ब्रह्मपुराणम्/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६ ब्रह्मपुराणम्
अध्यायः ७
वेदव्यासः
अध्यायः ८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


सूर्यवंश-वर्णनम्
लोमहर्षण उवाच
मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः।
इक्ष्वाकुश्चैव नाभागो घृष्टः शर्यातिरेव च॥ ७.१ ॥

नरिष्यन्तश्च ष्षठो वै प्रांशू रिष्टश्च सप्तमः।
करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः॥ ७.२ ॥

अकरोत् पुत्रकामस्तु समनुरिष्टिं प्रजापतिः।
मित्रावरुणयोर्विप्राः पूर्व्वमेव महामतिः॥ ७.३ ॥

अनुत्पन्नेषु बहुषु पुत्रेप्वेतेषु भो द्विजाः।
तस्यां च वर्त्तमानायामिष्ट्यां च द्विजसत्तमाः॥ ७.४ ॥

मित्रावरुणयोरंशे अनुराहुतिमावहत्।
तत्र दिव्याम्भरधरा दिव्याभरणभूषिता॥ ७.५ ॥

दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः।
तामिलेत्येव होवाच मनुर्दण्डधरस्तदा॥ ७.६ ॥

अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह।
धर्म्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम्। ७.७ ॥

इलोवाच
मित्रावरुणयोरंशे जातास्मि वदतां वर।
तयोः सकाशं यास्यामि न मां धर्म्महतां कुरु। ७.८ ॥

सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला।
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत्॥ ७.९ ॥

इलोवाच
अंशेऽस्मि युवयोर्जाता किं करवाणि वाम्।
मनुना चाहमुक्ता वा अनुगच्छस्व मामिति॥ ७.१० ॥

तौ तथावादिनीं साध्वीमिलां धर्म्मपरायणाम्।
मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः॥ ७.११ ॥

मित्रावरुणावूचतुः
अनेन तव धर्म्मेण प्रश्रयेण दमेन च।
सत्येन चैव सूश्रोणी प्रीतौ स्वो वरवर्णिनि॥ ७.१२ ॥

आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि।
मनोर्व्वशकरः पुत्रस्त्वमेव च भविष्यसि॥ ७.१३ ॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने।
जगत्प्रियो धर्म्मशीलो मनोर्व्वशविवर्द्धनः॥ ७.१४ ॥

निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात्॥ ७.१५ ॥

बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता।
सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः॥ ७.१६ ॥

जनयित्वा ततः सा तमिला सुद्युम्नतां गता।
सुद्युम्नस्य तु दायादास्त्रयः परमधर्म्मिकाः॥ ७.१७ ॥

उत्कलश्च गयश्चैव विनताश्वस्च भो द्विजाः।
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः॥ ७.१८ ॥

दिक्पूर्व्वा मुनिशाद्र्दूला गयस्य तु गया स्मृता।
प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम्॥ ७.१९ ॥

दशधा तत्पुनः क्षत्रमकरोत् पृथिवीमिमाम्।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्॥ ७.२० ॥

कन्याभावात्तु सुद्युम्नो नैतद्राज्यमवाप्तवान्।
वसिष्ठवचनात्त्वासीत् प्रतिष्ठाने महात्मनः॥ ७.२१ ॥

प्रतिष्ठा धर्म्मराजस्य सुद्युम्नस् द्विजोत्तमाः।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः॥ ७.२२ ॥

मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः।
धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः॥ ७.२३ ॥

नारिष्यन्ताः शकाः पुत्रा नाभगस्य तु भो द्विजाः।
अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः॥ ७.२४ ॥

धृष्टस्य धार्ष्टिकं क्षत्रं रण्दृप्तं बभूवह।
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्म्मदाः॥ ७.२५ ॥

नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः।
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिरिति स्मृतः॥ ७.२६ ॥

नरिष्यन्तस्य दायादो राजा दण्डधरो यमः।
शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः॥ ७.२७ ॥

पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह।
आनर्त्तस्य तु दायादो रैवो नाम महाद्युतिः॥ ७.२८ ॥

आनर्त्तविषयश्चैव पुरी चास्य कुशस्थली।
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्म्मिकः॥ ७.२९ ॥

ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम्।
स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके॥ ७.३० ॥

मुहूर्त्तभूतं देवस्य नाम बहुद्वारां द्विजाः।
आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम्।. ७.३१ ॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम्।
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः॥ ७.३२ ॥

तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः।
कनायां तां बलदेवाय सुभद्रां नाम रेवतीम्॥ ७.३३ ॥

वत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः।
रेमे रामोऽपि धर्म्मात्मा रेवत्या सहितः सुखी॥ ७.३४ ॥

कथं बहुयुगे काले समतीते महामते।
न जरा रेवती प्राप्ता रवतं च ककुद्मिनम्॥ ७.३५ ॥

मेरुं गतस्य वा शर्यातेऋ सन्ततिः कथम्।
स्तिता पृथिव्यामद्यापि श्रोतुमिच्चाम तत्त्वतः॥ ७.३६ ॥

