ब्रह्मपुराणम्/अध्यायः ६२
← अध्यायः ६१ | ब्रह्मपुराणम् अध्यायः ६२ वेदव्यासः |
अध्यायः ६३ → |
अथ द्विषष्टितमोऽध्यायः
समुद्रस्नानमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम्।
प्रणम्य शिरसा पश्चात्सागरं च प्रसादयते।। ६२.१ ।।
प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते।
तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय।। ६२.२ ।।
स्नात्वैवं सागरे सम्यक्तस्मिन्क्षेत्रवरे द्विजाः।
तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम्।। ६२.३ ।।
रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम्।
शतानामश्वमेधानां फलं प्राप्नोति मानवः।। ६२.४ ।।
सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः।
वृन्दारक इव श्रीमान्रूपयौवनगर्वितः।। ६२.५ ।।
विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति।। ६२.६ ।।
भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा चाप्सरैः सह।
मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः।। ६२.७ ।।
पुण्यक्षयादिहाऽऽयातः कुले सर्वगुणान्विते।
रूपवान्सुभगः श्रीमान्सत्यवादी जितेन्द्रियः।। ६२.८ ।।
वेदशास्त्रार्थविद्विप्रो भवेद्यज्वा तु वैष्णवः।
योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात्।। ६२.९ ।।
ग्रहोपरागे संक्रान्त्यामयने विषुवे तथा।
युगादिषु षडशीत्यां व्यतीपाते दिनक्षये।। ६२.१० ।।
आषाढ्यां चैव कार्तिक्यां माघ्यां वाऽन्ये शुभे तिथौ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः।। ६२.११ ।।
फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते।
पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः।। ६२.१२ ।।
अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवन्ति वै।
एवं स्नानफलं सम्यक्सागरस्य मयोदितम्।। ६२.१३ ।।
दानस्य च फलं विप्राः पिण्डदानस्य चैव हि।
धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम्।। ६२.१४ ।।
भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम्।
सर्वपापहरं पुण्यं सर्वकामफलप्रदम्।। ६२.१५ ।।
नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः।
तावद्गर्जन्ति तीर्थानि महात्म्यैः स्वैः पृथक्पृथक्।। ६२.१६ ।।
यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः।
पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम्।। ६२.१७ ।।
तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः।
भूतले यानि तीर्थानि सरितश्च सरांसि च।। ६२.१८ ।।
विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः।
राजा समस्ततीर्थानां सागरः सरितां पतिः।। ६२.१९ ।।
तस्मात्समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः।
तमोनाशं यथाऽभ्येति भास्करेऽभ्युदिते द्विजाः।। ६२.२० ।।
स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः।
तीर्थंराजसमं तीर्थं न भूतं न भविष्यति।। ६२.२१ ।।
अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै।
कः शक्नोति गुणान्वक्तुं तीर्थराजस्य भो द्विजाः।। ६२.२२ ।।
कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै।।
तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम्।।
यत्किंचित्क्रियते तत्र चाक्षयं क्रियते द्विजाः।। ६२.२३ ।।
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे समुद्रस्नानमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः।। ६२ ।।