ब्रह्मपुराणम्/अध्यायः १२३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२२ ब्रह्मपुराणम्
अध्यायः १२३/२.५३
वेदव्यासः
अध्यायः १२४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

अथ त्रयोविंशत्यधिकशततमोऽध्यायः रामतीर्थवर्णनम्

रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम्।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते॥ १॥ 2.53.1
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः।
बलवान्मतिमाञ्शूरो यथा शक्रः पुरंदरः॥ २॥
पितृपैतामहं राज्यं कुर्वन्नास्ते यथा बलिः।
तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि॥ ३॥
कौशल्या च सुमित्रा च कैकेयी च महामते।
एताः कुलीनाः सुभगा रूपलक्षणसंयुताः॥ ४॥
तस्मिन् राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने।
वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः॥ ५॥
न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाधयः।
ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः॥ ६॥
आश्रमाणां तु सर्वेषामानन्दोऽभूत्पृथक्पृथक्।
तस्मिञ्शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे॥ ७॥
देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत्।
क्वापि तत्र जयं प्रापुर्देवाः क्वापि तथेतरे॥ ८॥
एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम्।
अभून्नारद तत्राहमवदं दैत्यदानवान्॥ ९॥
देवांश्चापि विशेषेण न कृतं तैर्मदीरितम्।
पुनश्च संगरस्तेषां बभूव सुमहान्मिथः॥ १०॥
विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम्।
तावूचतुरुभौ देवानसुरान् दैत्यदानवान्॥ ११॥
तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम्।
तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः॥ १२॥
ययुस्तु राक्षसान् देवाः पुनस्ते मत्सरान्विताः।
देवानां दानवानां च संगरोऽभूत्सुदारुणः॥ १३॥
न तत्र देवा जेतारो नैव दैत्याश्च दानवाः।
संयुगे वर्तमाने तु वागुवाचाशरीरिणी॥ १४॥
{आकाशवागुवाच }
येषां दशरथो राजा ते जेतारो न चेतरे॥* १५॥
{ब्रह्मोवाच }
इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ।
तत्र वायुस्त्वरन् प्राप्तो राजानमवदत्तदा॥ १६॥
{वायुरुवाच }
आगन्तव्यं त्वया राजन् देवदानवसंगरे।
यत्र राजा दशरथो जयस्तत्रेति विश्रुतम्॥ १७॥
तस्मात्त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः॥* १८॥
{ब्रह्मोवाच }
तद्वायुवचनं श्रुत्वा राजा दशरथो नृपः।
आगम्यते मया सत्यं गच्छ वायो यथासुखम्॥ १९॥
गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति।
तेऽप्यूचुर्भगवन्नस्मत्साहाय्यं कर्तुमर्हसि॥ २०॥
राजन् दशरथ श्रीमन् विजयस्त्वयि संस्थितः।
तस्मात्त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि॥ २१॥
ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा।
प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः॥ २२॥
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम्।
युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः॥ २३॥
पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा।
विविधुर्निशितैर्बाणैरथाक्षं नृपतेस्तथा॥ २४॥
भिन्नाक्षं तं रथं राजा न जानाति स संभ्रमात्।
राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद॥ २५॥
