ब्रह्मपुराणम्/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ ब्रह्मपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

जम्बूद्वीपवर्णनम्
लोमहर्षण उवाच
क्षीरोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थिताः॥ २०.१ ॥

जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः।
स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः॥ २०.२ ॥

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै।
श्रेष्ठ शान्तमयो नाम शिशिरस्तदनन्तरम्॥ २०.३ ॥

सुखोदयस्तथानन्दः शिवः क्षेमक एव च।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्विपेश्वरा हि ते॥ २०.४ ॥

पूर्व्व शान्तमयं वर्षं शिशिरं सुखदं तथा।
आनन्दञ्च शिवञ्चैव क्षेमकं धुवमेव च॥ २०.५ ॥

मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः।
सप्तैव तेषां नामानि शृणृध्वं मुनिसत्तमाः॥ २०.६ ॥

गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः॥ २०.७ ॥

वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघआः।
वसन्ति देवगन्धर्व्वसहिताः सहितं प्रजाः॥ २०.८ ॥

तेषु पुण्या जनपदा वीरा न म्रियते जनः।
नाधयो व्याधयो वापि सर्व्वकालसुखं हि तत्॥ २०.९ ॥

तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः॥ २०.१० ॥

अनुतप्ता शिखा चैव विप्रासा त्रिदिवा क्रमुः।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः॥ २०.११ ॥

एते शैलास्तथा नद्यः प्रथानाः कथिता द्विजाः।
क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति महस्रशः॥ २०.१२ ॥

ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते।
अवसर्पिणी नदी तेषां न चैवोत्सपिर्णो द्विजाः॥ २०.१३ ॥

न तेष्वस्ति युगावस्था तेषु स्थानेषु सपतषु।
त्रेतायुगसमः कालः सर्व्वदैव द्विजोत्तमाः॥ २०.१४ ॥

प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै।
पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः॥ २०.१५ ॥

धर्म्मस्चतुर्व्विधस्तेषु वर्णाश्रमविभागजः।
वर्णास्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः॥ २०.१६ ॥

आर्य्यकाः कुरवश्चैव विविश्वा भाविनश्च ये।
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः॥ २०.१७ ॥

जम्बुवृक्षप्रमाणन्तु तन्मध्ये सुमहातरुः।
प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः॥ २०.१८ ॥

इज्येते तत्र भगवांस्तैर्व्वर्णैरार्य्यकादिभिः।
सोमरूपी जगत्‌स्रष्टा सर्ध्वः सर्व्वेश्वरो हरिः॥ २०.१९ ॥

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समागवृतः।
तथैवेक्षुरसोदेन परिवेषानुकारिणा॥ २०.२० ॥

इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः।
संक्षोपेम मया भूयः शाल्मलं तं निबोधत॥ २०.२१ ॥

शाल्मस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः।
तेषान्तु नाम संज्ञानि सप्त वर्षाणि तानि वै ॥ २०.२२ ॥

श्वेतोऽथ हरितस्चैव जीमूतो रोहितस्तथा।
वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः॥ २०.२३ ॥

शाल्मलश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः।
विस्ताराद्‌द्विगुणेनाथ सर्व्वतः संवृतः स्थितः॥ २०.२४ ॥

तत्रापि पर्व्वताः सप्त विज्ञेया रत्नयोनयः।
वर्षाभिव्यञ्जकास्ते तु तथा स्पतैव निम्नगाः॥ २०.२५ ॥

कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः॥ २०.२६ ॥

कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा।
ककुद्‌मान् पर्व्वतवरः सरिन्नामान्यतो द्विजाः॥ २०.२७ ॥

श्रोणीतोया वितृष्णा च चन्द्रा शुक्रा विमोचनी।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः॥ २०.२८ ॥

श्वेतञ्च चलोहितञ्चैव जीमूतं हरितं तथा।
वैद्युतं मानसञचैव सुप्रभं नाम सप्तमम्॥ २०.२९ ॥

सप्तैतानि तु वर्षाणि चातुर्व्वर्ण्ययुतानि च।
वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः॥ २०.३० ॥

