ब्रह्मपुराणम्/अध्यायः १७७
← अध्यायः १७६ | ब्रह्मपुराणम् अध्यायः १७७ वेदव्यासः |
अध्यायः १७८ → |
पुरुषोत्तमक्षेत्रमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम्।
भुक्तिमुक्तप्रदं नॄणां प्रोक्तं सुदुर्लभम्।। १७७.१ ।।
यत्राऽऽस्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः।
पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः।। १७७.२ ।।
ये तत्र कृष्णं पस्यनति सुरासुरनमस्कृतम्।
संकर्षणं सुभद्रां च धन्यास्ते नात्र संशयः।। १७७.३ ।।
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम्।
ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः।। १७७.४ ।।
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम्।
कृष्णे रताः कृष्ममनुस्मरन्ति, रात्रौ च कृष्णं पुनरुत्थिता ये।
ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशनम्।। १७७.५ ।।
तस्मात्सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः।
तस्मिन्क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः।। १७७.६ ।।
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः।
हलायुधं सुभद्रां हरेः स्थानं व्रजन्ति ते।। १७७.७ ।।
सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम्।
रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते।। १७७.८ ।।
आस्ते यश्चतुरो मासान्वार्षिकान्तपुरुषोत्तमे।
पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम्।। १७७.९ ।।
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः।
जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम्।। १७७.१० ।।
तपस्तप्त्वाऽन्यतीर्थेषु वर्षाणामयुतं नरः।
यदाप्नोति तदाप्नोति मासेन पुरुषोत्तमे।। १७७.११ ।।
तपसा ब्रह्मचर्येण सङ्गात्यागेन यत्फलम्।
तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः।। १७७.१२ ।।
सर्वतीर्थेषु यत्पुण्यं स्नानदानेन कीर्तितम्।
तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः।। १७७.१३ ।।
सम्यक्तीर्थेन यत्प्रोक्तं व्रतेन नियमेन च।
तत्फलं लभते तत्र प्रत्यहं प्रयतः शुचिः।। १७७.१४ ।।
यस्तु नानविधैर्यज्ञैर्यत्फलं लभते नरः।
तत्फलं लभते तत्र प्रत्यहं संयतेन्द्रियः।। १७७.१५ ।।
देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे।
कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः।। १७७.१६ ।।
वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम्।
ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः।। १७७.१७ ।।
अनिच्छन्नपि यस्तत्र पाणांस्त्यजति मानवः।
सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम्।। १७७.१८ ।।
कृमिकीटपतङ्गाद्यास्तिर्यग्योनिगताश्च ये।
तत्र देहं परित्यज्य ते यान्ति परमां गतिम्।। १७७.१९ ।।
भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः।
पुरुषाख्येन यत्प्राप्तमन्यतीर्थफलदिकम्।। १७७.२० ।।
सकृत्पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम्।
पुरुषाणां सहस्रेषु स भवेदुत्तमः पुमान्।। १७७.२१ ।।
प्रकृते स परो यस्मात्पुरुषादपि चोत्तमः।
तस्माद्वेदे पुराणे च लोकेऽस्मिन्पुरुषोत्तमः।। १७७.२२ ।।
योऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः।
आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः।। १७७.२३ ।।
पथि श्मशाने गृहमण्डपे वा, रथ्याप्रदेशेष्वपि यत्र कुत्र।
इच्छन्ननिच्छन्नपि तत्र देहं, संत्यज्य मोक्षं लभते मनुष्यः।। १७७.२४ ।।
तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे द्विजोत्तमाः।
देहत्यागो नरैः कार्यः सम्यङ्मोक्षाभिकाङ्क्षिभिः।। १७७.२५ ।।
पुरुषाख्यास्य महात्म्यं न भूतं न भविष्यति।
त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम्।। १७७.२६ ।।
गुणानामेकदेशोऽयं मया क्षेत्रस्य कीर्तितः।
कः समस्तान्गुणान्वक्तुं शक्तो वर्षशतैरपि।। १७७.२७ ।।
यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम्।
तस्मिन्क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः।। १७७.२८ ।।
व्यास उवाच
ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः।
निवासं चक्रिरे तत्र अवापुः परमं पदम्।। १७७.२९ ।।
तस्माद्यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः।
पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ।। १७७.३० ।।
इति श्रीमहापुराणे आदिब्राह्मे ऋषिसंवादे क्षेत्रमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोध्यायः।। १७७ ।।