ब्रह्मपुराणम्/अध्यायः १५०
← अध्यायः १४९ | ब्रह्मपुराणम् अध्यायः १५० वेदव्यासः |
अध्यायः १५१ → |
पैशाचतीर्थवर्णनम्
ब्रह्मोवाच
पैशाचं तीर्थमाख्यातं गङ्गाया उत्तरे तटे।
पिशाचत्वात्पुरा विप्रो मुक्तिमाप महामते।। १५०.१ ।।
सुयवस्याऽऽत्मजो लोकेऽजीगर्तिरिति विश्रुतः।
कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः।। १५०.२ ।।
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम्।
विक्रीतवान्क्षत्रियाय वधाय बहुलैर्धनैः।। १५०.३ ।।
किं नामाऽऽपद्गतः पापं नाऽऽचरत्यपि पण्डितः।
शमितृत्वे धनं चापि जगृहे बहुलं मुनिः।। १५०.४ ।।
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः।
ततोऽप्रतिसमाधेयमहारोगनिपीडितः।। १५०.५ ।।
स मृतः कालपर्याये नरकेष्वथ पातितः।
भोगादृते न क्षयोऽस्ति प्राक्तनानामिहांहसाम्।। १५०.६ ।।
किंकरैर्यमवाक्येन बहुयोन्यन्तरं गतः।
ततः पिशाचो ह्यभवद्दारुणो दारुणकृतिः।। १५०.७ ।।
शुष्ककाष्ठेष्वथारण्ये निर्जले निर्जने तथा।
ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः।। १५०.८ ।।
कन्यापुत्रमहीवाजिगवां विक्रयकारिणः।
नरकान्न निवर्तन्ते यावदाभूतसंप्लवम्।। १५०.९ ।।
स्वकृताघविपाकेन दारुणैर्यमकिंकरैः।
संघाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन्।। १५०.१० ।।
पथि गच्छन्कदाचित्स जीगर्तेर्मध्यमः सुतः।
शुश्राव रुदतो वाणीं पिशाचस्य मुहुर्मुहुः।। १५०.११ ।।
पुत्रक्रेतुर्ब्रह्महन्तुर्जीगर्तेस्तु पितुस्तदा।
पापिनः पुत्रविक्रेतुर्ब्रह्महन्तुः पितुश्च ताम्।। १५०.१२ ।।
शुनःशेपस्तदोवाच को भवानतिदुःखितः।
जीगर्तिरब्रवीद्दुःखाच्छुनःशेपपिता ह्यहम्।। १५०.१३ ।।
पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम्।
नरकेष्वथ पक्वश्च पुनः प्राप्तोऽन्तरालकम्।।
ये ये दुष्कृतकर्माणस्तेषां तेषामियं गतिः।। १५०.१४ ।।
जीगर्तिपुत्रस्तमुवाच दुःखात्सोऽहं सुतस्ते मम दोषेण तात।
विक्रीत्वा मां नरकानेवमाप्तस्ततः करिष्ये स्वर्गतं त्वामिदानीम्।। १५०.१५ ।।
एवं प्रतिज्ञाय स गाधिपुत्रपुत्रत्वमाप्तोऽथ मुनिप्रवीरः।
गङ्गामभिध्याय पितुश्च लोकाननुत्तमानीहमानो जगाम।। १५०.१६ ।।
अशेषदुःखानलधूपितानां, निमज्जातां मोहमहासमुद्रे।
शरीरिणां नान्यदहो त्रिलोक्यामालम्बनं विष्णुपदीं विहाय।। १५०.१७ ।।
एवं विनिश्चित्य मुनिर्महात्मासमुद्दिधीर्षुः पितरं स दुर्गतेः।
शुचिस्ततो गौतमीमाशु गत्वा, तत्र स्नात्वा संस्मरञ्छंभुविष्णू।। १५०.१८ ।।
ददौ जलं प्रेतरूपाय पित्रे, पिशाचरूपाय सुदुःखिताय
तद्दानमात्रेण तदैव पूतोऽजीगर्तिरावाप वपुः सुपुण्यम्।। १५०.१९ ।।
विमानयुक्तः सुरसंघजुष्टं विष्णोः पदं प्राप सुतप्रभावात्।
गङ्गाप्रभावाच्च हरेश्च शंभोर्विधातुरर्कायुततुल्यतेजाः।। १५०.२० ।।
ततः प्रभृत्येतदतिप्रसिद्धं, पैशाचनाशं च महागदं च।
महान्ति पापानि च नाशमाशु, प्रयान्ति यस्य स्मरणेन पुंसाम्।। १५०.२१ ।।
तीर्थस्य चेदं गदितं तवाद्य, माहात्म्यमेतत्त्रिशतानि यत्र।
तीर्थान्यथान्यानि भवन्ति भुक्तिमुक्तिप्रदायीनि किमन्यदत्र।। १५०.२२ ।।
सर्वसिद्धिदमाख्यातमित्याद्यत्र शतत्रयम्।
तीर्थानां मुनिजुष्टानां स्मरणादप्यभीष्टदम्।। १५०.२३ ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पैशाचादिशतत्रयतीर्थवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः।। १५० ।।
गौतमीमाहात्म्य एकाशीतितमोऽध्यायः।। ८१ ।।