ब्रह्मपुराणम्/अध्यायः २१
← अध्यायः २० | ब्रह्मपुराणम् अध्यायः २१ वेदव्यासः |
अध्यायः २२ → |
तत्रादौ पातालप्रमाणवर्णनम्
लोमहर्षण उवाच
विस्तार एष कथितः पृतिव्या मुनिसत्तमाः।
सप्ततिस्तु सहस्राणि तदुच्छ्रयोऽपि क्थ्यते॥ २१.१ ॥
दशसाहस्रमेकैकं पातालं मुनिसत्तमाः।
अतलं वितलञ्चैव नितलं सुतलं तथा॥ २१.२ ॥
तलातलं रसातलं पातालञ्चापि सप्तमम्।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनो॥ २१.३ ॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः।
तेषु दानवदैतेयजातयः शतशः स्थिताः॥ २१.४ ॥
नागानाञ्च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः।
स्वर्लोकादपि रम्याणि पातालानीति नारद॥ २१.५ ॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम्।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः॥ २१.६ ॥
नागाभरणभूषाश्च पातालं केन तत्समम्।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते॥ २१.७ ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते।
दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम्॥ २१.८ ॥
शशिनश्च न शीताय निशि द्योताय केवलम्।
भक्ष्यभोज्यमहापानमदमत्तैश्च भोगिभिः॥ २१.९ ॥
यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः।
वनानि नद्यो रम्याणि सरांसि कमलाकराः॥ २१.१० ॥
पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बरामि च ।
भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम्॥ २१.११ ॥
वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः।
एतान्यन्यानिरम्याणि गन्धाद्यञ्चानुलेपनम्॥ २१.१२ ॥
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः।
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः॥ २१.१३ ॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः।
योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः॥ २१.१४ ॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः।
फणामणिसहस्रेण यः स विद्योतयन् दिशः॥ २१.१५ ॥
सर्व्वान् करोति निर्वोर्य्यातन् हिताय जगतोऽसुरान्।
मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः॥ २१.१६ ॥
किरीटो स्रग्धरो भाति साग्निश्वेत इवाचलः।
नीलवासा मदोत्सिक्तः श्वेतहारोपसोभितः॥ २१.१७ ॥
साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः।
लांगलासक्तहस्ताग्रो बिभ्रन्मुशलमुत्तमम्॥ २१.१८ ॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया।
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः॥ २१.१९ ॥
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्।
स विभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम्॥ २१.२० ॥
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्च्चितः।
तस्य वीर्य्यं प्रभावश्च स्वरूपं रूपमेव च॥ २१.२१ ॥
न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा॥ २१.२२ ॥
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति।
यदा विजृम्भतेऽनन्तो मदाधूर्णितलोचनः॥ २१.२३ ॥
तदा चलति भूरेषा साद्रितोयाधिकानना।
गन्धर्व्वप्सिरसः। सिद्धाः किन्नरोरगवारणाः॥ २१.२४ ॥
नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः।
यस्य नागवधूहस्तैर्लापितं हरिचन्दनम्॥ २१.२५ ॥
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम्।
यमाराध्य पुराणर्षिर्गर्गौ ज्योतींषि तत्त्वतः॥ २१.२६ ॥
ज्ञातवान् सकलं चैव निमित्तपठितं पलम्।
तेनेयं नागवर्य्येण शिरसा विधृता महो।
बिभर्ति सकलाल्लो कान् स देवासुरमानुषान्॥ २१.२७ ॥
इति श्रीब्राह्मे महापुराणे पातालप्रमाणकीर्त्तनं नामैकविंशोऽध्यायः॥ २१ ॥