ब्रह्मपुराणम्/अध्यायः ५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ५० ब्रह्मपुराणम्
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

भगवदिन्द्रद्युम्नसंवादकथनम्
श्रीभगवानुवाच
नाहं देवो न यक्षो वा न दैत्यो न च देवराट्।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्त्मम्॥ ५१.१ ॥

अर्तिहा सर्वलोकानामनन्लबलपौरुषः।
आराधनीयो भूतानामन्तो यस्य न विद्यते॥ ५१.२ ॥

पठ्यते सर्वशास्त्रेषु वेदान्तेषु निगद्यते।
यमाहुर्ज्ञानगम्येति वासुदेवेति योगिनः॥ ५१.३ ॥

अहमेव स्वयं ब्रह्म अहं विष्णुः शिवोऽप्यहम्।
इन्द्रोऽहं देवराजश्च जगत्संयमनो यमः॥ ५१.४ ॥

पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुङ्नृप।
वरुणोऽपां पतिश्चाहं धरित्री च महीधरः॥ ५१.५ ॥

यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम्।
चराचरं च यद्विश्वं मदन्यन्नास्ति किंचन॥ ५१.६ ॥

प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत।
यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम्॥ ५१.७ ॥

मद्‌दर्शनमपुण्यानां स्वप्नान्तेऽपि न जायते।
त्वं पुनर्दृढभक्तित्वात्प्रत्यक्षं दृष्टवानसि॥ ५१.८ ॥

श्रुत्वैवं वासुदेवस्य वचनं तस्य भो द्विजाः।
रोमाञ्चिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः॥ ५१.९ ॥

राजोवाच
श्रियः कान्त नमस्तेऽस्तु श्रीपते पीतवाससे।
श्रीद श्रीश श्रीनिवास नमस्ते श्रीनिकेतन॥ ५१.१० ॥

आद्यं पुरुषमीशानं सर्वेशं सर्वतोमुखम्।
निष्कलं परमं देवं प्रणतोऽस्मि सनातनम्॥ ५१.११ ॥

शब्दातीतं गुणातीतं भावाभावविवर्जितम्।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम्॥ ५१.१२ ॥

प्रावृष्मेघप्रतीकाशं गोब्राह्मणहिते रतम्।
सर्वेषामेव गोप्तारं व्यापिनं सर्वभाविनम्॥ ५१.१३ ॥

शङ्खचक्रधरं देवं गदामुशलधारिणम्।
नमस्येऽहं हृषीकेशं सर्वपापहरं हिरिम्॥ ५१.१४ ॥

नागपर्यङ्कशयनं क्षीरोदार्णवशायिनम्।
नमस्येऽहं हृषीकेशं सर्सपापहरं हरिम्॥ ५१.१५ ॥

पुनस्त्वां देवदेवेशं नमस्ये वरदं वरदं विभुम्।
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम्॥ ५१.१६ ॥

ब्रह्मोवाच
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृताऽजलिः।
उवाच प्रणतो भूत्वा निपत्य धरणीतले॥ ५१.१७ ॥

प्रीतोऽसि यदि मे नाथ वृणोमि वारमुत्तमम्।
देवासुराः सगन्धर्वा यक्षरक्षोमहोरगाः॥ ५१.१८ ॥

सिद्धविद्याधराः साध्याः किंन्नरा गुह्यकास्तथा।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः॥ ५१.१९ ॥

परिव्राड्‌योगयुक्ताश्च वेदतत्त्वार्थचिन्तकाः।
मोक्षमार्गविदो येऽन्ये ध्यायन्ति परमं पदम्॥ ५१.२० ॥

निर्गुणं निर्मलं शान्तं यत्पश्यन्ति मनीषिणः।
तत्पदं गन्तुमिच्छामि त्वत्प्रसादात्सुदुर्लभम्॥ ५१.२१ ॥

श्रीभगवानुवाच
सर्वं भवतु भद्रं ते यथेष्टं सरमाप्नुहि।
भविष्यति यथाकामं मत्प्रसादान्न संशयः॥ ५१.२२ ॥

दश वर्षसहस्राणि तथा नव शतानि च।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम॥ ५१.२३ ॥