न ज्ञापितं तया राज्ञे स्वयमालोक्य सुव्रता।
भग्नमक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम्॥ २६॥
अक्षवन्मुनिशार्दूल तदेतन्महदद्भुतम्।
रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च॥ २७॥
जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून्।
ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात्॥ २८॥
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम्।
कैकेय्याः कर्म तद्दृष्ट्वा विस्मयं परमं गतः॥ २९॥
ततस्तस्यै वरान् प्रादात्त्रींस्तु नारद सा अपि।
अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत्॥ ३०॥
{कैकेय्युवाच }
त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी॥* ३१॥
{ब्रह्मोवाच }
विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह।
रथेन विजयी राजा ययौ स्वनगरं सुखी॥ ३२॥
योषितां किमदेयं हि प्रियाणामुचितागमे।
स कदाचिद्दशरथो मृगयाशीलिभिर्वृतः॥ ३३॥
अटन्नरण्ये शर्वर्यां वारिबन्धमथाकरोत्।
सप्तव्यसनहीनेन भवितव्यं तु भूभुजा॥ ३४॥
इति जानन्नपि च तच्चकार तु विधेर्वशात्।
गर्तं प्रविश्य पानार्थमागतान्निशितैः शरैः॥ ३५॥
मृगान् हन्ति महाबाहुः शृणु कालविपर्ययम्।
गर्तं प्रविष्टे नृपतौ तस्मिन्नेव नगोत्तमे॥ ३६॥
वृद्धो वैश्रवणो नाम न शृणोति न पश्यति।
तस्य भार्या तथाभूता तावब्रूतां तदा सुतम्॥ ३७॥
{मातापितरावूचतुः॒ }
आवां तृषार्तौ रात्रिश्च कृष्णा चापि प्रवर्तते।
वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक॥ ३८॥
अन्धानां बधिराणां च वृद्धानां धिक्च जीवितम्।
जराजर्जरदेहानां धिग्धिक्पुत्रक जीवितम्॥ ३९॥
तावत्पुंभिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः।
यावदाज्ञाप्रतिहता तीर्थादावन्यथा मृतिः॥ ४०॥
{ब्रह्मोवाच }
इत्येतद्वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः।
पुत्रः प्रोवाच तद्दुःखं गिरा मधुरया हरन्॥ ४१॥
{पुत्र उवाच }
मयि जीवति किं नाम युवयोर्दुःखमीदृशम्।
न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम्॥ ४२॥
तेन किं तनुजेनेह कुलोद्वेगविधायिना॥* ४३॥
{ब्रह्मोवाच }
इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः।
तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा॥ ४४॥
हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः।
स ऋषिर्न तु राजानं जानाति नृपतिर्द्विजम्॥ ४५॥
उभौ सरभसौ तत्र द्विजो वारि समाविशत्।
सत्वरं कलशे न्युब्जे वारि गृह्णन्तमाशुगैः॥ ४६॥
द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः।
वनद्विपोऽपि भूपानामवध्यस्तद्विदन्नपि॥ ४७॥
विव्याध तं नृपः कुर्यान्न किं किं विधिवञ्चितः।
स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत्॥ ४८॥
{द्विज उवाच }
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे।
मैत्रो ब्राह्मण इत्युक्तो नापराधोऽस्ति कश्चन॥ ४९॥
{ब्रह्मोवाच }
तदेतद्वचनं श्रुत्वा मुनेरार्तस्य भूपतिः।
निश्चेष्टश्च निरुत्साहो शनैस्तं देशमभ्यगात्॥ ५०॥
तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा।
असावप्यभवत्तत्र सशल्य इव मूर्च्छितः॥ ५१॥
आत्मानमात्मना कृत्वा स्थिरं राजाब्रवीदिदम्॥* ५२॥
{राजोवाच }
को भवान् द्विजशार्दूल किमर्थमिह चागतः।
वद पापकृते मह्यं वद मे निष्कृतिं पराम्॥ ५३॥
ब्रह्महा वर्णिभिः किंतु श्वपचैरपि जातुचित्।
