ब्रह्मपुराणम्/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८ ब्रह्मपुराणम्
अध्यायः ४९
वेदव्यासः
अध्यायः ५० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

इन्द्रद्युम्नकृतभगवत्सतुतिः
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात्॥ ४९.१ ॥

निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम।
संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर॥ ४९.२ ॥

नमस्ते हेमगर्भाभ नमस्ते मकारध्वज।
रतिकान्त नमस्तेऽस्तु त्राहि मां संवरान्तक॥ ४९.३ ॥

नमस्तेऽञ्जनसंकाश नमस्ते विबुधप्रिय।
नारायण नमस्तेऽस्तु त्राहिं मां वरदो भव॥ ४९.४ ॥

नमस्ते विबुधावास नमस्ते विबुधप्रिय।
नारायण नमस्तेऽस्तु त्राहिं मां शरणागतम्॥ ४९.५ ॥

नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गायुध।
चतुर्मुख जगद्धाम त्राहिं मां प्रपितामह॥ ४९.६ ॥

नमस्ते नीलमेघाभ नमस्ते त्रदशार्जित।
त्राहिं विष्णो जगन्नाथ मग्नं मां भवसागरे॥ ४९.७ ॥

प्रलयानलसं काश नमस्ते दितिजान्तक।
नरसिंह महावीर्य त्राहि मां दीप्तलोचन॥ ४९.८ ॥

यथा रसातलादुर्वीं त्वया दंष्ट्रोद्धृता पुरा।
तथा महावराहस्त्वं त्राहि मांदुःखसागरात्॥ ४९.९ ॥

तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया।
तवेमेबलदेवाद्याः पृथग्रूपेण संस्थिताः॥ ४९.१० ॥

अङ्गानि तव देवेश गरुत्माद्यास्तता प्रभो।
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाऽच्युत॥ ४९.११ ॥

ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः।
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन॥ ४९.१२ ॥

मयाऽर्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः।
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम्॥ ४९.१३ ॥

भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः।
तव पूर्जार्थसंभूतास्ततस्त्वयि समाश्रिताः॥ ४९.१४ ॥

न भेदस्तव देवेश विद्यते परमार्थतः।
विविधं तव यद्रूपमुक्तं तदुपचारतः॥ ४९.१५ ॥

अद्वैतं त्वां कथं द्वैतं वक्तुं शक्रोतिमानवः।
एकस्त्वं हि हरे व्यापी चित्स्वबावो निरञ्जनः॥ ४९.१६ ॥

परमं तव यद्रुपं भावाभावविवर्जितम्।
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम्॥ ४९.१७ ॥

सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम्।
तद्‌देवास्च न जानन्ति कथं जानाम्यहं प्रभोः॥ ४९.१८ ॥

अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम्।
शङ्खचक३गदापाणिमुकुटाङ्गदधारिणम्॥ ४९.१९ ॥

श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्।
तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः॥ ४९.२० ॥

देवदेव सुरश्रेष्ठ भक्तानामभयप्रद।
त्राहि मां पद्मपत्राक्ष मग्नं विषयसागरे॥ ४९.२१ ॥

जान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे।
त्वामृते कमलाकान्त प्रसीद मधुसूदन॥ ४९.२२ ॥

राव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः।
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः॥ ४९.२३ ॥

पतितोऽहं महारौद्रे घोरे संसारसागरे।
विषमोदकदुष्पारे रागद्वेषझषाकुले॥ ४९.२४ ॥

इन्द्रियावर्तगम्भीरे तृष्णशोकोर्मिसंकुले।
निराश्रये निरालम्बे निःसारेऽत्यन्तच्ञ्च्ले॥ ४९.२५ ॥

मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो।
नानाजातिसहस्रेषु जयमानः पुनः पुनः॥ ४९.२६ ॥

मया जन्मान्यनेकानि सहस्राण्ययुतानि च।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन॥ ४९.२७ ॥

वेदाः साङ्ग मयाऽधीताः शास्राण्ययुतानि च।
विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन॥ ४९.२८ ॥

असंतोषाश्च संतोषाः संचयापचया व्ययाः।
मया प्राप्ता जगन्नाथ क्षयवृद्‌ध्यक्षयेतराः॥ ४९.२९ ॥

भार्यारिमित्रबन्धूनां वियोगाः संगमास्तता।
पितरो विविधा दृष्टा मातरस्च तथा मया॥ ४९.३० ॥

दुःखानि चानुबूतानि यानि सौख्यान्यनेकशः।
प्राप्ताश्च बान्धवाः पुत्रा भ्रातरोज्ञतयस्तथा॥ ४९.३१ ॥

मयोषितं तथा स्त्रीणां कोष्ठे विण्मुत्रपिच्छले।
गर्भवासे महादुःखमनुभूतं तथा प्रभो॥ ४९.३२ ॥

दुःखानि यान्यनेकानि बाल्ययौवनागोचरे।
वार्धके च हृषीकेश तानि प्राप्तानि वै मया॥ ४९.३३ ॥

मरणे यानि दुःखानि यममार्गे यमालये।
मया तान्यनुभूतानि नरके यातनास्तथा॥ ४९.३४ ॥

कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम्।
महिषोष्ट्गवां चैव तथाऽन्येषां वनौकसाम्॥ ४९.३५ ॥

द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु।
धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम्॥ ४९.३६ ॥

नृपाणां नृपभृत्यानां तथाऽन्येषां च देहिनाम्।
गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः॥ ४९.३७ ॥

गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम्।
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः॥ ४९.३८ ॥

हतो मया हताश्चान्ये घातितो घातिततास्तथा।
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः॥ ४९.३९ ॥

