ब्रह्मपुराणम्/अध्यायः १५७
← अध्यायः १५६ | ब्रह्मपुराणम् अध्यायः १५७ वेदव्यासः |
अध्यायः १५८ → |
किष्किन्धातीर्थवर्णनम्
ब्रह्मोवाच
किष्किन्धातीर्थमाख्यातं सर्वकामप्रदं नृणाम्।
सर्वपापप्रशमनं यत्र संनिहितो भवः।। १५७.१ ।।
तस्य स्वरूपं वक्ष्यामि यत्नेन श्रृणु नारद।
पुरा दाशरथी रामो रावणं लोकरावणम्।। १५७.२ ।।
किष्किन्धावासिभिः सार्धः जघान रणमूर्धनि।
सुपुत्रं सबलं हत्वा सीतामादाय शत्रुहा।। १५७.३ ।।
भ्रात्रा सौमित्रिणा सार्धं वानरैश्च महाबलैः।
विभीषणएन बलिना देवैः प्रत्यागतो नृपः।। १५७.४ ।।
कृतस्वस्त्ययनः श्रीमान्पुष्पकेण विराजितः।
यदासीद्धनराजस्य कामगेनाऽऽशुगामिना।। १५७.५ ।।
अयोध्यामगमन्सर्वे गच्छन्गङ्गामपश्यत।
रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम्।। १५७.६ ।।
गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम्।
मनोनयनसंतापनिवारणपरायणाम्।। १५७.७ ।।
तां दृष्ट्वा नृपतिः श्रीमान्गङ्गातीरमथाऽऽविशत्।
तां दृष्ट्वा प्राह नृपतिर्हर्षगद्गदया गिरा।।
हरीन्सर्वानथाऽऽमन्त्र्य हनुमत्प्रमुखान्मुने।। १५७.८ ।।
राम उवाच
अस्याः प्रभावद्धरयो याऽसौ मम पिता प्रभुः।
सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम्।। १५७.९ ।।
इयं जनित्री सकलस्य जन्तोर्भुक्तिप्रदा मुक्तिमथापि दद्यात्।
पापानि हन्यादपि दारुणानि, काऽन्याऽनयाऽस्त्यत्र नदी समाना।। १५७.१० ।।
हतानि शश्वद्दुरितानि चैव, अस्याः प्रभावादरयः सखायः।
विभीषणो मैत्रमुपैति नित्यं, सीता च लब्धा हनूमांश्च बन्धुः।। १५७.११ ।।
लङ्का च भग्ना सगणं हि रक्षो, हतं हि यस्याः परिसेवनेन।
यां गौतमो देववरं प्रपूज्य, शिवं शरण्यं सजटामवाप।। १५७.१२ ।।
सेयं जनित्री सकलेप्सितानाममङ्गलानामपि संनिहन्त्री।
जगत्पवित्रीकरणैकदक्षा, दृष्टाऽद्य साक्षात्सरितां सवित्री।। १५७.१३ ।।
कायेन वाचा मनसा सदैनां, व्रजामि गङ्गां शरणं शरण्याम्।। १५७.१४ ।।
ब्रह्मोवाच
एतत्समाकर्ण्य वचो नृपस्य, तत्राऽऽप्लवन्हरयः सर्व एव।
पूजां चक्रुर्विधिवत्ते पृथक्च, पुष्पैरनेकैः सर्वलोकोपहारैः।। १५७.१५ ।।
संपूज्य सर्वं नृपतिर्यथावत्स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः।
ते वानरा मुदिताः सर्व एव, नृत्यं च गीतं च तथैव चक्रुः।। १५७.१६ ।।
सखोषितस्तां रजनीं महात्मा, प्रियानुयुक्तः संवृतः प्रेमवद्भिः।
दुःखं जहौ सर्वममित्रसभवं, किं नाऽऽप्यते गौतमीसेवनेन।। १५७.१७ ।।
