ब्रह्मपुराणम्/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२ ब्रह्मपुराणम्
अध्यायः ४३
वेदव्यासः
अध्यायः ४४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

अवन्तिकावर्णन्म्
ब्रह्मोवाच
पुरा कृतयुगे विप्राः शक्रतुल्यपराक्रमः।
बभूव नृपतिः श्रीमानिन्द्रद्युम्न इति श्रुतः॥ ४३.१ ॥

सत्यदादी शुचिर्दक्षः सर्वशास्त्रविशारदः।
रूपवान्सुभगः शूरो दाता भोक्ता प्रियंवदः॥ ४३.२ ॥

यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः।
धनुर्वेदे च वेदे च सास्त्रे च निपुण कृती॥ ४३.३ ॥

वल्लभो नरनारीणां पौर्णमास्यां यथा शशी।
आदित्य इव दुष्प्रेक्ष्यः शत्रुसंघभयंकरः॥ ४३.४ ॥

वैष्णवः सत्त्वसंपन्नो जितक्रोधो जितेन्द्रियः।
अध्येता योगसांख्यानां मुमुक्षुर्धर्मतत्परः॥ ४३.५ ॥

एवं स पालयन्पृथ्वीं राजा सर्वगुणाकरः।
तस्य बुद्धिः समुत्पन्ना हरेराराधनं प्रति॥ ४३.६ ॥

कथमाराधयचिष्यामि देवदेवं जनार्दनम्।
कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाऽऽश्रमे॥ ४३.७ ॥

एवं चिन्तापरः सोऽथ निरीक्ष्य मनसा महीम्।
आलोक्य सर्वतीर्थानि क्षेत्राण्यथ पुराण्यपि॥ ४३.८ ॥

तानि सर्वाणि संत्यज्य जगामाऽऽयतनं पुनः।
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्॥ ४३.९ ॥

स गत्वा तत्क्षेत्रवरं समृद्धबलवाहनः।
अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः॥ ४३.१० ॥

कारयित्वा महोत्सेधं प्रासादं चैव विश्रुतम्।
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान्॥ ४३.११ ॥

पञ्चतीर्थं च विधिवत्कृत्वा तत्र महीपतिः।
स्नानं दानं तपो होमं देवताप्रेक्षणं तथा॥ ४३.१२ ॥

भक्त्या चाऽऽराध्य विधिवत्प्रत्यहं पुरुषोत्तमम्।
प्रसादाद्‌देवदेवस्य ततो मोक्षमवाप्तवान्॥ ४३.१३ ॥

मार्कण्डेयं च कृष्णं च दृष्ट्वा रामं च भो द्विजाः।
सागरे चेन्द्रद्भुम्नाख्ये स्नात्वा मोक्षं लभेद् ध्रुवम्॥ ४३.१४ ॥

मुनय ऊचुः
कस्मात्स नृपतिः पूर्वमिन्द्रद्युम्नो जगत्पतिः।
जगाम परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम्॥ ४३.१५ ॥

गत्वा तत्र सुरश्रेष्ठ कथं स नृपसत्तमः।
वाजिमेधेन विधिवदिष्टवान्पुरुषोत्तमम्॥ ४३.१६ ॥

कथं स सर्वफलदे क्षेत्रे परमदुर्लभे।
प्रासादं कारयामास चेष्टं त्रैलोक्याविश्रुतम्॥ ४३.१७ ॥

कथं स कृष्णं रामं च सुभद्रां च प्रजापते।
निर्ममे राजशार्दूलः क्षेत्रं रक्षितवान्कथम्॥ ४३.१८ ॥

कथं तत्र महीपालः प्रासादे भुवनोत्तमे।
स्थापयामास मतिमान्कृष्णादींस्त्रिदशार्चितान्॥ ४३.१९ ॥

एतत्सर्वं सुरश्रेष्ठ विस्तरेम यताथम्।
वक्तुमर्हस्यशेषेण चरितं तस्य धीमतः॥ ४३.२० ॥

 न तृप्तिमधिगच्छामस्तव वाक्यामृतेन वै।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः॥ ४३.२१ ॥

ब्रह्मोवाच
साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम्।
सर्वपापहरं पुण्यं भिक्तिमुक्तिप्रदं शुभम्॥ ४३.२२ ।
वक्ष्यामि तस्य चरितं यथावृत्तं कृते युगे।
श्रृणुध्वं मुनिशार्दूलाः प्रयताः संयतेन्द्रियाः॥ ४३.२३ ॥

