ब्रह्मपुराणम्/अध्यायः ९८
← अध्यायः ९७ | ब्रह्मपुराणम् अध्यायः ९८ वेदव्यासः |
अध्यायः ९९ → |
अथाष्टनवतितमोऽध्यायः
अग्नितीर्थवर्णनम्
ब्रह्मोवाच
अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम्।
सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु।। ९८.१ ।।
जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट्।
हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु।। ९८.२ ।।
ऋषीणां सत्रसदने अग्नेर्भ्रातरमुत्तमम्।
भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली।। ९८.३ ।।
जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि।
हव्यं देवा नैव चाऽऽपुर्मृते वै जातवेसि।। ९८.४ ।।
मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि।
कोपेन महताऽविष्टो गाङ्गमम्भः समाविशत्।। ९८.५ ।।
गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः।
जीवमुत्सर्जयामासुराग्निजीवा यतो मताः।। ९८.६
यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते।
आजग्मुर्विबुधाः सर्व ऋषः पितरस्तथा।। ९८.७ ।।
विनाऽग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः।
अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवोकसः।। ९८.८ ।।
देवा ऊचुः
देवाञ्जीवय हव्येन कव्येन च पितॄंस्तथा।
मानुषानन्नपाकेन बीजानां क्लेदनेन च।। ९८.९ ।।
अग्निरप्याह तान्देवाञ्शक्तो यो मे गतोऽनुजः।
क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः।। ९८.१० ।।
सा वाऽपि स्यान्मम सुरा नोत्सह कार्यसाधने।
कार्यं तु सर्वतस्तस्य भवतां जातवेदसः।। ९८.११ ।।
इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत्।
इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत्।। ९८.१२ ।।
अथापि क्रियमाणे वा कार्ये सैव गतिर्मम।
देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा।। ९८.१३ ।।
आयुः कर्मणि च प्रीतिर्वायप्तौ शक्तिश्च दीयते।
प्रयाजाननुयाजांश्च दास्यामो हव्यवाहन।। ९८.१४ ।।
देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तवा।
त्वया दत्तं तु यद्द्रव्यं भोक्ष्यामः सुरसत्तम।। ९८.१५ ।।
ब्रह्मोवाच
ततस्तुष्टोऽभवद्वह्निर्देववाक्याद्यथाक्रमम्।
इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा।। ९८.१६ ।।
सर्वत्र वह्निरभयः समर्थोऽभूत्सुराज्ञया।
जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः।। ९८.१७ ।।
जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते।
जलादाकृष्य विबुधा आभि(भ्य)षिच्य वि(ञ्चन्वि)भावसुम्।। ९८.१८ ।।
उभयत्र पदे वासः सर्वगोऽग्निस्ततोऽभवत्।
यथागतं सुरा जग्मुर्वह्नितीर्थं जदुच्यते।। ९८.१९ ।।
तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च।
तेषु स्नानं च दानं च यः करोति जितात्मवान्।। ९८.२० ।।
अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम्।
देवतीर्थं च तत्रैव आग्नेयं जातवेदसम्।। ९८.२१ ।।
अग्निप्रतिष्ठितं लिङ्गं तत्राऽऽस्तेऽनेकवर्णवत्।
तद्देवदर्शनादेव सर्वक्रतुफलं लभेत्।। ९८.२२ ।।
इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्येऽग्नितीर्थवर्णनं नामाष्टनवतितमोऽध्यायः।। ९८ ।।
गौतमीमाहात्म्ये एकोनत्रिंशत्तमोऽध्यायः।। २९ ।।