ब्रह्मपुराणम्/अध्यायः ८३
← अध्यायः ८२ | ब्रह्मपुराणम् अध्यायः ८३ वेदव्यासः |
अध्यायः ८४ → |
अथ त्र्यशीतितमोऽध्यायः
दशाश्वमेधतीर्थवर्णनम्
ब्रह्मोवाच
दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने।
यस्य श्रवणमात्रेण हयमेधफलं लभेत्।। ८३.१ ।।
विश्वकर्मसुतः श्रीमान्विश्वरूपो महाबलः।
तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः।। ८३.२ ।।
पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः।
तमपृच्छन्महाबाहुर्भौवनः सार्वभौवनः।। ८३.३ ।।
यक्ष्येऽहं हयमेधैश्च युगपद्दशभिर्मुने।
इत्यपृच्छद्गृरुं विप्रं क्व यक्ष्यामि सुरानिति।। ८३.४ ।।
सोऽवदद्देवयजनं तत्र तत्र नृपोत्तम।
यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून्।। ८३.५ ।।
तत्राभवन्नृषिगणा आर्त्विज्ये मखमण्डले।
युगपद्दशमेधानि प्रवृत्तानि पुरोधसा।। ८३.६ ।।
पूर्णतां नाऽऽययुस्तानि दुष्ट्वा चिन्तापरो नृपः।
विहाय देवयजनं पुनरन्यत्र तान्क्रतून्।। ८३.७ ।।
उपाक्रमत्तथा तत्र विघ्नदोषास्तमाययुः।
दृष्ट्वाऽपूर्णंस्ततो यज्ञान्राजा गुरुभाषत।। ८३.८ ।।
राजोवाच
देशदोषात्कालदोषान्मम दोषात्तवापि वा।
पूर्णतां नाऽऽप्नुवन्ति स्म दशमेधानि वाजिनः।। ८३.९ ।।
ब्रह्मोवाच
ततश्च दुःखितो राजा कश्यपेन पुरोधसा।
गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः।। ८३.१० ।।
कश्यपभौवनावूचतुः
भगवन्युगपत्कार्याण्यश्वमेधानि मानद।
दश संपूर्णतां यान्ति तं देशं तं गुरुं वद।। ८३.११ ।।
ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो तदा।
अब्रवीद्गच्छ ब्रह्माणं गुरुं वदिष्यति।। ८३.१२ ।।
भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना।
आगत्य मामब्रवीच्च गुरुं देशादिकं च यत्।। ८३.१३ ।।
ततोऽहमब्रवं पुत्र भौवनं कश्यपं तथा।
गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान्।। ८३.१४ ।।
अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः।
गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः।। ८३.१५ ।।
एकेन हयमेधेन तत्र स्नानेन वा पुनः।
सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः।। ८३.१६ ।।
तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात्।
कश्यपेन सहायेन हयमेधाय दीक्षितः।। ८३.१७ ।।
ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ।
संपूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः।। ८३.१८ ।।
ततोऽन्तरिक्षे वागुच्चैरुवाच नृपसत्तमम्।
पूजयित्वा स्थितं विप्रानृत्विजोऽथ सदस्पतीन्।। ८३.१९ ।।
आकाशवगुवाच
पुरोधसे कश्यपाय सशैलवनकाननाम्।
पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृपः।। ८३.२० ।।
भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम्।
नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते।। ८३.२१ ।।
विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने।
त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः।।
कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा।। ८३.२२ ।।
ब्रह्मोवाच
तथाऽपि दातुकामं तं मही प्रोवाच भौवनम्।। ८३.२३ ।।
पृथिव्युवाच
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः।
निमज्जेऽहं सलिलस्य मध्ये तस्मान्न दीयताम्।। ८३.२४ ।।
ब्रह्मोवाच
ततश्च भौवनो भीतः किं देयमिति चाब्रवीत्।
पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम्।। ८३.२५ ।।
भूम्युवाच
तिला गावो धनं धान्यं यत्किंचिद्गौतमीतटे।
सर्वं तदक्षयं दानं किं मां भौवन दास्यसि।। ८३.२६ ।।
गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः।
तेनाहं सकला दत्ता किं मां भौवन दास्यसि।। ८३.२७ ।।
ब्रह्मोवाच
तद्भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः।
तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात्सुविस्तरम्।। ८३.२८ ।।
ततः प्रभृति तत्तीर्थं दशाश्वमेधिकं विदुः।
दशानामश्वमेधानां फलं स्नानागदवाप्यते।। ८३.२९ ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये दशाश्वमेधतीर्थवर्णनं नाम त्र्यशीतितमोऽध्यायः।। ८३ ।।
गौतमीमाहात्म्ये चतुर्दशोऽध्यायः।। १४ ।।