प्रयास्यसि पदं दिव्यं दुर्लभं यत्सुरासुरैः।
पूर्णमनोरथं शान्तं गुह्यमव्यक्तमव्ययम्॥ ५१.२४ ॥

परत्परतरं सुक्ष्मं निर्लेषं निष्कलं ध्रुवम्।
चिन्ताशोकविनिर्मुक्तं क्रियाकारणवर्जितम्॥ ५१.२५ ॥

नदहं दर्शयिष्यामि ज्ञेयाख्यं परमं पदम्।
यं प्राप्य परमानन्दं प्राप्स्यसि परमां गतिम्॥ ५१.२६ ॥

कीर्तिश्च तव राजेन्द्र भवत्यत्र महीतले।
यावद्‌घना नभो यावद्यावच्चन्द्रार्कतारकम्॥ ५१.२७ ॥

यावत्समुद्राः सप्तैव यावन्मेर्वादिपर्वताः।
तिष्ठन्ति दिवि देवाश्च तावत्सर्वत्र चाव्यया॥ ५१.२८ ॥

इन्द्रद्युद्मसरो नाम तीर्थं यज्ञाङ्गसंभवम्।
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्नुयात्॥ ५१.२९ ॥

दापयिष्यति यः पिण्डांस्तटेऽस्मन्सरसः शुभे।
कुलैकविंशमुद्धृत्य शक्रलोकं गमिष्यति॥ ५१.३० ॥

पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गीतनिस्वनैः।
विमानेन वसेत्तत्र याविदिन्द्राश्चतुर्दशा॥ ५१.३१ ॥

सरसो दक्षिणे भगे नैर्ऋत्यां तु समाश्रिते।
न्यग्रोधस्तिष्ठते तत्र तत्समीपे तु मण्डपः॥ ५१.३२ ॥

केतकीवनसंछन्नो नानापादपसंकुलः।
नारिकेलैरसंख्येयौश्चम्पकैर्बकुलावृतैः॥ ५१.३३ ॥

अशोकैः कर्णिकारैश्च पुंनागेर्नागकेसरैः।
पाटलाम्रातसरलैश्चन्दनैर्देवदारुभिः॥ ५१.३४ ॥

न्यग्रोधास्वत्थखदिरैः पारिजातैः सहार्जुनैः।
हिन्तालैश्चैव तालैश्च शिंशपैर्बदरैस्तथा॥ ५१.३५ ॥

करञ्जैर्लकुचैः प्लक्षैः परसैबर्ल्विधातुकैः।
अनयैर्बहुविधैर्बृक्षैः शोभितः समलंकृतः॥ ५१.३६ ॥

आषाढस्य सिते पक्षे पञ्चचम्यां पितृदैवते।
ऋक्षे नेष्यन्ति नस्तत्र नीत्वा सप्त दिनानि वै॥ ५१.३७ ॥

मण्डपे स्थापयिष्यनति सुवेश्याभिः सुशोभनैः।
क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः॥ ५१.३८ ॥

चामरैः स्वर्णदण्डैश्च व्यजनै रत्नभूषणैः।
वीजयन्तस्तथाऽस्मभ्यं स्थापयिष्यन्ति मङ्गलाः॥ ५१.३९ ॥

ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः।
वानप्रस्ता गृहस्थाश्च सिद्धाश्चान्ये च ब्राह्मणाः॥ ५१.४० ॥

नानावर्णपदैः स्तोत्रैर्ऋग्यजुःसार्मानस्वनैः।
करिष्यन्ति स्तुतिं राजन्रामकेशवयोः पुनः॥ ५१.४१ ॥

ततः स्तुत्वा च दृष्ट्वा च संप्रणम्य च भक्तितः।
नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत्॥ ५१.४२ ॥

पूज्यमानोऽप्सरोभिश्च गन्धर्वैर्गोतनिस्वनैः।
हरेरनुचरस्तत्र क्रीडते केशवेन वै॥ ५१.४३ ॥

विमानेनार्कवर्णेन रत्नहारेण भ्राजता।
सर्वकामैर्महाभोगैस्तिष्ठते भुवनोत्तमे॥ ५१.४४ ॥

