ब्रह्मपुराणम्/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ ब्रह्मपुराणम्
अध्यायः ३५
वेदव्यासः
अध्यायः ३६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

पारवत्युपाख्यान-वर्णनम्
ब्रह्मोवाच
ततस्तामब्रुवन् देवास्तदा गत्वा तु सुन्दरीम्।
देवीं शीघ्रेण कालेन धूर्ज्जटिर्निललोहितः॥ ३५.१ ॥

स भर्त्ता तव देवेशो भविता मा तपः कृथाः।
ततः प्रदक्षिणीकृत्य देवा विप्रा गिरेः सुताम्॥ ३५.२ ॥

जग्मुश्चादर्शनं तस्याः सा चापि विरराम ह।
सा देवीं सूक्तमित्येवमुक्त्वा स्वस्याश्रमे शुभे॥ ३५.३ ॥

द्वारि जातमशोकञ्च समुपाश्रित्य चास्थिता।
अथागाच्चन्द्रतिलकस्त्रिदशर्त्तिहरो हरः॥ ३५.४ ॥

विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च।
विभग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः॥ ३५.५ ॥

उचाव विकृतास्यश्च देवि त्वां वरयाम्यहम्।
अथोमा योगसंसिद्धा ज्ञात्वा शङ्करमागतम्॥ ३५.६ ॥

अन्तर्भावविशुद्धात्मा कृपानुष्ठानलिप्सया।
तमुवाचार्घ्यपाद्याभ्यां मधुपर्केण चैव ह॥ ३५.७ ॥

सम्पूज्य सुमनोभिस्तं ब्राह्मणं ब्राह्मणप्रिया॥ ३५.८ ॥

देव्युवाच
भगवन्न स्वतन्त्राहं पिता मे त्वग्रणीर्गृहे।
स प्रभुर्म्मम दाने वै कन्याहं द्विजपुङ्गव॥ ३५.९ ॥

गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम्।
स चेद्ददाति मां विप्र तुभ्यं तदुचितं मम॥ ३५.१० ॥

ब्रह्मोवाच
ततः स भगवान् देवस्तथैव विकृतः प्रभुः।
उवाच शैलराजानं सुतां मे यच्छ शैलराट्॥ ३५.११ ॥

स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम्।
भीतः शापाच् विमना इदं वचनमब्रवीत्॥ ३५.१२ ॥

शैलेन्द्र उवाच
भगवन्नावमन्येऽहं ब्राह्मणान् भुवि देवताः।
मनीषितन्तु यत् पूर्व्वं तच्छृणुष्व महामते॥ ३५.१३ ॥

स्वयंवरो मे दुहितुर्भविता विप्रपूजितः।
वरयेद्यं स्वयं तत्र स भर्त्तस्या भविष्यति॥ ३५.१४ ॥

तच्छ्रुत्वा शैलवचनं भगवान् वृषभध्वजः।
देव्य समीपमागत्य इदमाह महामनाः॥ ३५.१५ ॥

शिव उवाच
देवि पित्रा त्वनुज्ञातः स्वयंवर इति श्रुतिः।
तत्र त्वं वरयित्री यं स ते भर्त्ता भवेदिति॥ ३५.१६ ॥

तदापृच्छ्य गमिष्यामि दुर्लभां त्वां वरानने।
रूपवन्तं समुत्‌सृज्य वृणोष्यसदृशं कथम्॥ ३५.१७ ॥

ब्रह्मोवाच
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम्।
भावञ्च रुद्रनिहितं प्रसादं मनसस्तथा॥ ३५.१८ ॥

सम्पाप्योवाच देवेशं मा तेऽभूद्‌बुद्धिरन्यथा।
अहं त्वां वरयिष्यामि नाद्‌भुतन्तु कथञ्चन॥ ३५.१९ ॥

अथवा तेऽस्ति सन्देहो मयि विप्र कथञ्चन।
इहैव त्वां महाभाग वरयामि मनोगतम्॥ ३५.२० ॥

ब्रह्मोवाच
गुहीत्वा स्तवकं सा तु हस्ताभ्यां तत्र संस्थिता।
स्कन्धे शम्भोः समाधाय देवी प्राह वृतोऽसि मे॥ ३५.२१ ॥

