ब्रह्मपुराणम्/अध्यायः ८४
← अध्यायः ८३ | ब्रह्मपुराणम् अध्यायः ८४ वेदव्यासः |
अध्यायः ८५ → |
अथ चतुरशीतितमोऽध्यायः
पैशाचतीर्थवर्णनम्
ब्रह्मोवाच
पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः।
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे।। ८४.१ ।।
गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद।
तस्मिञ्शैले मुनिवर शापभ्रष्टा वराप्सरा।। ८४.२ ।।
अञ्जना नाम तत्राऽऽसीदुत्तमाङ्गेन वानरी।
केसरी नाम तद्भर्ता अद्रिकेति तथाऽपरा।। ८४.३ ।।
साऽपि केसरिणो भार्या शापभ्रष्टा वराप्सरा।
उत्तमाङ्गेन मार्जारी साऽप्यास्तेऽञ्जनपर्वते।। ८४.४ ।।
दक्षिणार्णवमभ्यागात्केसरी लोकविश्रुतः।
एतस्मिन्नन्तरेऽगस्त्योऽञ्जनं पर्वतमभ्यगात्।। ८४.५ ।।
अञ्जना चाद्रिका चैव अगस्त्यमृषिसत्तमम्।
पूजयामासतुरुभे यथान्यायं यथासुखम्।। ८४.६ ।।
ततः प्रसन्नो भगवानाहोभे व्रियतां वरः।
ते आहतुरुभेऽगस्त्यं पुत्रौ देहि मुनीश्वर।। ८४.७ ।।
सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ।
तथेत्युक्त्वा मुनिश्रेष्ठो जगामाऽऽशां स दक्षिणाम्।। ८४.८ ।।
ततः कदाचित्ते काले अञ्जना चाद्रिका तथा।
गीतं नृत्यं हास्यं च कुर्वत्यौ गिरिमूर्धनि।। ८४.९ ।।
वायुश्च निर्ऋतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ।।
कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः।। ८४.१० ।।
भार्ये भवेतामुभयोरावां देवौ वरप्रदौ।
ते अप्यूटचतुरस्त्वेतद्रेमाते गिरिमूर्धनि।। ८४.११ ।।
अञ्जनायां तथा वायोर्हनुमान्समजायत।
अद्रिकायां च निर्ऋतेरद्रिर्नाम पिशाचराट्।। ८४.१२ ।।
पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात्।
आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम्।। ८४.१३ ।।
शापाच्छचीपतेस्तत्र युवामाज्ञातुर्महथः।
ततः प्रोवाच भगवान्वायुश्च निर्ऋतिस्तथा।। ८४.१४ ।।
गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति।
इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम्।। ८४.१५ ।।
ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्त्तिमान्।
भ्रातुर्हनुमतः प्रीत्यौ स्नापयामास मातरम्।। ८४.१६ ।।
तथैव हनुमान्गङ्गामादायाद्रिमतित्वरन्।
मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान्।। ८४.१७ ।।
ततः प्रभृति तत्तीर्थं पैशाचं चाऽऽञ्जनं तथा।
ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम्।। ८४.१८ ।।
योजनानां त्रिपञ्चाशन्मार्जारं पूर्वतो भवेत्।
मार्जारसंज्ञितात्तस्माद्धनूमन्तं वृषाकपिम्(?)।। ८४.१९ ।।
फेनासंगाममाख्यातं सर्वकामप्रदं शुभम्।
तस्य स्वरूपं व्यष्टिश्च तत्रैव प्रोच्यते शुभा।। ८४.२० ।।
इति क्षीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पैशाचतीर्थवर्णनं नाम चतुरशीतितमोऽध्यायः।। ८४ ।।
गौतमीमाहात्म्ये पञ्चदशोऽध्यायः।। १५ ।।