कपिलाश्चारुणाः पीताः कृष्णास्चैवपृथक्‌पृथक्।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम्॥ २०.३१ ॥

भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम्।
वायुभूतं मखश्रेष्ठैर्यज्वानो यज्ञसंस्थितम्॥ २०.३२ ॥

देवानामत्र सान्निध्यमतीव सुमनोहरे।
शाल्मलिश्च महावृक्षो नामनिवृत्तिकारकः॥ २०.३३ ॥

एष द्वीपः समुद्रेण सुरोदेन समावृतः।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः॥ २०.३४ ॥

सुरोदकः परिवृतः कुशद्वीपेन सर्व्वतः।
शाल्मलस्य तु विस्ताराद्‌द्विगुणेन समन्ततः॥ २०.३५ ॥

ज्योतिष्मतः कुशद्वीपे श्रृणुध्वं तस्य पुत्रकान्।
उद्भिदो वेणुमांश्चैव स्वैरथो रन्धनो धृतिः॥ २०.३६ ॥

प्रभाकरोऽथ कपिलस्तन्नाम्ना वर्षपद्धतिः।
तस्यां वसन्ति मनुजैः सह दैतेयदानवाः॥ २०.३७ ॥

तथैव देवगन्धर्व्वा यक्षकिम्पुरुषादयः।
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः॥ २०.३८ ॥

दमिनः शुष्मिणः स्नेहा मान्दहाश्च द्विजोत्तमाः।
ब्राह्मणाः क्षत्रिया वैस्याः शूद्रास्चानुकमोदिताः॥ २०.३९ ॥

यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते।
तत्र ते तु कुशद्वीपे ब्रह्मरूपं जनाद्र्दनम्॥ २०.४० ॥

यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम्।
विद्रुमो हेमसैलश्च द्युतिमान् पुष्टिमांस्तथा॥ २०.४१ ॥

कुशेशयो हरिश्चैव सप्तमो मन्दराचलः।
वर्षाचलास्तु सप्तैते द्वीपे तत्र द्विजोत्तमाः॥ २०.४२ ॥

नद्यश्च सप्त तासां तु वक्ष्ये नामान्यनुक्रमात्।
धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा॥ २०.४३ ॥

विद्युदम्भो मही चान्या सर्व्वपापहरास्त्विमाः।
अन्याः सहस्रस्स्तत्र क्षुद्रनद्यस्तथाचलाः॥ २०.४४ ॥

कुशद्वीपे कुशस्तम्बः संज्ञया तस्य तत्स्मृतम्।
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः॥ २०.४५ ॥

घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः।
क्रौञ्चद्वीपो मुनिश्रेष्ठाः श्रूयतां चापरो महान्॥ २०.४६ ॥

कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः।
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्ममनः॥ २०.४७ ॥

तन्नामानि च वर्षाणि तेषां चक्रे महामनाः।
कुशगो मन्दगश्चोष्णः पीवरोऽथान्धकारकः॥ २०.४८ ॥

मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता द्विजाः।
तत्रापि देवगन्धर्व्वसेविताः सुमनोरमाः॥ २०.४९ ॥

वर्षाचला मुनिश्रेष्ठास्तेषां नामानि भो द्विजाः।
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः॥ २०.५० ॥

देवव्रतो धमश्चैव तथान्यः पुण्डरीकवान्।
दुन्दुभिश्च महाशैलो द्विगुणास्ते पचरस्परम्॥ २०.५१ ॥

द्वीपाद्द्वीपेषु ये शैलास्तथा द्वीपानि ते तथा।
वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च॥ २०.५२ ॥

निवसन्ति निरातङ्काः सह देवगणैः प्रजाः।
पुष्कला पुष्करा धन्यास्ते ख्याताश्च द्विजोत्तमाः॥ २०.५३ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः।
तत्र नद्यो मुनिश्रेष्ठा याः पिबन्दि तु ते सदा॥ २०.५४ ॥

सप्त प्रधानाः शतशस्तथान्याः क्षद्रनिम्नगाः।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा॥ २०.५५ ॥

ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः।
तत्रापि वर्णैर्भगवान् पुष्कराद्यैर्ज्जनाद्र्दनः॥ २०.५६ ॥

ध्यानयोगै रुद्ररूप इज्यते यज्ञसन्निधौ।
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु॥ २०.५७ ॥

आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः।
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः॥ २०.५८ ॥

क्रौञ्चद्वीपस्य विस्तारद्विगुणेन द्विजोत्तमाः।
शाकद्वीपेश्वरस्यापि भव्यस्य सुमहात्मनः॥ २०.५९ ॥

सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः।
जलदश्च कुमारश्च सुकुमारो मनीरकः॥ २०.६० ॥

कुसमोदश्च मोदाकिः सप्तमश्च महाद्रुमः।
तत्संज्ञानयेव तत्रापि सप्त वर्षाण्यनुक्रमात्॥ २०.६१ ॥

तत्रापि पर्व्वताः सप्त वर्षविच्छेदकारकाः।
पूर्व्वस्तत्रोदयगिरिर्ज्जलधारस्तथापरः॥ २०.६२ ॥

तथा रैवतकः श्यामस्तथैवाम्भोगिरिद्विजाः।
आस्तिकेयस्तता रम्यः केसरी पर्व्वतोत्तमः॥ २०.६३ ॥

शाकश्चात्र महावृक्षः सिद्धगन्धर्व्वसेवितः।
यत्पत्रवातसंस्पर्शादाह्लादो जायते परः॥ २०.६४ ॥

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः।
निवसन्ति महात्मानो निरातङ्का निरामयाः॥ २०.६५ ॥

नद्यश्चात्र महापुण्याः सर्व्वपापभयापहाः।
सुकुमारी च नलिनी रेणुका च या॥ २०.६६ ॥

इक्षुश्च धेनुका चैव गभस्ती सप्तमी तथा।
अन्यास्त्वयुतशस्तत्र क्षुद्रनद्यो द्विजोत्तमाः॥ २०.६७ ॥

महीधरास्तथा सन्ति शतशोऽथ सहस्रशः।
ताः पिबन्ति मुदा युक्ता जलदादिषु ये स्तिताः॥ २०.६८ ॥

वर्षेषु ये जनपदाश्चतुर्थार्थसमन्विताः।
नद्याश्चात्र महापुण्याः स्वर्गादभ्येत्य मेदिनीम्॥ २०.६९ ॥

धर्म्महानिर्न तेष्वस्ति न संहर्षो न शुक् तथा।
मर्य्यादाव्युत्क्रमश्चापि तेषु देशेषु सप्तसु॥ २०.७० ॥

मगाश्च मागधाश्चैव मानसा मन्दागास्तथा।
मगा ब्राह्मणभूयिष्ठा मागधाः क्षत्रियास्तु ते॥ २०.७१ ॥

वैश्यास्तु मानसास्तेषां शूद्रा ज्ञेयास्तु मन्दगाः।
शाकद्वीपे स्थितैर्विष्णुः सूर्य्यरूपधरो हरिः॥ २०.७२ ॥

यथोक्तैरिज्यते सम्यक्कर्म्मभिर्नियतात्मभिः।
साकद्वीपस्ततो विप्राः क्षीरोदेन समन्ततः॥ २०.७३ ॥

शाकद्वीपप्रमाणेन बलयेनेव वेष्टितः।
क्षीराब्धिः सर्व्वतो विप्राः पुष्कराख्येन वेष्टितः॥ २०.७४ ॥

द्वीपेन साकद्वीपातु द्विगुणेन समन्ततः।
पुष्करे सवनस्यापि महावीतोऽभवत् सुतः॥ २०.७५ ॥

धातकिश्च तयोस्तद्वद्द्वे वर्षे नामसंज्ञिते।
महावीतं तथैवान्यद्वातकीखण्डसंज्ञितम्॥ २०.७६ ॥

एकश्चात्र महाभागाः प्रख्यातो वर्षपर्व्वतः।
मानसोत्तरसंज्ञो वै मध्यतो वलयाकृतिः॥ २०.७७ ॥

