ्जमदग्निरजायत।
सा हि सत्यवती पुण्या सत्यधर्मपरायणा॥ १०.४९॥
कौशिकीति समाख्याता प्रवृत्तेयं महानदी।
इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः॥ १०.५०॥
तस्य कन्या महाभागा कामली नाम रेणुका।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः॥ १०.५१॥
आर्चीको जनयामास जामदग्न्यं सुदारुणम्।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्॥ १०.५२॥
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः॥ १०.५३॥
जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः।
मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः॥ १०.५४॥
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
जनयामास पुत्रं तु तपोविद्याशमात्मकम्॥ १०.५५॥
प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः।
विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५६॥
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः।
विश्वामित्रस्य च सुता देवरातादयः स्मृताः॥ १०.५७॥
प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतःपरम्।
देवरातः कतिश्चैव यस्मात्कात्यायनाः स्मृताः॥ १०.५८॥
शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः।
सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः॥ १०.५९॥
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः।
कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः॥ १०.६०॥
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च॥ १०.६१॥
पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः।
लोहिता यमदूताश्च तथा कारूषकाः स्मृताः॥ १०.६२॥
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च।
संबन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः॥ १०.६३॥
विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः॥ १०.६४॥
विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवत्किल।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः॥ १०.६५॥
देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्॥ १०.६६॥
देवरातादयः सप्त विश्वामित्रस्य वै सुताः।
दृषद्वतीसुतश्चापि वैश्वामित्रस्तथाष्टकः॥ १०.६७॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया।
अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः॥ १०.६८॥


तत्रादौ सोमोत्पत्ति-वर्णनम्
लोमहर्षण उवाच
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः।
तेजस्वी दानशीलस्च यज्वा विपुलदक्षिणः॥ १०.१ ॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः।
आहर्त्ता चाग्निहोत्रस्य यज्ञानाञ्च महीपतिः॥ १०.२ ॥

सत्यवादी पुण्यमतिः सम्यक् संवृत्तमैथुनः।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा॥ १०.३ ॥

तं ब्रह्मवादिनं शान्तं धर्म्मज्ञं सत्यवादिनम्।
उर्व्वशी वरयामास हित्वा मानं यशस्विनी॥ १०.४ ॥

तया सहावसद्राजा दश वर्षाणि पञ्च च।
षट्पञ्च सप्त चाष्टौ च दश वाष्टौ च भो द्विजाः॥ १०.५ ॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे॥ १०.६ ॥

उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान्।
गन्धमादनपादेषु मेरुश्रृङ्गे तथोत्तरे॥ १०.७ ॥

एतेषु वनमुख्येषु सुरैराचरितेषु च।
उर्व्वश्या सहितो राजा रेमे परमया मुदा॥ १०.८ ॥

देशे पुण्यतमे चैव महर्षिबिरभिष्टुते।
राज्यं स कारयामास प्रयागे पृथिवीपतिः॥ १०.९ ॥

एवम्प्रभावो राजासीदैलस्तु नरसत्तमः॥ १०.१० ॥

लोमहर्षण उवाच
ऐलपुत्रा बभीवुस्ते सप्त देवसुतोत्तमाः।
गन्धर्वलोके विदिता आयुर्धीमानमावसुः॥ १०.११ ॥

विश्वायुश्चैव धर्म्मात्मा श्रुतायुश्च तथापरः।
दुढायुश्च वनायुश्च बह्वायुश्चोर्व्वशीसुताः॥ १०.१२ ॥

अमावसोस्तु दायादो भीमो राजाथ राजराट्।
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः॥ १०.१३ ॥

विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः।
सुहोत्रस्याभवज्जहनुः केशिन्या गर्भसम्भवः॥ १०.१४ ॥

आजह्रे यो महत् सत्रं सर्पमेधं महामखम्।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५ ॥

नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १०.१६ ॥

सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम्॥ १०.१७ ॥

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः॥ १०.१८ ॥

उपनिन्युर्महाभागां दुहितृत्वेन जाह नवीम्।
युवनास्वस्य पुत्रीं तु कावेरीं जहनुरावहते॥ १०.१९ ॥

युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्गता।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्य्यामनिन्दिताम्॥ १०.२० ॥

जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्म्मिकम्।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः॥ १०.२१ ॥

अजकस्य तु दायादो बलाकाश्वो महीपतिः।
बभूव मृगयाशीलः कुशस्तस्यान्मजोऽभवत्॥ १०.२२ ॥

कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः।
कुशिकः कुशनाभश्च कुसाम्बो मूर्त्तिमांस्तथा॥ १०.२३ ॥