न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन॥ ५४॥
{ब्रह्मोवाच }
तद्राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद्वचः॥* ५५॥
{मुनिपुत्र उवाच }
उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन।
स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम्॥ ५६॥
आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम।
तयोः शुश्रूषकः कः स्यादन्धयोरेकपुत्रयोः॥ ५७॥
विना मया महारण्ये कथं तौ जीवयिष्यतः।
ममाभाग्यमहो कीदृक्पितृशुश्रूषणे क्षतिः॥ ५८॥
जाता मेऽद्य विना प्राणैर्हा विधे किं कृतं त्वया।
तथापि गच्छ तत्र त्वं गृहीतकलशस्त्वरन्॥ ५९॥
ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः॥* ६०॥
{ब्रह्मोवाच }
इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने।
विसृज्य सशरं चापमादाय कलशं नृपः॥ ६१॥
तत्रागात्स तु वेगेन यत्र वृद्धौ महावने।
वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः॥ ६२॥
{वृद्धावूचतुः॒ }
उद्विग्नः कुपितो वा स्यादथवा भक्षितः कथम्।
न प्राप्तश्चावयोर्यष्टिः किं कुर्मः का गतिर्भवेत्॥ ६३॥
न कोपि तादृशः पुत्रो विद्यते सचराचरे।
यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः॥ ६४॥
वज्रादपि कठोरं वा जीवितं तमपश्यतोः।
शीघ्रं न यान्ति यत्प्राणास्तदेकायत्तजीवयोः॥ ६५॥
{ब्रह्मोवाच }
एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने।
तदा दशरथो राजा शनैस्तं देशमभ्यगात्॥ ६६॥
पादसंचारशब्देन मेनाते सुतमागतम्॥* ६७॥
{वृद्धावूचतुः॒ }
कुतो वत्स चिरात्प्राप्तस्त्वं दृष्टिस्त्वं परायणम्।
न ब्रूषे किंतु रुष्टोऽसि वृद्धयोरन्धयोः सुतः॥ ६८॥
{ब्रह्मोवाच }
सशल्य इव दुःखार्तः शोचन् दुष्कृतमात्मनः।
स भीत इव राजेन्द्रस्तावुवाचाथ नारद॥ ६९॥
उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम्।
नायं वक्ता सुतोऽस्माकं को भवांस्तत्पुरा वद॥ ७०॥
पश्चात्पिबावः पानीयं ततो राजाब्रवीच्च तौ॥* ७१॥
{राजोवाच }
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः॥* ७२॥
{ब्रह्मोवाच }
तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा।
आचचक्षे ततो राजा सर्वमेव यथातथम्॥ ७३॥
ततस्तु पतितौ वृद्धौ तत्रावां नय मा स्पृश।
ब्रह्मघ्नस्पर्शनं पापं न कदाचिद्विनश्यति॥ ७४॥
निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः।
यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः॥ ७५॥
{वृद्धावूचतुः॒ }
यथा पुत्रवियोगेन मृत्युर्नौ विहितस्तथा।
त्वं चापि पाप पुत्रस्य वियोगान्मृत्युमाप्स्यसि॥ ७६॥
{ब्रह्मोवाच }
एवं तु जल्पतोर्ब्रह्मन् गताः प्राणास्ततो नृपः।
अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम्॥ ७७॥
ततो जगाम नगरं दुःखितो नृपतिर्मुने।
वसिष्ठाय च तत्सर्वं न्यवेदयदशेषतः॥ ७८॥
नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः।
वसिष्ठोऽपि द्विजश्रेष्ठैः संमन्त्र्याह च निष्कृतिम्॥ ७९॥
{वसिष्ठ उवाच }
गालवं वामदेवं च जाबालिमथ कश्यपम्।
एतानन्यान् समाहूय हयमेधाय यत्नतः॥ ८०॥
यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः॥* ८१॥
{ब्रह्मोवाच }
अकरोद्धयमेधांश्च राजा दशरथो द्विजैः।
एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी॥ ८२॥
{आकाशवाण्युवाच }
पूतं शरीरमभवद्राज्ञो दशरथस्य हि।