योजनानां सहस्राणि ऊर्ध्व पञ्चाशदुच्छ्रितः।
तावदेव च विस्तीर्णः सर्व्वतः परिमण्डलः॥ २०.७८ ॥

पुष्करद्वीपवलयं तयोर्म्मध्ये महागिरिः।
दशावर्षसहस्राणि तत्र जीवन्ति मानवाः॥ २०.७९ ॥

वलयाकारमेकैकं तयोर्म्मध्ये महागिरिः।
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः॥ २०.८० ॥

निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः।
अधमोत्तमो न तेष्वास्तां न वध्यवधकौ द्विजाः॥ २०.८१ ॥

नेर्ष्यासूया भयं रोषो लोभादिकं न च।
महावीतं बहिर्व्वर्ष धातकोखण्डमन्ततः॥ २०.८२ ॥

मानसोत्तरशैलस्य देवदैत्यादिसेवितम्।
सत्यानृते न तत्रास्तां द्वीपे पुष्करसंज्ञिते॥ २०.८३ ॥

न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते।
तुल्यवेषास्तु मनुजा देवैस्तत्रैकरूपिणः॥ २०.८४ ॥

वर्णाश्रमाचारहीनं धर्म्महरणवर्ज्जितम्।
त्रयीवार्त्तदण्डनीतिशुश्रूषारहितं च तत्॥ २०.८५ ॥

वर्षद्वयं ततो विप्रा भौमस्वर्गोऽयमुत्तमः।
सर्व्वस्य सुखदः कालो जरारोगविवर्ज्जितः॥ २०.८६ ॥

पुष्करे धातकीखण्डे महावीते च वै द्विजाः।
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम्॥ २०.८७ ॥

तस्मिन्निवसति ब्रह्मापूज्यमानः सुरासुरैः।
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः॥ २०.८८ ॥

समेन पुष्करस्यैव विस्तारान्मण्डलात्तथा।
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः॥ २०.८९ ॥

द्वीपश्चैव समुद्रश्च समानौ द्विगुणौ परौ।
पयांसि सर्व्वदा सर्व्वसमद्रेषु समानि वै॥ २०.९०॥
न्यूनातिरिक्तता तेषां गटाचिन्नैव जायते।
स्तालीस्थमग्निसंयोगादुद्रेकि सलिलं यथा॥ २०.९१ ॥

तथेन्दुवृद्धौ सलिलम्मभौधो मुनिसत्तमाः।
अनयूनानतिरिक्ताश्च वर्द्धन्त्यापो हसन्ति च॥ २०.९२ ॥

उदयास्तमने त्विन्दौः पक्षयोः सुक्लकृष्णयोः।
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च॥ २०.९३ ॥

अपां वृद्धिक्षयो दृष्टौ सामुद्रीणां द्विजोत्तमाः।
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम्॥ २०.९४ ॥

भुञ्जन्ति षड्सं विप्राः प्रजाः सर्व्वाः सदैव हि।
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः॥ २०.९५ ॥

द्विगुणा काञ्चनी भूमिः सर्व्वजन्तुविवर्जिता।
लोकालोकस्ततः शैलो योजनायुतविस्तृतः॥ २०.९६ ॥

उच्छ्रयेणापि तावन्ति सहस्रण्यावलोहि सः।
ततस्तमः समावृत्य तं शैलं सर्व्वतः स्थितम्॥ २०.९७ ॥

तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्।
पञ्चाशत्कोटिविस्तारा सेयमुर्व्वे द्विजोत्तमाः॥ २०.९८ ॥

सहैवाण्‍कटाहेन सद्वीपा समहीधरा।
सेयं धात्री विधात्री च सर्व्वभूतगुणाधिक।
आधारभूता जगतं सर्व्वेषां सा द्विजोत्तमाः॥ २०.९९ ॥

इति श्रीब्राह्मे महापुराणे समुद्रद्वीपपरिमाणवर्णनं नाम विंशोऽधायायः॥ २० ॥