अवन्ती नाम नगरी मालवे भुवि विश्रुता।
बभूव तस्य नृपतेः पृथिवी ककुदोपमा॥ ४३.२४ ॥

हृष्टपुष्टजनाकीर्मा द्वढप्राकारतोरणा।
दृढयन्त्रार्गलद्वारा परिखाभिरलंकृता॥ ४३.२५ ॥

नानाविणिक्समाकीर्णा नानाभाण्डसुविक्रिया।
रथ्यापणवती रम्या सुविभक्तचतुष्पथा॥ ४३.२६ ॥

गृहगोपुरसंबाधा वीथीभिः समलंकृता।
राजहंसनिभैः शुभ्रैश्चित्रग्रीवैर्मनोहरैः॥ ४३.२७ ॥

अनेकशतसास्रैः प्रासादैः समलंकृता।
यज्ञोत्सवप्रमुदिता गीतवादित्रनिस्वना॥ ४३.२८ ॥

नानावर्ण पताकाभिर्ध्वजैश्च समलंकृता।
हस्त्यश्वरथसंकीर्मपदातिगणसंकुला॥ ४३.२९ ॥

नानायोधसमाकीर्णा नानाजनपदैर्युता।
ब्राह्मणैः क्षत्रियैर्वश्यैः शूद्रैश्चैव द्विजातिभिः॥ ४३.३० ॥

समृद्धा सा मुनिश्रेष्ठा विद्वद्भिः समलंकृता।
न तत्र मलिनाः सन्ति न मूर्खा नापि निर्धनाः॥ ४३.३१ ॥

न रोगिणो न हीनाङ्गा न द्यूतव्यसनान्विताः।
सदा हृष्टाः सुमनसो दृश्यन्ते पुरुषाः स्त्रिय॥ ४३.३२ ॥

क्रीडनति स्म दिवा रात्रौ हृष्टास्तत्र पृथक्पृथक्।
सुवेषाः पुरुषास्तत्र दृश्यते मृष्टकुण्डलाः॥ ४३.३३ ॥

सरूपाः सुगुणाश्चैव दिव्यालंकारभूषिताः।
कामदेवप्रतीकाशाः सर्वलक्षणलक्षिताः॥ ४३.३४ ॥

सुकेशाः सुकपोलास्च सुमुखाः श्मश्रुधारिणः।
ज्ञातारः सर्वशास्त्राणां भेत्तारः शत्रुवाहिनीम्॥ ४३.३५ ॥

दातारः सर्वरत्नानां भोक्तारः सर्वसंपदाम्।
स्त्रियस्तत्र मुनिश्रेष्ठा दृस्यन्ते सुमनोहरा॥ ४३.३६ ॥

हंसवारणगामिन्यः प्रफुल्लाम्बोजलोचनाः।
सुमध्यमाः सुजघनाः पीनोन्नतपयोधराः॥ ४३.३७ ॥

सुकेशाश्चारुवदनाः सुकपोलाः स्थिरालकाः।
हावभावानतग्रीवाः कर्णाभरणभूषिताः॥ ४३.३८ ॥

बिम्बोष्ठ्यो रञ्जितमुखास्ताम्बूलेन विराजिताः।
सुवर्णाभरणोपेताः सर्वालंकारभूषिताः॥ ४३.३९ ॥

श्यामावदाताः सुश्रेण्यः काञ्चीनूपुरनादिताः।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः॥ ४३.४० ॥

विदग्धाः सुभगाः कान्ताश्चार्वाङ्ग्‌यः प्रियदर्शनाः।
रूपलाबण्यसंयुक्ताः सर्वाः प्रहसिताननाः॥ ४३.४१ ॥

क्रीडन्त्यश्च मदोन्मत्ताः सभासु चत्वरेषु च।
गीतावाद्यतालापै रमयन्त्यश्व ताः स्त्रियः॥ ४३.४२ ॥

वारमख्यास्च दृश्यन्ते नृत्यगीतविशारदाः।
प्रेक्षणालापकुशलाः सर्वयोषिद्‌गुणान्विताः॥ ४३.४३ ॥

अन्याश्च तत्र दृस्यन्ते गुणाचार्याः कुलस्त्रियः।
पतिव्रताश्च सुभगा गुणैः सर्वैरलंकृताः॥ ४३.४४ ॥

वनैश्चोपवनैः पुण्यैरुद्यानैश्च मनोरमैः।
देवतायतनैर्दिव्यैर्नानाकुसुमशोभितैः॥ ४३.४५ ॥

शालैस्तालैस्तमालैश्च बकुलैर्नागकेसरैः।
पिप्पलैः कर्णिकारैश्च चन्दनागुरु चम्पकैः॥ ४३.४६ ॥