व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः।
ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति॥ ८३॥
{ब्रह्मोवाच }
ततो बहुतिथे काले ऋष्यशृङ्गान्मुनीश्वरात्।
देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः॥ ८४॥
कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः।
शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः॥ ८५॥
ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः।
तं राजानमृषिः प्राप्य विश्वामित्रः प्रजापतिः॥ ८६॥
रामं च लक्ष्मणं चापि अयाचत महामते।
यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः॥ ८७॥
चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत॥* ८८॥
{राजोवाच }
महता दैवयोगेन कथंचिद्वार्धके मुने।
जातावानन्दसंदोह दायकौ मम बालकौ॥ ८९॥
सशरीरमिदं राज्यं दास्ये नैव सुताविमौ॥* ९०॥
{ब्रह्मोवाच }
वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति॥* ९१॥
{वसिष्ठ उवाच }
रघवः प्रार्थनाभङ्गं न राजन् क्वापि शिक्षिताः॥* ९२॥
{ब्रह्मोवाच }
रामं च लक्ष्मणं चैव कथंचिदवदन्नृपः॥* ९३॥
{राजोवाच }
विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम्॥* ९४॥
{ब्रह्मोवाच }
वदन्निति सुतौ सोष्णं निश्वसन् ग्लपिताधरः।
पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत्॥ ९५॥
तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः।
जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा॥ ९६॥
ततः प्रहृष्टः स मुनिर्मुदा प्रादात्तदोभयोः।
माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम्॥ ९७॥
शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम्।
अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने॥ ९८॥
सर्वविद्यामथावाप्य उभौ तौ रामलक्ष्मणौ।
वनौकसां हितार्थाय जघ्नतुस्ताटकां वने॥ ९९॥
अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः।
यज्ञविध्वंसनायाताञ्जघ्नतुस्तत्र राक्षसान्॥ १००॥
कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम्।
ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः॥ १०१॥
पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात्।
चित्रामदर्शयत्तत्र राजमध्ये नृपात्मजः॥ १०२॥
रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम्।
तत्प्रीतो जनकः प्रादात्सीतां लक्ष्मीमयोनिजाम्॥ १०३॥
तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च।
शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः॥ १०४॥
राजा दशरथः श्रीमान् विवाहमकरोन्मुने।
ततो बहुतिथे काले राज्यं तस्य प्रयच्छति॥ १०५॥
नृपतौ सर्वलोकानामनुमत्या गुरोरपि।
मन्थरात्मकदुर्दैव प्रेरिता मत्सराकुला॥ १०६॥
कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा।
भरतस्य च तद्राज्यं राजा नैव च दत्तवान्॥ १०७॥
पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम्।
विवेश सीतया सार्धं तथा सौमित्रिणा सह॥ १०८॥
सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः।
तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते॥ १०९॥
समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते।
तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम्॥ ११०॥
दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन्।
