ब्रह्मपुराणम्/अध्यायः ४६
← अध्यायः ४५ | ब्रह्मपुराणम् अध्यायः ४६ वेदव्यासः |
अध्यायः ४७ → |
पुरषोत्तमक्षेत्र-वर्मनम्
मुनय ऊचुः
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः।
तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः॥ ४६.१ ॥
ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः॥ ४६.२ ॥
गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते।
ददर्श रमणीयानि स्थानानि सरितस्तथा॥ ४६.३ ॥
नदी तत्र महापुण्या विन्ध्यपादविनिर्गता।
स्वित्रोपलेति विख्याता सर्वपापहरा शिवा॥ ४६.४ ॥
गङ्गतुल्या महास्रोता दक्षिणार्मवगामिनी।
महानदीति नाम्ना सा पुण्यतोया सरिद्विरा॥ ४६.५ ॥
दक्षिणस्योदधेर्गर्भं गताऽऽवर्दातिशोभिता।
उभयोस्तटजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.६ ॥
दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः।
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः॥ ४६.७ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक्।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः॥ ४६.८ ॥
ताम्बूलपूर्णवदना मालादामविभूषिताः।
वेदपूर्ममुखा विप्राः सष़डङ्गपदक्रमाः॥ ४६.९ ॥
अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः॥ ४६.१० ॥
चत्वरे राजमार्गेषु वनेषुपवनेषु च।
सभामण्डलहर्म्येषु देवतायतनेषु च॥ ४६.११ ॥
इतिहासपुराणानि वेदाः साङ्गः सुलक्षणाः।
काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः॥ ४६.१२ ॥
स्त्रियस्तद्देशवासिन्यो रूपयौवनगर्विताः।
संपूर्णलक्षमोपेता विस्तीर्णश्रोणिमण्डलाः॥ ४६.१३ ॥
सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः।
पीनोन्नतस्तनाः सर्वाः समृध्या चारुदर्शनाः॥ ४६.१४ ॥
सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः।
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः॥ ४६.१५ ॥
बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः।
सुमुखास्चारुकेशाश्च हावभावावनामिताः॥ ४६.१६ ॥
काश्चित्पद्मपलाशाक्ष्यः कास्चिदिन्दीवरेक्षणाः।
विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथाऽपराः॥ ४६.१७ ॥
कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः॥ ४६.१८ ॥
कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः॥ ४६.१९ ॥
दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः।
वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमखैः॥ ४६.२० ॥
शङ्खदुन्दुबिनिर्घोषैर्नानावाद्यैर्मनोहरैः।
क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम्॥ ४६.२१ ॥
एवमादि तथाऽनेकगीतवाद्यविशारदाः।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः॥ ४६.२२ ॥
भिक्षुवैखानसैः सिद्धैः स्नातकैर्बह्मचारिभिः।
मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम्॥ ४६.२३ ॥
इत्येवं दृद्वशे राजा क्षेत्रं परमशोभनम्।
अत्रैवाऽऽराधयिष्यामि भगवन्तं सनातनम्॥ ४६.२४ ॥
जगद्गुरुं परं देवं परं पारं परं पदम्।
सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम्॥ ४६.२५ ॥
इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम्।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति॥ ४६.२६ ॥
प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा॥ ४६.२७ ॥
तथा यत्नं करिष्यामि यथा देवो जगत्पतिः।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः॥ ४६.२८ ॥
यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथाऽर्चनैः।
उपवासैश्च विधिवच्छरेयं व्रतमुत्तमम्॥ ४६.२९ ॥
अनन्यमनसा चैव तन्मना नान्यमानसः।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम्॥ ४६.३० ॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे क्षेत्रवर्णनं नाम षट्चत्वारिंशोऽ्ध्यायः॥ ४६ ॥