पुंनार्गर्नारिकेरैश्च पनसैः सरलद्रुमैः।
नारङ्गैर्लकुचैर्लोध्रैः सप्तपर्णैः शुभाञ्जनैः॥ ४३.४७ ॥

चूतबिल्वकदम्बैस्च शिंशपैर्धवखादिरैः।
पाटलाशोकतगरैः करवीरैः सितेतरैः॥ ४३.४८ ॥

पीतार्जुनकभल्लातैः सिद्धैराम्रातकैस्तथा।
न्यग्रोधास्वत्थकाश्मर्यैः पलाशैर्देवदारुभिः॥ ४३.४९ ॥

मन्दारैः पारिजातैश्च तिन्तिडीकविबीतकैः।
प्राचीनामलकैः प्लक्षैर्जम्बूसिरीषपादपैः॥ ४३.५० ॥

कालेयैः पाञ्चनारैश्च मधुजम्बीरतिन्दुकैः।
खर्जुरागस्त्यबकुलैः शाखोटकहरोतकैः॥ ४३.५१ ॥

कङ्कोलैर्मुचुकुन्दैश्च हिन्तालैर्बीदजपूरकैः।
केतकीवनखण्डैश्च अतिमुक्तैः सुकब्जकैः॥ ४३.५२ ॥

मल्लिकाकुन्दबाणैश्च कदलीखण्डमण्डितैः।
मातुलुङ्गैः पूगफलैः करुणैः सिन्धुवारकैः॥ ४३.५३ ॥

बहुवारैः कोविदारैर्वदरैः सकरञ्जकैः।
अन्यैश्च विविधैः पुष्पवृक्षैश्चान्यैर्मनोहरैः॥ ४३.५४ ॥

लतागुल्मैर्वितानैस्च उद्यानैर्नन्दनोपमैः।
सदा कुसुमगन्धाढ्यैः सदा फलभरानतैः॥ ४३.५५ ॥

नानापक्षिरुतै रम्यैर्नानामृगगणावृतैः।
चकोरैः शतपत्रैश्च भृङ्गारैः प्रियपुत्रकैः॥ ४३.५६ ॥

कलविङ्कैर्मयूरैश्च शुकैः कोकिलकैस्तथा।
कपोतैः खञ्जरीटैश्च श्येनैः पारावतैस्तथा॥ ४३.५७॥
खगैश्चान्यैर्बहुविधैः श्रोत्ररम्यैर्मनोरमैः।
सरितः पुष्कपिम्यश्च सरांसि सुबहूनि च॥ ४३.५८ ॥

अन्यैर्जलाशयैः पुण्यैः कुमुदोत्पलमण्डितैः।
पद्मैः सितेतरैः शुभ्रैः कह्लारैश्च सुगन्धिभिः॥ ४३.५९ ॥

अन्यैर्बहुविधैः पुष्पैर्जलजैः सुमनोहरैः।
गन्धामोदकरैर्दिव्यैः सर्वर्तुकुसुमोज्जवलैः॥ ४३.६० ॥

हंसकारण्डवाकीर्णैस्चक्रवाकोपशोभितैः।
सारसैश्च बलसाकैश्च कूर्मैर्मत्स्यैः सनक्रकैः॥ ४३.६१ ॥

जलपादैः कदम्बैश्च प्लवैश्च जलकुक्कुटैः।
खगैर्जलचरैश्चान्यैर्नानारवविभूषितैः॥ ४३.६२ ॥

नानावर्णैः सदा हृष्टैरञ्चितानि समन्ततः।
एवं नानाविधैः पुष्पैर्विविधैस्च जलाशयैः॥ ४३.६३ ॥

विविधैः पादपैः पुण्यैरुद्यानैर्विविधैस्तथा।
जलस्थलचरैश्चैव विहगैश्चार्वधिष्ठतैः॥ ४३.६४ ॥

देवतायतनैर्दिव्यैः शोबिता सा महापुरी।
तत्राऽऽस्ते भगवान्देवस्त्रिपुरारिस्त्रिलोचनः॥ ४३.६५ ॥

महाकालेति विख्यातः सर्वकामप्रदः शिवः।
शिवकुण्डे नरः स्नात्वा विधिवत्पापनाशने॥ ४३.६६ ॥

देवान्पितॄनृषींश्चैव संतर्पय विधिवद्‌बुधः।
गत्वा शिवालयं पश्चात्कृत्वा तं त्रिःप्रदक्षिणम्॥ ४३.६७ ॥

