ब्रह्मपुराणम्/अध्यायः १९८
← अध्यायः १९७ | ब्रह्मपुराणम् अध्यायः १९८ वेदव्यासः |
अध्यायः १९९ → |
हलिक्रीडावर्णनम्
व्यास उवाच
वने विहरतस्तस्य सह गोपैर्महात्मनः
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः १
निष्पादितोरुकार्यस्य कार्येणैवावतारिणः
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् २
वरुण उवाच
अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ३
व्यास उवाच
इत्युक्ता वारुणी तेन संनिधानमथाकरोत्
वृन्दावनतटोत्पन्नकदम्बतरुकोटरे ४
विचरन्बलदेवोऽपि मदिरागन्धमुद्धतम्
आघ्राय मदिराहर्षमवापाथ पुरातनम् ५
ततः कदम्बात्सहसा मद्यधारां स लाङ्गली
पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ६
पपौ च गोपगोपीभिः समवेतो मुदान्वितः
उपगीयमानो ललितं गीतवाद्यविशारदैः ७
श्रमतोऽत्यन्तघर्माम्भःकणिकामौक्तिकोज्ज्वलः
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ८
तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ९
गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः
पापे नायासि नायासि गम्यतामिच्छयान्यतः १०
सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा
यत्रास्ते बलदेवोऽसौ प्लावयामास तद्वनम् ११
शरीरिणी तथोपेत्य त्रासविह्वललोचना
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुशलायुध १२
सोऽब्रवीदवजानासि मम शौर्यबलं यदि
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा १३
व्यास उवाच
इत्युक्तयातिसंत्रस्तस्तया नद्या प्रसादितः
भूभागे प्लाविते तत्र मुमोच यमुनां बलः १४
ततः स्नातस्य वै कान्तिराजगाम महावने
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् १५
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम्
समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत १६
कृतावतंसः स तदा चारुकुण्डलभूषितः
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः १७
इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे
मासद्वयेन यातश्च पुनः स मथुरां पुरीम् १८
रेवतीं चैव तनयां रैवतस्य महीपतेः
उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ १९
इति श्रीमहापुराणे आदिब्राह्मे हलिक्रीडावर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः १९८