तदा दशरथो राजा प्राणांस्तत्याज दुःखितः॥ १११॥
कृतकर्मविपाकेन राजा नीतो यमानुगैः।
तस्मै राज्ञे महाप्राज्ञ यावत्स्थावरजङ्गमे॥ ११२॥
यमसद्मन्यनेकानि तामिस्रादीनि नारद।
नरकाण्यथ घोराणि भीषणानि बहूनि च॥ ११३॥
तत्र क्षिप्तस्तदा राजा नरकेषु पृथक्पृथक्।
पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा॥ ११४॥
शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते।
एवमादिषु घोरेषु नरकेषु स पच्यते॥ ११५॥
रामोऽपि गच्छन्नध्वानं चित्रकूटमथागमत्।
तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते॥ ११६॥
पुनः स दक्षिणामाशामाक्रामद्दण्डकं वनम्।
विख्यातं त्रिषु लोकेषु देशानां तद्धि पुण्यदम्॥ ११७॥
प्राविशत्तन्महारण्यं भीषणं दैत्यसेवितम्।
तद्भयादृषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान्॥ ११८॥
विचरन् दण्डकारण्ये ऋषिसेव्यमथाकरोत्।
तत्रेदं वृत्तमाख्यास्ये शृणु नारद यत्नतः॥ ११९॥
तावच्छनैस्त्वगाद्रामो यावद्योजनपञ्चकम्।
गौतमीं समनुप्राप्तो राजापि नरके स्थितः॥ १२०॥
यमः स्वकिंकरानाह रामो दशरथात्मजः।
गौतमीमभितो याति पितरं तस्य धीमतः॥ १२१॥
आकर्षन्त्वथ राजानं नरकान्नात्र संशयः।
उत्तीर्य गौतमीं याति यावद्योजनपञ्चकम्॥ १२२॥
रामस्तावत्तस्य पिता नरके नैव पच्यताम्।
यदेतन्मद्वचः पुण्यं न कुर्युर्यदि दूतकाः॥ १२३॥
ततश्च नरके घोरे यूयं सर्वे निमज्जथ।
या काप्युक्ता परा शक्तिः शिवस्य समवायिनी॥ १२४॥
तामेव गौतमीं सन्तो वदन्त्यम्भःस्वरूपिणीम्।
हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत्॥ १२५॥
निस्तीर्यते न केनापि तदतिक्रमजं त्वघम्।
पापिनोऽप्यात्मजः कश्चिद्यश्च गङ्गामनुस्मरेत्॥ १२६॥
सोऽनेकदुर्गनिरयान्निर्गतो मुक्ततां व्रजेत्।
किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः॥ १२७॥
यस्यासौ नरके पक्तुं न कैरपि हि शक्यते।
दक्षिणाशापतेर्वाक्यं निशम्य यमकिंकराः॥ १२८॥
नरके पच्यमानं तमयोध्याधिपतिं नृपम्।
उत्तार्य घोरनरकाद्वचनं चेदमब्रुवन्॥ १२९॥
{यमकिंकरा ऊचुः॒ }
धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः।
इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते॥ १३०॥
{ब्रह्मोवाच }
स विश्रान्तः शनै राजा किंकरान् वाक्यमब्रवीत्॥* १३१॥
{राजोवाच }
नरकेष्वथ घोरेषु पच्यमानः पुनः पुनः।
कथं त्वाकर्षितः शीघ्रं तन्मे वक्तुमिहार्हथ॥ १३२॥
{ब्रह्मोवाच }
तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत्॥* १३३॥
{यमदूत उवाच }
वेदशास्त्रपुराणादावेतद्गोप्यं प्रयत्नतः।
प्रकाश्यते तदपि ते सामर्थ्यं पुत्रतीर्थयोः॥ १३४॥
रामस्तव सुतः श्रीमान् गौतमीतीरमागतः।
तस्मात्त्वं नरकाद्घोरादाकृष्टोऽसि नरोत्तम॥ १३५॥
यदि त्वां तत्र गौतम्यां स्मरेद्रामः सलक्ष्मणः।
स्नानं कृत्वाथ पिण्डादि ते दद्यात्स नृपोत्तम।
ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम्॥ १३६॥
{राजोवाच }
तत्र गत्वा भवद्वाक्यमाख्यास्ये स्वसुतौ प्रति।
भवन्त एव शरणमनुज्ञां दातुमर्हथ॥ १३७॥
{ब्रह्मोवाच }
तद्राजवचनं श्रुत्वा कृपया यमकिंकराः।
आज्ञां च प्रददुस्तस्मै राजा प्रागात्सुतौ प्रति॥ १३८॥
भीषणं यातनादेहमापन्नो निःश्वसन्मुहुः।
निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन्॥ १३९॥
स्वेच्छया विहरन् गङ्गामाससाद च राघवः।
गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च॥ १४०॥