लोमहर्षण उवाच
न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः।
ऋथुचक्रं प्रभवति ब्रह्मलोके सदानघाः।
ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह॥ ७.३७ ॥

हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली।
तस्य भ्रातृशतं त्वासीद्धार्म्मिकस्य महात्मनः॥ ७.३८ ॥

तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः।
विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै॥ ७.३९ ॥

अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्त्माः।
तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विक्षुताः॥ ७.४० ॥

क्षत्रिया गुणसम्पन्ना दिक्षु सर्व्वासु विश्रुताः।
सर्व्वशः सर्व्वगहनं प्रविष्टास्ते महौजसः॥ ७.४१ ॥

नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः॥ ७.४२ ॥

पृषघ्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः।
शापाच्छ्रद्रत्वमापन्नो नवैते परिकीर्त्तिताः॥ ७.४३ ॥

वैवस्वतस्य तनया मुनेर्व्वै मुनिसत्तमाः।
क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत् सुतः॥ ७.४४ ॥

तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्।
तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम्॥ ७.४५ ॥

प्राप्तः परमधर्म्मज्ञः सोऽयोध्याधिपतिः प्रभुः।
शुकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः॥ ७.४६ ॥

उत्तरापथदेशस्य रक्षितारो महाबलाः।
चत्वारिंशद्दशाष्टौ विकुक्षिं वा अष्टकायमाथादिशत्॥ ७.४७ ॥

वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्त्माः।
इक्ष्वाकुस्तु विकुक्षिं वा अष्टकायामथादिशत्॥ ७.४८ ॥

मांसमानय श्राद्धार्थं मृगान् हत्वा महाबल।
श्राद्धकर्म्मणि चोदिदष्टो अकृते श्राद्धकर्म्मणि॥ ७.४९ ॥

भक्षयित्वा शशं विप्रा शशादो मृगायां गतः।
इक्ष्वाकुणा परित्यवतो वस्ष्ठवचनात् प्रभुः॥ ७.५० ॥

इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत्।
शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान्॥ ७.५१ ॥

अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः द्विजाः।
विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत॥ ७.५२ ॥

आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः।
जज्ञेश्रावस्तको राजा श्रावस्ती येन निर्म्मिता॥ ७.५३ ॥

श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः।
कुवलाश्वः सुतस्तस्य राजा परमधार्म्मिकः॥ ७.५४ ॥

यः स धुन्धुवद्याद्राजा धुन्धुमारत्वमागतः ॥ ७.५५ ॥

मुनय उचुः
धुन्धोर्व्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः।
यद्वधात्कुवलाश्वोऽसौ धुन्धुमारत्वमागतः॥ ७.५६ ॥

लोमहर्षण उवाच
कुवलाश्वस्य पुत्राणां शलमुत्तमधन्विनाम्।
सर्व्वे विद्यासु निष्णाता बलवन्तो दुरासदाः॥ ७.५७ ॥

बभूवुर्धार्म्मिकाः सर्व्वे भूरिदक्षिणाः।
कुवाश्वं पिता राज्ये बृहदश्वो न्ययोजयत्॥ ७.५८ ॥

पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह।
तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्॥ ७.५९ ॥

उत्तङ्क उवाच
भवता रक्षणं कार्य्य तच्च कर्त्तु त्वमर्हसि।
निरुद्विग्नस्तपश्चर्तु नहि शक्नोमि पार्थिव॥ ७.६० ॥

ममाश्रमममीपे वै समेषु मरुधन्वसु।
समुद्रो बालुकापूर्म उद्दालक इति स्मृतः॥ ७.६१ ॥

देवतानामवध्यश्च महाकायो महाबलः।
अन्तर्भूमिगतस्तत्र बालुकान्तर्हितो महान्॥ ७.६२ ॥

राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः।
शेते लोकविनाशाय तप आस्थाय दारुणम्॥ ७.६३ ॥

संवत्सरस्य पर्य्यन्ते स निश्वासं विमुञ्चति।
यदा तदा मही तत्र चलति स्म नराधिप॥ ७.६४ ॥

तस्य निःश्वासवातेन रज उद्धूयते महत्।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्॥ ७.६५ ॥

सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम्।
तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे॥ ७.६६ ॥

तं मारय महाकायं लोकानां हितकाम्यया।
लोकाः स्वस्था भवन्त्यद्य तस्म्न् विनिहते त्वया॥ ७.६७ ॥

त्वं हि तस्य वधायैकः समर्थः पृतिवीपते।
विष्णुना च वरो दत्तो मह्यं पूर्व्वयुगे नृप॥ ७.६८ ॥

यस्तं महासुरं रौद्रं हनिष्यति महाबलम्।
तस्य त्वं परदानेन तेजश्चाख्यापयिष्यसि॥ ७.६९ ॥

न हि धुन्धुर्महाते जास्तेजसाल्पेन शक्यते।
पृतिवीपाल पृथिवीपाल चिरं युगशतैरपि॥ ७.७० ॥

वीर्य्यञ्च सुमहत्तस्य देवैरपि दुरासदम्।
स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना।
कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे॥ ७.७१ ॥

