ब्रह्मपुराणम्/अध्यायः ११२
← अध्यायः १११ | ब्रह्मपुराणम् अध्यायः ११२ वेदव्यासः |
अध्यायः ११३ → |
अथ द्वादशधिकशततमोऽध्यायः
मातृतीर्थवर्णनम्
ब्रह्मोवाच
मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम्।
आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणादपि।। ११२.१ ।।
देवानामसुराणां च संगरोऽभीत्सुदारुणः।
नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम्।। ११२.२ ।।
तदाऽहमगमं देवैस्तिष्ठन्तं शूलपाणिनम्।
अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः।। ११२.३ ।।
संमन्त्र्य देवैर्सुरैश्च सर्वैर्यदाऽऽहृतं संमथितुं समुद्रम्।
यत्कालकूटं समभून्महेश, तत्त्वां विना को ग्रसितुं समर्थः।। ११२.४ ।।
पुष्प्रहारेण जगत्त्रयं यः, स्वाधीनमापादियितुं समर्थः।
मारो हरेऽप्यन्यसुरादिवन्द्यो, वितायमानो विलयं प्रयातः।। ११२.५ ।।
विमथ्य वारीशमनङ्गशत्रो, यदुत्तमं तत्तु दिवौकसेभ्यः।
दत्त्वा विषं संहरन्नीलकण्ठ, को वा धर्तुं त्वामृते वै समर्थः।। ११२.६ ।।
ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः।। ११२.७ ।।
शिव उवाच
दास्येऽहं यदभीष्टं वो ब्रुवन्तु सुरसत्तमाः।। ११२.८ ।।
देवा ऊचुः
दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज।
जहि शत्रुन्सुरान्पाहि नाथवन्तस्त्वया प्रभो।। ११२.९ ।।
निष्कारणः सुहृच्छंभो नाभविष्यद्भवान्यदि।
तदाऽकरिष्यन्किमिव दुःखार्ताः सर्वदेहिनः।। ११२.१० ।।
ब्रह्मोवाच
इत्युक्तस्तत्क्षणात्प्रायाद्यत्र ते देवशत्रवः।
तत्र तद्युद्धमभवच्छंकरेण सुरद्विषाम्।। ११२.११ ।।
ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः।
ललाटाद्व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः।। ११२.१२ ।।
स संहरन्दैत्यगणांस्तामसीं मूर्तिमाश्रितः।
तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद्भुवं ययुः।। ११२.१३ ।।
स संहरन्तसर्वदैत्यांस्तदाऽगच्छद्भुवं हरः।
इतश्चेतश्च भीतास्तेऽधावन्सर्वां महीमिमाम्।। ११२.१४ ।।
तथैव कोपाद्रुद्रोऽपि शत्रुंस्ताननुधावति।
तथैव युध्यतः शंभोः पतिताः स्वेदबिन्दवः।। ११२.१५ ।।
यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरे मुने।
तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः।। ११२.१६ ।।
प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरानिति।
ततः प्रोवाच भगवान्सर्वैः सुरगणैर्वृतः।। ११२.१७ ।।
शिव उवाच
स्वर्गाद्भुवमनुप्राप्ता राक्षसास्ते रसातलम्।
अनुप्राप्तास्ततः सर्वाः श्रृण्वन्तु मम भाषितम्।। ११२.१८ ।।
यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः।
रसातलमनुप्राप्ता इदानीं मद्भयाद्द्विषः।।
भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः।। ११२.१९ ।।
ब्रह्मोवाच
ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः।
तान्हत्वा मातरः सर्वान्देवारीनतिभीषणान्।। ११२.२० ।।
पुनर्देवानुपाजग्मुः पथा तेनैव मातरः।
गताश्च मातरो यावद्यावच्च पुनरागताः।। ११२.२१ ।।
तावद्देवाः स्थिता आसन्गौतमीतीरमाश्रिताः।
प्रस्थानात्तत्र मातॄणां सुराणां च प्रतिष्ठितेः।। ११२.२२ ।।
प्रतिष्ठानं तु तत्क्षेत्रं पुण्यं विजयवर्धनम्।
मातॄणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक्पृथक्।। ११२.२३ ।।
तत्र तत्र बिलान्यासन्रसातलगतानि च।
सुरास्ताभ्यो वरान्प्रोचुर्लोके पूजां यथा शिवः।। ११२.२४ ।।
प्राप्नोति तद्वन्मातृभ्यः पूजा भवतु सर्वदा।
इत्युक्त्वाऽन्तर्दधुर्देवा आसंस्तत्रैव मातरः।। ११२.२५ ।।
यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः।
सुराणामपि सेव्यानि कं पुनर्मानुषादिभिः।। ११२.२६ ।।
तेषु स्नानमथो दानं पितॄणां चैव तर्पणम्।
सर्वं तदक्षयं ज्ञेयं शिवस्य वचनं यथा।। ११२.२७ ।।
यस्त्विदं श्रृणुयान्नित्यं स्मरेदपि पठेत्तथा।
आख्यानं मातृतीर्थानामायुष्मान्स सुखी भवेत्।। ११२.२८ ।।
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे देवतीर्थमातृतीर्थप्रतिष्ठानवर्णनं नाम द्वादशाधिकशततमोऽध्यायः।। ११२ ।।
गौतमीमाहात्म्ये त्रिचत्वारिंशत्तमोऽध्यायः।। ४३ ।।