पितृमातृसुहहृद्‌भ्रातृकलत्राणां कृतेन च।
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम्॥ ४९.४० ॥

उक्तं दैन्यं च विविधं त्यक्त्वा लज्जां जनार्दन।
देवतिर्ङ्मनुष्येषु स्थावरेषु चरेषु च॥ ४९.४१ ॥

न विद्यते तथा स्थानं यत्राहं न गतः प्रभो।
कदा मे नरके वासः कदा स्वर्गे जगत्पते॥ ४९.४२॥

कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च।
जलयन्त्रे यता चक्रे घटी रज्जुनिबन्धना॥ ४९.४३ ॥

याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति।
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमाव-तः॥ ४९.४४ ॥

भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित्।
न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः॥ ४९.४५ ॥

शोकतष्णाभिबूतोऽहं कांदिशीको विचेतनः।
इदानीं त्वामहं देव विह्‌वलः शरणं गतः॥ ४९.४६ ॥

त्राहि मां दुःखतं कृष्ण मग्नं संसारसागरे।
कृपां कुरु जगन्नाथ भक्तं मं यदि मन्यसे॥ ४९.४७ ॥

त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे।
कृपां कुरु जगन्नात भक्तं मां यदि मन्यसे॥ ४९.४८ ॥

त्वदृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति।
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित्॥ ४९.४९ ॥
जीविते मरणे चैव योगक्षेणेऽथ वा प्रभो।
ये तु त्वां विधिवद्‌देव नार्चयन्ति नराधमाः॥ ४९.५० ॥

सुगतिस्तु कथं तेषां भवेत्संसारबन्दनात्।
किं तेषां कुलशीलेन विद्यया जीवितेन च॥ ४९.५१ ॥

येषां न जायते भक्तिर्जगद्धातरि केशवे।
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः॥ ४९.५२ ॥

पतन्ति नरके घोरे जायमानाः पुनः पुनः।
न तेषां निष्कृकिस्तस्माद्विद्यते नरकार्णवात्॥ ४९.५३ ॥

ये दूषयन्तित दुर्वृत्तास्त्वां देव पुरूषाधमाः।
यत्र यत्र भवेज्जन्म मम क्रमनिबन्धनात्॥ ४९.५४ ॥

तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा।
आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः॥ ४९.५५ ॥

अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत्।
न शक्नुवन्ति ब्रह्माद्याः स्तेतुं त्वां त्रिदसा हरे॥ ४९.५६ ॥

कथं मानुषबुद्ध्‌याऽहं स्तौमि त्वां प्रकृते परम्।
तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो॥ ४९.५७ ॥

तत्क्षमस्वापराधं मे यदि तेऽस्ति दया मयि।
कृपापराधेऽपि हरे क्षमां कुर्वन्ति साधवः॥ ४९.५८ ॥

तस्मात्प्रसीद देवेश भक्तस्नेहं समाश्रितः।
स्तुतोऽसि यन्मया देव भक्ति भावेन चेतसा॥
साङ्गं भवतु ततसर्वं वासुदेव नमोऽस्तु ते॥ ४९.५९ ॥

ब्रह्मोवाच
इत्थं स्तुतास्तदा तेन प्रसन्नो गरुडध्वजः।
ददौ तस्मै मुनिश्रेष्ठाः सकलं मनसेप्सितम्॥ ४९.६० ॥

यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः।
स्तोत्रेणानेन मतिमान्स मोक्षं लभते ध्रुवम्॥ ४९.६१ ॥

त्रिसंध्यं यो जपेद्विद्वानिदं स्तोत्रवरं शुचिः।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः॥ ४९.६२ ॥

यः पठेच्छृणुयाद्वाऽपि श्रावयेद्वा समाहितः।
स लोकं शाश्वतं विष्णोर्याति निर्धूतकल्मषः॥ ४९.६३ ॥

धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम्।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्यचित्॥ ४९.६४ ॥

न नास्तिकाय मूर्खाय न कृतध्नाय मानिने।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन॥ ४९.६५ ॥

दातव्यं भक्तियुक्ताय गुणशीलान्विताय च।
विष्णुभक्ताय शान्ताय श्रद्धानुष्ठानशालिने॥ ४९.६६ ॥

इदं समस्ताघविनाशहेतुः, कारुण्यसंज्ञं सुखमोभदं च।
अशेषवाञ्छाफलदं वरिष्ठं, स्तोत्रं मयोक्तं पुरुषोत्तमस्य ॥ ४९.६७ ॥

ये तं सुसूक्ष्मं विमला मुरारिं, ध्यायन्ति नित्यं पुरषं पुराणम्।
ते मुक्तिभाजः प्रविशनति विष्णुं, मन्त्रैर्यथाऽऽज्यं हुतमध्वराग्नौ॥ ४९.६८ ॥

एकः स देवो भवदुःखहन्ता, परः परेषां न ततोऽस्ति चान्यत्।
द्र (स्र) ष्टा स पाता स तु नाशकर्ता, विष्णुः समस्ताखिलसारभूतः॥ ४९.६९ ॥

किं विद्यया किं स्वगुणैस्च तेषां, यज्ञैश्च दानैश्च तपोभिरुग्रैः।
येषां न भक्तिर्भवतीह कृष्णे, जगद्‌गुरौ मोक्षसुखप्रदे च॥ ४९.७० ॥

लोके स धन्यः स शुचिः स विद्वान् मखैस्तपोभिः स गुणैर्वरिष्ठः।
ज्ञाता स दाता स तु स्त्यवक्ता, यस्यास्ति भक्तिः पुरुषोत्तमाख्ये॥ ४९.७१ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे कारुण्यस्तवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः॥ ४९ ॥