ब्रह्मपुराणम्/अध्यायः ६४
← अध्यायः ६३ | ब्रह्मपुराणम् अध्यायः ६४ वेदव्यासः |
अध्यायः ६५ → |
अथ चतुःषष्टितमोऽध्यायः
महाज्यैष्ठीप्रशंसावर्णनम्
ब्रह्मोवाच
यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः।
प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम्।। ६४.१ ।।
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः।
नरो द्वादशयायत्रायाः फलं प्राप्नोति चाधिकम्।। ६४.२ ।।
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये।
गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे ।। ६४.३ ।।
कोकामुखे शूकरे च मथुरायां मरुस्थले।
शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे।। ६४.४ ।।
पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः।
शङ्खोद्वारे द्वारकाया तथा बदरिकाश्रमे।। ६४.५ ।।
लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने।
कामालये कोटितीर्थे तथा चामरकण्टके।। ६४.६ ।।
लोहर्गले जम्बुमार्गे सोमतीर्थे पृथूदके।
उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके।। ६४.७ ।।
एकाम्रके च केदारे काश्यां च विरजे द्विजाः।
कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने।। ६४.८ ।।
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये।
सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा।। ६४.९ ।।
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः।
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु।। ६४.१० ।।
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा।
तापी पयोष्णी कावेरी शिप्रा चर्मण्वती द्विजाः।। ६४.११ ।।
वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा।
ऋषिकुल्या कुमारी च विपाशाचदृषद्वती।। ६४.१२ ।।
सरयूर्नाकगङ्गा च गण्डकी च महानदी।
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी।। ६४.१३ ।।
महानदी वैतरणी याश्चान्या नानुकीर्तिताः।
अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः।। ६४.१४ ।।
पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च।
सागरेषु च शैलेषु नदीषु च सरःसु च।। ६४.१५ ।।
यत्फलं सर्वतीर्थेषु सर्वेष्वायतनेषु च।
तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः।। ६४.१६ ।।
तस्मात्सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे।
महाज्यैष्ठ्यां मुनिश्रेष्ठ सर्वकामफलेप्सुभिः।। ६४.१७ ।।
दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह।
विष्णुलोकं नरो याति समुद्धृत्य समं कुलम्।। ६४.१८ ।।
भुक्त्वा तत्र वरान्भोगान्यावदाभूतसंप्लवम्।
पुण्यादिहाऽऽगत्य चतुर्वेदी द्विजो भवेत्।। ६४.१९ ।।
स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।। ६४.२० ।।
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे महाज्येष्ठीप्रशंसावर्णनं नाम चतुःषष्टितमोऽध्यायः।। ६४ ।।