ततः स भगवान् देवस्तया देव्या वृतस्तदा।
उवाच तमशोकं वै वाचा सञ्जीवयन्निव॥ ३५.२२ ॥

शिव उवाच
यस्मात्तव सुपुण्येन स्तवकेन वृतोऽम्यहम्।
तस्मात्त्वं जरया त्यक्तस्त्वमरः सम्भविष्यसि॥ ३५.२३ ॥

कामरूपी कामपूष्पः कामदो दयितो मम्।
सर्व्वाभरणपुष्पाढ्यः सर्व्वपुष्पफलोपगः॥ ३५.२४ ॥

सर्व्वान्नभक्षकश्चैव अमृतस्वाद एव च।
सर्व्वगन्धश्च देवानां भविष्यसि दृढप्रियः॥ ३५.२५ ॥

निर्भयः सर्‌ववलोकेषु भिवष्यसि सुनिर्वृतः।
आश्रमं वेदमत्यर्थं चि६कूटेति विश्रुतम्॥ ३५.२६ ॥

यो हि यास्यति पुण्यार्थो सोऽश्वमेधमवाप्स्यति।
यस्तु तत्र मृतश्चापि ब्रह्मलोकं स गच्छति॥ ३५.२७ ॥

यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत्।
स देव्यास्तपसा युक्तो महागणपतिर्भवेत्॥ ३५.२८ ॥

ब्रह्मोवाच
एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम्।
अन्तद्‌र्दधे जगत्‌स्रष्टा सर्व्वभूतप ईश्वरः॥ ३५.२९ ॥

सापि देवी गते तस्मिन् भगवत्यमितात्मनि।
तत एवोन्मुखी भूत्वा शिलायां सम्बभूव ह॥ ३५.३० ॥

उन्मुखी सा भवे तस्मिन् महेशे जगतां प्रभौ।
निशेव चन्द्ररहिता न बभौ विमनास्तदा॥ ३५.३१ ॥

अथ शुश्राव शब्ञ्च बालस्यार्त्स्य शैलजा।
सरस्युदकसम्पूर्णे समीपे चाश्रमस्य च॥ ३५.३२ ॥

स कृत्वा बालरूपन्तु देवदेवः स्वयं शिवः।
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा॥ ३५.३३ ॥

योगमायां समास्थाय प्रपञ्चोद्भवकारणम्।
तद्रूपं सरसो मध्ये कृत्वैवं समभाषत॥ ३५.३४ ॥

बाल उवाच
त्रातु मां कस्चिदित्याह ग्राहेम हृतचेतसम्।
धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः॥ ३५.३५ ॥

प्रयामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः।
शोचामि न स्वकं देहं ग्राहग्रस्तः सुदुःखितः॥ ३५.३६ ॥

यथा शोचामि पितरं मातरञ्च तपस्विनीम्।
ग्राहगृहीतं मां श्रुत्वा प्राप्तं निधनमुत्सुकौ॥ ३५.३७ ॥

प्रियपुत्रावेकपुत्रौ प्राणान् न्यूनं त्यजिष्यतः।
अहो बत सुकष्टं वै योऽहं बालोऽकृताश्रमः।
अन्तर्ग्राहेण ग्रस्तस्तु यास्यामि निधनं किल॥ ३५.३८ ॥

ब्रह्मोवाच
श्रुत्वा तुदेवीतं नादं विप्रस्याऽऽर्त्तस्य शोभना।
उत्थाय प्रस्थिता तत्र यत्र तिष्ठत्यसौ द्विजः॥ ३५.३९ ॥

सापस्यदिन्दुवदना बालकं चारुरूपिणम्।
ग्राहस्य मुखमापन्नं वेपमानमवस्थितम्॥ ३५.४० ॥

सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम्।
तं गृहीत्वा द्रुतं यातो मध्यं सरस एव हि॥ ३५.४१ ॥

स कृष्यमाणस्तेजस्वी नादमार्त्तं तदाकरोत्।
अथाह देवी दुःखार्त्ता बालं दृष्ट्वा ग्रहावृतम्॥ ३५.४२ ॥