तपःक्षयादिहाऽऽगत्य मनुष्यो ब्राह्मणो भवेत्।
कोटीधनपतिः श्रीमांश्चतुर्वैदी भवेद्‌ध्रुवम्॥ ५१.४५ ॥

ब्रह्मोवाच
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः।
जगामादर्शनं विप्राः साहितो विश्वकर्मणा॥ ५१.४६ ॥

स तु राजा तदा हृष्टो रोमाञ्चिततनूरुहः।
कृतकृत्यमिवाऽऽत्मानं मेने संदर्शनाद्धरेः॥ ५१.४७ ॥

ततः कृष्णं च रामं सुभद्रां च वरप्रदाम्।
रथैर्विमानसंकाशैर्मणिकाञ्चनचित्रितैः॥ ५१.४८ ॥

संवाह्य तास्तदा राजा महामङ्गलनिःस्वनैः।
आनयामास मतिमान्सामात्यः सपुरोहितः॥ ५१.४९ ॥

नानावादित्रनिर्घोषैर्नानावेदस्वनैः सुभैः।
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ॥ ५१.५० ॥

ततः शुभतिथौ काले नक्षत्रे शुभलक्षणे।
प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह॥ ५१.५१ ॥

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा।
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः॥ ५१.५२ ॥

आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः।
ऋत्विग्भ्यश्च विधानेन तथाऽन्येभ्यो धनं ददौ॥ ५१.५३ ॥

कृत्वा प्रतिष्ठां विधिवत्प्रासादै भवनोत्तमे।
स्थापयामास तान्सर्वान्विधिदृष्टेन कर्मणा॥ ५१.५४ ॥

ततः संपूज्य विधिना नानापुष्पैः सुगन्धिभिः।
सुवर्ममणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः॥ ५१.५५ ॥

रत्नैश्च विविधैर्दिव्यैरासनैर्ग्रामपत्तनैः।
ददौ चान्यान्स विषयान्पुराणि नगराणि च॥ ५१.५६ ॥

एवं बहुविधं दत्त्वा राज्यं कृत्वा यथोचितम्।
इष्ट्‌वा च विविधैर्यज्ञैर्यज्ञैर्दत्तवा दानान्यनेकशः॥ ५१.५७ ॥

कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः।
जगाम परमं स्थानं तद्विष्णोः परमं पदम्॥ ५१.५८ ॥

एवं मया मुनिश्रेष्ठाः कथितो वो नृपोत्तमः।
क्षेत्रस्य चैव महात्म्यं किमन्यच्छ्रोतिमिच्छथ॥ ५१.५९ ॥

विष्णुरुवाच
श्रुत्वैवं वचनं तस्य ब्रह्मणोऽव्यक्तजन्मनः।
आश्चर्यं मेनिरै विप्राः पप्रच्छुश्च पुनर्मुदा॥ ५१.६० ॥

मुनय ऊचुः
कस्मिन्काले सुरश्रेष्ठ गन्तव्यं पुरुषोत्तमम्।
विधिना केन कर्तव्यं पञ्चतीर्थमिति प्रभो॥ ५१.६१ ॥

एकैकस्य च तीर्थस्य स्नानदानस्य यत्फलम्।
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक्पृथक्॥ ५१.६२ ॥

ब्रह्मोवाच
निराहारः कुरुक्षेत्र पादेनैकेन यस्तपेत्।
जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम्॥ ५१.६३ ॥

दृष्ट्वा सदा ज्येठशुक्लद्वादधश्यां पुरुषोत्तमम्।
कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम्॥ ५१.६४ ॥

तस्माज्जयेष्ठे मुनिश्रेष्ठाः प्रतयत्नेन सुसंयतैः।
स्वर्गलोकेप्सुविप्राद्यैर्द्रष्टव्यः पुरुषोत्तमः॥ ५१.६५ ॥

सुदूरस्थोऽपि यो भक्त्वा कीर्तत्पुरुषोत्तमम्।
अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत्॥ ५१.६६ ॥

यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः॥ ५१.६७ ॥

चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम्।
सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तत्॥ ५१.६८ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे पुरुषोत्तमवर्णनं नामैकपञ्चाशत्तमोऽध्यायः॥ ५१ ॥