सीतया सह वैदेह्या सस्नौ चैव यथाविधि।
नैव तत्राभवद्भोज्यं भक्ष्यं वा गौतमीतटे॥ १४१॥
तद्दिने तत्र वसतां गौतमीतीरवासिनाम्।
तद्दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत्॥ १४२॥
{लक्ष्मण उवाच }
पुत्रौ दशरथस्यावां तवापि बलमीदृशम्।
नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम्॥ १४३॥
{राम उवाच }
भ्रातर्यद्विहितं कर्म नैव तच्चान्यथा भवेत्।
पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः॥ १४४॥
सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम्।
अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न॥ १४५॥
ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः।
स्नात्वा देवानथाभ्यर्च्य होतव्यश्च हुताशनः।
ततः स्वसमये देवो विधास्यत्यशनं तु नौ॥ १४६॥
{ब्रह्मोवाच }
भ्रात्रोः संजल्पतोरेवं पश्यतोः कर्मणो गतिम्।
शनैर्दशरथो राजा तं देशमुपजग्मिवान्॥ १४७॥
तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत्।
धनुराकृष्य कोपेन रक्षस्त्वं दानवोऽथवा॥ १४८॥
आसन्नं च पुनर्दृष्ट्वा याहि याह्यत्र पुण्यभाक्।
रामो दाशरथी राजा धर्मभाक्पश्य वर्तते॥ १४९॥
गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः।
त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः॥ १५०॥
न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम्।
यदि प्रविशसे पाप ततो वधमवाप्स्यसि॥ १५१॥
तत्पुत्रवचनं श्रुत्वा शनैराहूय वाचया।
उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः।
मुहुरन्तर्विनिध्यायन् गतिं दुष्कृतकर्मणः॥ १५२॥
{राजोवाच }
अहं दशरथो राजा पुत्रौ मे शृणुतं वचः।
तिसृभिर्ब्रह्महत्याभिर्वृतोऽहं दुःखमागतः।
छिन्नं पश्यत मे देहं नरकेषु च पातितम्॥ १५३॥
{ब्रह्मोवाच }
ततः कृताञ्जली रामः सीतया लक्ष्मणेन च।
भूमौ प्रणेमुस्ते सर्वे वचनं चैतदब्रुवन्॥ १५४॥
{सीतारामलक्ष्मणा ऊचुः॒ }
कस्येदं कर्मणस्तात फलं नृपतिसत्तम॥* १५५॥
{ब्रह्मोवाच }
स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा॥* १५६॥
{राजोवाच }
निष्कृतिर्ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते॥* १५७॥
{ब्रह्मोवाच }
ततो दुःखेन महता वृताः सर्वे भुवं गताः।
राजानं वनवासं च मातरं पितरं तथा॥ १५८॥
दुःखागमं कर्मगतिं नरके पातनं तथा।
एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः।
विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत्॥ १५९॥
{सीतोवाच }
न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे।
चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम्॥ १६०॥
शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते।
व्यामोहमाप्नुवन्तीह न कदाचिद्विचक्षणाः॥ १६१॥
किमनेनात्र दुःखेन निष्फलेन जनेश्वर।
देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा॥ १६२॥
पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः।
अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम्॥ १६३॥
आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम्।
द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरां भवान्॥ १६४॥
{ब्रह्मोवाच }
एतद्धर्मयुतं वाक्यं सीतया भाषितं दृढम्।
तथेति चाहतुरुभौ ततो दशरथोऽब्रवीत्॥ १६५॥
{दशरथ उवाच }