वल्लवैः सह संवृद्धो राजा वनचरः सदा।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः॥ १०.२४ ॥

लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५ ॥

अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः॥ १०.२६ ॥

पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्॥ १०.२७ ॥

पौरा यस्याभवद्भार्य्या गाधिस्तस्यामजायत।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा॥ १०.२८ ॥

तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः।
तस्याः प्रीतः स वै भर्त्ता भार्गवो भृगुनन्दनः॥ १०.२९ ॥

पुत्रार्थं साधयामास चरुं गाधेस्तथैव च।
उवाचाहूय तां भार्य्यामृचीको भार्गवस्तदा॥ १०.३० ॥

उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे।
तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः॥ १०.३१ ॥

अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम्॥ १०.३२ ॥

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति।
एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः॥ १०.३३ ॥

तपस्यभिरतो नित्यमरण्यं प्रविवेश ह।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्॥ १०.३४ ॥

तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा॥ १०.३५ ॥

चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्।
माता तु तस्या दैवन दुहित्रे स्वं चरुं ददौ॥ १०.३६ ॥

तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह।
अथ सत्यवती सर्व्वं क्षत्रियान्तकरं तदा॥ १०.३७ ॥

धारयामास दीप्तेन वपुषा घोरदर्शना।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च॥ १०.३८ ॥

ततोऽब्रवीद्द्विजश्रेष्ठः स्वां भार्य्या वरवर्णिनीम्।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना॥ १०.३९ ॥

जनिष्यति हि पुत्रस्ते क्रूरकर्म्मादारुणः।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः॥ १०.४० ॥

विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा॥ १०.४१ ॥

प्रसादयामास पतिं पुत्रो मे नेदृसो भवेत्।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत्॥ १०.४२ ॥

ऋचीक उवाच
नैष संक्ल्पतः कामो मया भद्रे तथास्त्विति।
उग्रकर्म्मा भवेत् पुत्रः पितुर्म्मातुश्च कारणात्॥ १०.४३ ॥

पुनः सत्यवती वाक्यमेवमुक्तवाब्रवीदिदम्।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम्॥ १०.४४ ॥

शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो॥ १०.४५ ॥

यद्यन्यथा न शक्यं वै कर्त्तुमेतद्द्विजोत्तम।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात्॥ १०.४६ ॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति॥ १०.४७ ॥

ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम्॥ १०.४८ ॥

भृगोर्जगत्यां वंशेऽस्मिञ्जमदग्निरजायत।
सा हि सत्यवती पुण्या सत्यधर्म्मपरायणा॥ १०.४९ ॥

कौशिकीति समाख्याता प्रवृत्तेयं महानदी।
इक्ष्वाकुवंशप्रभवो रेणुनमि नराधिपः॥ १०.५० ॥

तस्य कन्या महाभागा कामली नाम रेणुका।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः॥ १०.५१ ॥

आर्चको जनयामास जामदग्न्यं सुदारुणम्।
सर्व्वविद्यान्तगं श्रेष्ठे धनुर्वेदस्य पारगम्॥ १०.५२ ॥

रामं क्षत्रियहन्तारं प्रदप्तमिव पावकम्।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः॥ १०.५३ ॥

जमजग्निस्तपोवीर्य्याज्जिज्ञे ब्रह्मविदांवरः।
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः॥ १०.५४ ॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५५ ॥

प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः॥ १०.५६ ॥

जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः।
विश्वामित्रस्त च सुता देवरातादयः स्मृताः॥ १०.५७ ॥

प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतः परम्।
देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः॥ १०.५८ ॥

शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः।
सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः॥ १०.५९ ॥

मधुच्छन्दो जयश्चैव देवलश्च तथाष्टमः।
कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः॥ १०.६० ॥

तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च॥ १०.६१ ॥

पार्थिवा देवराताश्च शालङ् कायनबाष्कलाः।
लोहिता यमदूतास्च तता कारूषकाः समृताः॥ १०.६२ ॥

पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कोशिकस्य च।
सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः॥ १०.६३ ॥

पिश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः॥ १०.६४ ॥

विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽबवत् किल।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः॥ १०.६५ ॥

देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्॥ १०.६६ ॥

देवरातादयः सप्त विश्वामित्रस्य वै सुताः।
दृषद्वतीसुतश्चापि वैश्वमित्रस्तथाष्टकः॥ १०.६७ ॥

अष्टकस्य सुतो लौहिः प्रोक्तो जहनुगणो मया।
अत उर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः॥ १०.६८ ॥

इति श्रीब्राह्मे महापुराणे सोमवंशेऽमावसुवंशानुकीर्त्तनं नाम दशमोऽध्यायः॥ १० ॥