सविस्मयः पश्यति भृत्यवर्गं, गोदावरीं स्तौति च संप्रहृष्टः।
संमानयन्भृत्यगणं समग्रमवाप रामः कमपि प्रमोदम्।।
पुनः प्रभाते विमले तु सूर्ये, विभीषणो दाशरथिं बभाषे।। १५७.१८ ।।
विभीषण उवाच
नाद्यापि तृप्तास्तु भवाम तीर्थे, कंचिच्च कालं निवसाम चात्र।
वत्स्य(सा)म चात्रैव पराश्चतस्रो, रात्रीरथो याम वृतास्त्वयोध्याम।। १५७.१९ ।।
ब्रह्मोवाच
तस्याथ वाक्यं हरयोऽनुमेनिरे, तथैव रात्रीरपराश्चतस्रः।
संपूज्य देवं सकलेश्वरं तं, भ्रातृप्रियं तीर्थमथो जगाम।। १५७.२० ।।
सिद्धेश्वरं नाम जगत्प्रसिद्धं, यस्य प्रभावात्प्रबलो दशास्यः।
एवं तु पञ्चाहमथोषिरे ते, स्वं स्वं प्रतिष्ठापितलिङ्गामर्च्य।। १५७.२१ ।।
शुश्रुषणं तत्र करोति वायोः, सुतोऽनुगामी हनुमान्नृपस्य।
गच्छन्नृपेन्द्रो हनुमन्तमाह, लिङ्गानि सर्वाणि विसर्जयस्व।। १५७.२२ ।।
मत्स्थापितान्युत्तममन्त्रविद्भिस्तथेतरैः शंकरकिंकरैश्च।
नोद्वास्य पूजां परशंकरेण, बाह्यं समायोज्यमहो भवस्य(?)।। १५७.२३ ।।
तिष्ठन्ति सुस्थास्तदनादरेण, ते खड्गपत्रादिषु संभवन्ति।
येऽश्रद्दधानाः शिवलिङ्गपूजां, विधाय कृत्यं न समाचरन्ति।। १५७.२४ ।।
यथोचितं ते यमकिंकरैर्हि, पच्यन्त एवाखिलदुर्गतीषु।
रामाज्ञया वायुसुतो जगाम, दोर्भ्यां न चोत्पाटयितुं शशाक।। १५७.२५ ।।
ततः स्वपुच्छेन ग्रहीतुकामः, संवेष्ट्य लिङ्गं तु विसृष्टकामः।
नैवाशकत्तन्महदद्भुतं स्यात्कपीश्वराणां नृपतेस्तथैव।। १५७.२६ ।।
कश्चालयेल्लब्धमहानुभावं, महेशलिङ्गं पुरुषो मनस्वी।
तन्निश्चलं प्रेक्ष्य महानुभावो, नृपप्रवीरः सहसा जगाम।। १५७.२७ ।।
विप्रानथाऽऽमन्त्र्य विधाय पूजां, प्रदक्षिणीकत्य च रामचन्द्रः।
शुद्धतिशुद्धेन हृदाऽखिलैस्तैर्लिङ्गानि सर्वाणि ननाम रामः।। १५७.२८ ।।
किष्किन्धवासिप्रवरैरशेषैः, संसेवितं तीर्थमतो बभव।
अत्राऽऽप्लवादेव महानति पापान्यपि क्षयं यान्ति न संशयाऽत्र।। १५७.२९ ।।
पुनश्च गङ्गां प्रणनाम भक्त्या, प्रसीद मातर्मम गौतमीति।
जल्पन्मुहुर्विस्मितचित्तवृत्तिर्विलोक्यन्प्रणमन्गौतमीं तात्।। १५७.३० ।।
ततः प्रभृत्येतदतीव पुण्यं, किष्किन्धतीर्थं विबुधा वदन्ति।
पठेत्स्मरेद्वाऽपि शृणोति भक्त्या, पापापहं किं पुनः स्नानदानैः।। १५७.३१ ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये किष्किन्धातीर्थवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः।। १५७ ।।
गौतमीमाहात्म्येऽष्टाशीतितमोऽध्यायः।। ८८ ।।