त्वं हि ब्रह्मविदः कन्या जनकस्य त्वयोनिजा।
भार्या रामस्य किं चित्रं यद्युक्तमनुभाषसे॥ १६६॥
न कोपि भवतां किंतु श्रमः स्वल्पोऽपि विद्यते।
गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च॥ १६७॥
तिसृभिर्ब्रह्महत्याभिर्मुक्तो यामि त्रिविष्टपम्।
त्वया जनकसंभूते स्वकुलोचितमीरितम्॥ १६८॥
प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः।
गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम्॥ १६९॥
{ब्रह्मोवाच }
तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा।
नैवापश्यद्भक्ष्यभोज्यं ततो लक्ष्मणमब्रवीत्॥ १७०॥
लक्ष्मणः प्राह विनयादिङ्गुद्याश्च फलानि च।
सन्ति तेषां च पिण्याकमानीतं तत्क्षणादिव॥ १७१॥
पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः।
मनः कुर्वंस्ततो रामो मन्दोऽभूद्दुःखितस्तदा॥ १७२॥
दैवी वागभवत्तत्र दुःखं त्यज नृपात्मज।
राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान्॥ १७३॥
अशठो धर्मनिरतो न शोचितुमिहार्हसि।
वित्तशाठ्येन यो धर्मं करोति स तु पातकी॥ १७४॥
श्रूयते सर्वशास्त्रेषु यद्राम शृणु यत्नतः।
यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः॥ १७५॥
पिण्डे निपतिते भूमौ नापश्यत्पितरं तदा।
शवं च पतितं यत्र शवतीर्थमनुत्तमम्॥ १७६॥
महापातकसंघात विघातकृदनुस्मृतिः।
तत्रागच्छंल्लोकपाला रुद्रादित्यास्तथाश्विनौ॥ १७७॥
स्वं स्वं विमानमारूढास्तेषां मध्येऽतिदीप्तिमान्।
विमानवरमारूढः स्तूयमानश्च किंनरैः॥ १७८॥
आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता।
तमदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः॥ १७९॥
कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत।
इति दिव्याभवद्वाणी रामं संबोध्य सीतया॥ १८०॥
तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः।
वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम्॥ १८१॥
{देवा ऊचुः॒ }
धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता।
नानानिरयसंघातात्पूर्वजानुद्धरेत्तु यः॥ १८२॥
स धन्योऽलंकृतं तेन कृतिना भुवनत्रयम्।
एनं पश्य महाबाहो मुक्तपापं रविप्रभम्॥ १८३॥
सर्वसंपत्तियुक्तोऽपि पापी दग्धद्रुमोपमः।
निष्किंचनोऽपि सुकृती दृश्यते चन्द्रमौलिवत्॥ १८४॥
{ब्रह्मोवाच }
दृष्ट्वाब्रवीत्सुतं राजा आशीर्भिरभिनन्द्य च॥* १८५॥
{राजोवाच }
कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयानघ।
धन्यः स पुत्रो लोकेऽस्मिन् पितॄणां यस्तु तारकः॥ १८६॥
{ब्रह्मोवाच }
ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये।
रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम्।
ततस्तद्वचनं श्रुत्वा रामस्तानब्रवीत्सुरान्॥ १८७॥
{राम उवाच }
गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते॥* १८८॥
{देवा ऊचुः॒ }
नदी न गङ्गया तुल्या न त्वया सदृशः सुतः।
न शिवेन समो देवो न तारेण समो मनुः॥ १८९॥
त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम्।
तारिताः पितरो राम त्वया पुत्रेण मानद।
गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम्॥ १९०॥
{ब्रह्मोवाच }
तद्देववचनाद्धृष्टः सीतया लक्ष्मणाग्रजः।
तद्दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत्॥ १९१॥
{राम उवाच }
अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते।