पार्वत्युवाच
ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम्।
विमुञ्चेमं महादंष्ट्र क्षिप्रं भीमपराक्रम॥ ३५.४३ ॥

ग्राह उवाच
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम्।
स आहारो मम पुरा विहितो लोककर्त्तृभिः॥ ३५.४४ ॥

सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे।
ब्रह्मणा प्रेरितो नूनं नैनं मोक्ष्ये कथञ्चन॥ ३५.४५ ॥

देव्युवाच
यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम्।
तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते॥ ३५.४६ ॥

ग्राह उवाच
मा व्ययस्तपसो दवि भृशं बाले शुभानने।
यद्‌ब्रवीमि कुरुश्रेष्ठे तथा मोक्षमवाप्स्यति॥ ३५.४७ ॥

देव्युवाच
ग्राहाधिप वदस्वाशु यत् सतामविगर्हितम्।
तत् कृतं नात्र सन्देहो यतो मे ब्राह्मणाः प्रियाः॥ ३५.४८ ॥

ग्राह उवाच
यत् कृतं वै तपः किञ्चिद्‌भवत्या स्वल्पमुत्तमम्।
तत् सर्वं मे प्रयच्छाऽऽशु ततो मोक्षमवाप्स्यति॥ ३५.४९ ॥

देव्युवाच
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया।
तत्ते सर्वं मया दत्तं बालं मुञ्च महाग्रह॥ ३५.५० ॥

ब्रह्मोवाच
प्रजज्वाल ततो ग्राहस्तपसा तेन भूषितः।ट
आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत्॥ ३५.५१ ॥

उवाच चैवं तुष्टात्मा देवीं लोकस्य धारिणीम्॥ ३५.५२ ॥

ग्राह उवाच
देवि किं कृत्यमेतत्ते सुनिश्चित्य महाव्रते।
तपसोऽप्यर्ज्जनं दुःखं तस्य त्यागो न शस्यते।
गृहाण तप एव त्वं बालं चेमं सुमध्यमे।
तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्‌ददामि त।
सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता॥ ३५.५३ ॥

देव्युवाच
देहेनापि मया ग्राह रक्ष्यो विप्रः प्रयत्नतः।
तपः पुनर्मया प्राप्यं न प्राप्यो ब्राह्मणः पुनः॥ ३५.५४ ॥

सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम्।
न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठं मे ब्राह्मणा मताः॥ ३५.५५ ॥

दत्त्वा चाहं न गृह्‌णामि ग्राहेन्द्र विहितं हि ते।
नहि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत्॥ ३५.५६ ॥

दत्तमेतन्मया तुभ्यं नाऽऽददानि हि तत् पुनः।
त्वय्येव रमतामेतद्‌बालश्चायं विमुच्यताम्॥ ३५.५७ ॥

ब्रह्मोवाच
तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च।
देवीमादित्यावभासस्तत्रैवान्तरधीयत॥ ३५.५८ ॥

बलोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा।
स्वप्नलब्ध इवार्थैघस्तत्रैवान्तरधीयत॥ ३५.५९ ॥

तपसोऽपचयं मत्वा देवी हिमगिरीन्द्रजा।
भूय एव तपः कर्त्तुमारेभे नियमस्थिता॥ ३५.६० ॥

कर्त्तुकामां तपो ज्ञात्वा तां शङ्खरः स्वयम्।
प्रोवाच वचनं विप्रा मा कृथास्तप इत्युत॥ ३५.६१ ॥

मह्यमेतत्तपो देवी त्वया दत्तं महाव्रते।
तत्तेनैवाक्षयं तुभ्यं भविष्यति सहस्रधा॥ ३५.६२ ॥

इति लब्ध्वा वरं देवी तपसोऽक्षयमुत्तमम्।
स्वयंवरमुदीक्षन्ती तस्थौ प्रीता मुदा युता॥ ३५.६३ ॥

इदं पठेद्‌यो हि नरः सदैव, बालनुभावाचरणं हि शम्भोः।
स देहभेदं समवाप्य पूतो भवेद्‌गणेशास्तु कुमारतुल्यः॥ ३५.६४ ॥

इति श्रीब्राह्मे महापुराणे स्वयम्भु-ऋषि-संवादे पार्व्वत्यः सत्त्वदर्शनं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