बृहदश्व उवाच
भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः॥ ७.७२ ॥

स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे।
जगाम पर्व्वतायैव नृपतिः संशितव्रतः॥ ७.७३ ॥

लोमहर्षण उवाच
कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः।
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे॥ ७.७४ ॥

तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः।
उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया॥ ७.७५ ॥

तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्।
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति॥ ७.७६ ॥

दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन्।
देवदुन्दुभयश्चैव प्रणेदुर्द्धिजसत्तमाः॥ ७.७७ ॥

स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान्।
समुद्रं खानयामास बालुकान्तरमव्ययम्॥ ७.७८ ॥

तस्य पुत्रैः खनद्भिश्च बालुकान्तर्हितस्तदा।
धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम्॥ ७.७९ ॥

मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव।
वारि सुस्राव वेगेन महोदधिरिवोदये॥ ७.८० ।

सोमस्य मुनिशाद्र्दूला वरोर्म्मितलिलो महान्।
तस्य पुत्रशतं दग्धं त्रिभिरूनन्तु रक्षसा॥ ७.८१ ॥

ततः स राजा द्युतिमान् राक्षसं तं महाबलम्।
आससाद महातेजा धुन्धुं धुन्धुविनाशनः॥ ७.८२ ॥

तस्य वारिमयं वेगमापि स नराधिपः।
योगी योगेन वह्निञ्च शमयामास वारिणा॥ ७.८३ ॥

निहत्य तं महाकायं बलेनोदकराक्षसम्।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम्॥ ७.८४ ॥

उत्तङ्गस्तु वरं प्रादात्तस्मै राज्ञे महात्मने।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम्॥ ७.८५ ॥

धर्म्मे रतिञ्व सततं स्वर्गे वासं तथाक्षयम्।
पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये रक्षसा हताः॥ ७.८६ ॥

तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते।
चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ॥ ७.८७ ॥

धौन्धुमारेर्दृढाश्वस्य हर्य्यश्वश्चात्मजः स्मृतः।
हर्य्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्म्मरतः सदा॥ ७.८८॥

संहताश्वो निकुम्भस्य सुतो रणविशारदः।
अकृशास्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः॥ ७.८९ ॥

तस्य हैमवती कन्या सतां मता दृषद्वती।
विख्याता त्रिषु लोकेषु पुत्रस्चास्याः प्रसेनजित्॥ ७.९० ॥

लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम्।
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत्॥ ७.९१ ॥

तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः॥ ७.९२ ॥

तस्य चैत्ररथी भार्य्या शशविन्दोः सुताभवत्।
साध्वी विन्दुमती नाम रूपेणास्दृसी भुवि॥ ७.९३ ॥

पतिव्रता व ज्येष्ठा च भ्रातॄणामयुतस्य वै।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः॥ ७.९४ ॥

पुरुकुत्सं च धर्म्मज्ञं मुचुकुन्दं च पार्थिवम्।
पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः॥ ७.९५ ॥

नर्म्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः।
सम्भूतस्य तु दायादस्त्रिधन्वा रिपुमर्दनः॥ ७.९६ ॥

राज्ञास्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणाः प्रभुः।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः॥ ७.९७ ॥

परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्म्मतिः।
येन भार्य्या कृतोद्वाहा हृता चैव परस्य ह॥ ७.९८ ॥

बाल्यात् कामाच्च मोहाच्च साहसाच्चापलेन च।
जहार कन्यां कामार्त्तः कस्यचित् पुरवासिनः॥ ७.९९ ॥

अधर्म्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत्।
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः॥ ७.१०० ॥

सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः।
पिता च तमथोवाच श्वपाकैः सह वर्त्तय॥ ७.१०१ ॥

नाहं पुत्रेण पुत्रार्थो त्वयाद्य कुलपांसन।
इत्युक्तः स निराक्रामन्नगराद्वचनात् पितुः॥ ७.१०२ ॥

न च तं वारयामास वसिष्ठो भगवानृषिः।
स तु स्तयव्रतो विप्राः श्वपाकावसथान्तिके॥ ७.१०३ ॥

पित्रा त्यक्तोऽवसद्वीरः पिताप्यस्य वनं ययौ।
ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः॥ ७.१०४ ॥

समा द्वादश भो विप्रास्तेनाधर्म्मेण वै तदा।
दारांस्तु तस्य विषये विश्वामित्रो महातपाः॥ ७.१०५ ॥

संन्यस्य सागरान्ते तु चकार विपुलं तपः।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्॥ ७.१०६ ॥

शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै।
तं च बद्धं गले दृष्ट्वा विक्रयार्थ नृपात्मजः॥ ७.१०७ ॥

महर्षिपुत्रं धर्म्मात्मा मोक्षयामास भो द्विजाः।
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ॥ ७.१०८ ॥

विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च।
सोऽभवद्गालवो नाम गले बन्धान्महातपाः।
महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः॥ ७.१०९ ॥

इति श्रब्राह्मे महापुराणे सूर्य्यवंशनिरूपणं नाम स्पतमोऽध्यायः ॥ ७ ॥