प्रविश्य संयतो भूत्वा धौतवासा जितेन्द्रियः।
स्नानैः पुष्पैस्तथा गन्धैर्धूपैर्दोपैश्च भक्तितः॥ ४३.६८ ॥

नैवेद्यैरुपहारैश्च गीतवाद्यैः प्रदक्षिणैः।
दण्डवत्प्रणिपातैश्च नृत्यैः स्तोत्रैस्च शंकरम्॥ ४३.६९ ॥

संपूज्य विधिवद्भवात्या महाकालं सकृच्छिवम्।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः॥ ४३.७० ॥

पापैः सर्वैर्विनिर्मुक्तो विमानैः सर्वकामिकैः।
आरुह्य त्रिदिवं याति यत्र शंभोर्निकेतनम्॥ ४३.७१ ॥

दिव्यरूपधरः श्रीमान्दिव्यालंकारभूषितः।
भुङ्क्ते तत्र वरान्भोगान्यावदाभूतसंप्लवम्॥ ४३.७२ ॥

शिवलोके मुनिश्रेष्ठा जरामरणवर्जितः।
पुण्यक्षयादिहाऽऽयातः प्रवरे ब्राह्मणे कुले॥ ४३.७३ ॥

चतुर्वेदी भवेद्विप्रः सर्वशास्त्रविशारदः।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात्॥ ४३.७४ ॥

आस्ते तत्र नदी पुण्या शिप्रा नामेति विश्रुता।
तस्यां स्नातस्तु विधिवत्संतर्प्य पितृदेवताः॥ ४३.७५ ॥

सर्वपापविनिर्मुक्तो विमानवरमास्थितः।
भुङ्क्ते बहुविदान्भोगान्स्वर्गलोके नरोत्तमः॥ ४३.७६ ॥

आस्ते तत्रैव भगवान्देदेवो जनार्दनः।
गोविन्दस्वामिनामाऽसौ भुक्तिमुक्तिप्रदो हरिः॥ ४३.७७
तं दृष्ट्वा मुक्तिमाप्नोति त्रिसप्तकुलसंयुतः।
विमानेनार्कवर्णेन किङ्किणीजालमालिना॥ ४३.७८ ॥

सर्वकामसमृद्धेन कामगेनास्थिरेम च।
उपगीयमानो गन्धर्वैर्विष्णुलोके महीयते॥ ४३.७९ ॥

भुङ्क्ते च विविधान्कामान्निरातङ्को गतज्वरः।
आभूतसंप्लवं यावत्सुरूपः सुभगः सुखी॥ ४३.८० ॥

कालेनाऽऽगत्य मतिमान्ब्राह्मणः स्यान्महीतले।
प्रवरेयोगिनां गेहे वेदशास्त्रार्थतत्त्ववित्॥ ४३.८१ ॥

वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।
विक्रमस्वामिनामानं विष्णुं तत्रैव भो द्विजाः॥ ४३.८२ ॥

दृष्ट्वा नरो नारी वा फलं पूर्वोदितं लभेत्।
अन्येऽपि तत्र तिष्ठन्ति देवाः शक्रपुरोगमाः॥ ४३.८३ ॥

मातरश्च मुनिश्रेष्ठा सर्वकामफलप्रदाः।
दृष्ट्वा तान्विधिवद्‌भक्त्या संपूज्य प्रणिपत्य च॥ ४३.८४ ॥

सर्वपापिविनिर्मुक्तो नरो याति त्रिविष्टपम्।
एवं सा नगरी रम्या रादजसिंहेन पालिता॥ ४३.८५ ॥

नित्योत्सवप्रमुदिता यथेन्द्रस्यामरावती।
पुराष्टादशसंयुक्ता सुविस्तीर्णचतुष्पथा॥ ४३.८६ ॥

धनुर्ज्याघोषनिनदा सिद्धसंगमभूषिता।
विद्यावद्‌गमभूयिष्ठा वेदनिर्घोषनादिता॥ ४३.८७ ॥

इतिहासपुराणानि शास्त्राणि विविधानि च।
काव्यालापकथाश्चैव श्रूयन्तेऽहर्निशं दिजाः॥ ४३.८८ ॥

एवंमयागुणाढ्या सा तदु (सोज्जः यिनी समुदाहृता।
यस्यां राजाऽभवत्पूर्वमिन्द्रद्युम्नो महामतिः॥ ४३.८९ ॥

इति श्रीमहापुराणे आदिब्राह्ये स्वयंभुऋषिसंवादेऽवन्तिकावर्णनं नाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