वयं धन्या यतो गङ्गा दृष्टास्माभिस्त्रिपावनी॥ १९२॥
{ब्रह्मोवाच }
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम्।
तं षोडशभिरीशानमुपचारैः प्रयत्नतः॥ १९३॥
संपूज्यावरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम्।
कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव शंकरम्॥ १९४॥
{राम उवाच }
नमामि शंभुं पुरुषं पुराणं १९५
नमामि सर्वज्ञमपारभावम् १९५
नमामि रुद्रं प्रभुमक्षयं तं १९५
नमामि शर्वं शिरसा नमामि १९५
नमामि देवं परमव्ययं तम् १९६
उमापतिं लोकगुरुं नमामि १९६
नमामि दारिद्र्यविदारणं तं १९६
नमामि रोगापहरं नमामि १९६
नमामि कल्याणमचिन्त्यरूपं १९७
नमामि विश्वोद्भवबीजरूपम् १९७
नमामि विश्वस्थितिकारणं तं १९७
नमामि संहारकरं नमामि १९७
नमामि गौरीप्रियमव्ययं तं १९८
नमामि नित्यं क्षरमक्षरं तम् १९८
नमामि चिद्रूपममेयभावं १९८
त्रिलोचनं तं शिरसा नमामि १९८
नमामि कारुण्यकरं भवस्य १९९
भयंकरं वापि सदा नमामि १९९
नमामि दातारमभीप्सितानां १९९
नमामि सोमेशमुमेशमादौ १९९
नमामि वेदत्रयलोचनं तं २००
नमामि मूर्तित्रयवर्जितं तम् २००
नमामि पुण्यं सदसद्व्यतीतं २००
नमामि तं पापहरं नमामि २००
नमामि विश्वस्य हिते रतं तं २०१
नमामि रूपाणि बहूनि धत्ते २०१
यो विश्वगोप्ता सदसत्प्रणेता २०१
नमामि तं विश्वपतिं नमामि २०१
यज्ञेश्वरं संप्रति हव्यकव्यं २०२
तथा गतिं लोकसदाशिवो यः २०२
आराधितो यश्च ददाति सर्वं २०२
नमामि दानप्रियमिष्टदेवम् २०२
नमामि सोमेश्वरमस्वतन्त्रम् २०३
उमापतिं तं विजयं नमामि २०३
नमामि विघ्नेश्वरनन्दिनाथं २०३
पुत्रप्रियं तं शिरसा नमामि २०३
नमामि देवं भवदुःखशोक २०४
विनाशनं चन्द्रधरं नमामि २०४
नमामि गङ्गाधरमीशमीड्यम् २०४
उमाधवं देववरं नमामि २०४
नमाम्यजादीशपुरंदरादि २०५
सुरासुरैरर्चितपादपद्मम् २०५
नमामि देवीमुखवादनानाम् २०५
ईक्षार्थमक्षित्रितयं य ऐच्छत् २०५
पञ्चामृतैर्गन्धसुधूपदीपैर् २०६
विचित्रपुष्पैर्विविधैश्च मन्त्रैः २०६
अन्नप्रकारैः सकलोपचारैः २०६
संपूजितं सोममहं नमामि २०६
{ब्रह्मोवाच }
ततः स भगवानाह रामं शंभुः सलक्ष्मणम्।
वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम्॥ २०७॥
{राम उवाच }
स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम।
तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर॥ २०८॥
येषां च पितरः शंभो पतिता नरकार्णवे।
तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम्॥ २०९॥
जन्मप्रभृति पापानि मनोवाक्कायिकं त्वघम्।
अत्र तु स्नानमात्रेण तत्सद्यो नाशमाप्नुयात्॥ २१०॥
अत्र ये भक्तितः शंभो ददत्यर्थिभ्य अण्वपि।
सर्वं तदक्षयं शंभो दातॄणां फलकृद्भवेत्॥ २११॥
{ब्रह्मोवाच }
एवमस्त्विति तं रामं शंकरो हृषितोऽब्रवीत्।
गते तस्मिन् सुरश्रेष्ठे रामोऽप्यनुचरैः सह॥ २१२॥
गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात्।
ततः प्रभृति तत्तीर्थं रामतीर्थमुदाहृतम्॥ २१३॥
दयालोरपतत्तत्र लक्ष्मणस्य कराच्छरः।
तद्बाणतीर्थमभवत्सर्वापद्विनिवारणम्॥ २१४॥
यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम्।
तत्तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम्॥ २१५॥
नानाविधाशेषपाप संघनिर्मूलनक्षमम्।
यदङ्घ्रिसंगादभवद्गङ्गा त्रैलोक्यपावनी॥ २१६॥
स यत्र स्नानमकरोत्तद्वैशिष्ट्यं किमुच्यते।
तद्रामतीर्थसदृशं तीर्थं क्वापि न विद्यते॥ २१७॥