ब्रह्मपुराणम्/अध्यायः ५८

विकिस्रोतः तः
← अध्यायः ५७ ब्रह्मपुराणम्
अध्यायः ५८
वेदव्यासः
अध्यायः ५९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथाष्टापञ्चाशत्तमोऽध्यायः
नरसिंहमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं दृष्ट्वा बलं कृष्णं सुभद्रां प्रणिपत्य च।
धर्मं चार्थं च कामं च मोक्षं च लभते ध्रुवम्।। ५८.१ ।।

निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः।
प्रणम्याऽऽयतनं पश्चाद्रव्रजेत्तत्र समाहितः।। ५८.२ ।।

इन्द्रनीलमयो विष्णुर्यत्राऽऽस्ते वालुकावृतः।
अन्तर्धानगतं नत्वा ततो विष्णुपुरं व्रजेत्।। ५८.३ ।।

सर्वदेवमयो योऽसौ हतवानसुरोत्तमम्।
स आस्ते तत्र भो विप्राः सिंहार्धकृतविग्रहः।। ५८.४ ।।

भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नरकेसरीम्।
मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः।। ५८.५ ।।

नरसिंहस्य ये भक्ता भवन्ति भुवि मानवाः।
न तेषां दुष्कृतं किंचित्फलं स्याद्यद्यदीप्सितम्।। ५८.६ ।।

तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत्।
धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति।। ५८.७ ।।

मुनय ऊचुः
माहात्म्यं नरसिंहस्य सुखदं भुवि दुर्लभम्।
यथा कथयसे देव तेन नो विस्मयो महान्।। ५८.८ ।।

प्रभावं तस्य देवस्य विस्तरेण जगत्पते।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः।। ५८.९ ।।

यथा प्रसीदेद्देवोऽसौ नरसिंहो महाबलः।
भक्तानामुपकाराय ब्रूहि देव नमोऽस्तु ते।। ५८.१० ।।

प्रसादान्नरसिंहस्य या भवन्त्यत्र सिद्धयः।
ब्राहि ताः कुरु चास्माकं प्रसादं प्रपितामह।। ५८.११ ।।

ब्रह्मोवाच
श्रृणुष्वं तस्य भो विप्राः प्रभावं गदतो मम।
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च।। ५८.१२ ।।

कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य भो द्विजाः।
सिंहारधकृतदेहस्य प्रवक्ष्यामि समासतः।। ५८.१३ ।।

याः काश्चित्सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः।
प्रसादात्तस्य ताः सर्वाः सिध्यन्ति नात्र सशयः।। ५८.१४ ।।

स्वर्गे मर्त्ये च पाताले दिक्षु तोये पुरे नगे।
प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः।। ५८.१५ ।।

असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे।
नरसिंहस्य भो विप्राः सदा भक्तानुकम्पिनः।। ५८.१६ ।।

विधानं तस्य वक्ष्यामि भक्तानामुपकारकम्।
येन प्रसीदेच्चैवासौ सिंहार्धकृतविग्रहः।। ५८.१७ ।।

श्रृणुध्वं मुनिशार्दूलाः कल्पराजं सनातनम्।
नरसिंहस्य तत्त्वं च यन्न ज्ञातं सुरासुरैः।। ५८.१८ ।।

शाकयावकमूलैस्तु फलपिण्याकसक्तुकैः।
पयोभक्षेण विप्रेन्द्रा वर्तयेत्साधकोत्तमः।। ५८.१९ ।।

कोशकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः।
अरण्ये विजने देश पर्वते सिन्धुसंगमे।। ५८.२० ।।

ऊषरे सिद्धक्षेत्रे च नरसिंहाश्रमे तथा।
प्रतिष्ठाप्य स्वयं वाऽपि पूजां कृत्वा विधानतः।। ५८.२१ ।।

द्वादश्यां शुक्लपक्षस्य उपोष्य मुनिपुंगवाः।
जपेल्लक्षाणि वै विंशन्मनसा संयतेन्द्रियः।। ५८.२२ ।।

उपपातकयुक्तश्च महापातकसंयुतः।
मुक्तो भवेत्ततो विप्राः साधको नात्र संशयः।। ५८.२३ ।।

कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत्।
पुण्यगन्धादिबिर्धूपैः प्रणम्य शिरसा प्रभुम्।। ५८.२४ ।।

कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके।
प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते।। ५८.२५ ।।

भगवान्सर्वकार्येषु न क्वचित्प्रतिहन्यते।
तेजः सोढुं न शक्ताः स्युर्ब्रह्मरुद्रादयः सुराः।। ५८.२६ ।।

किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः।
विद्याधरा यक्षगणाः सकिन्नरमहोरगाः।। ५८.२७ ।।

मन्त्रं यानासुरान्हन्तुं जपन्त्येकेऽन्यसाधकाः।
ते सर्वे प्रलयं यान्ति दृष्ट्वाऽऽदित्याग्निवर्चसः।। ५८.२८ ।।

सकृज्जप्तं तु कवचं रक्षेत्सर्वमुपद्रवम्।
द्विर्जप्तं कवचं दिव्यं रक्षते देवदानवात्।। ५८.२९ ।।

गन्धर्वाः किन्नरा यक्षा विद्याधरमहोरगाः।
भुताः पिशाचा रक्षांसि ये जान्ये परिपन्थिनः।। ५८.३० ।।

त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः।
द्वादशाभ्यन्तरे चैव योजनानां द्विजोत्तमाः।। ५८.३१ ।।

रक्षते भगवान्देवो नरसिंहो महाबलः।
ततो गत्वा बिलद्वारमुपोष्य रजनीत्रयम्।। ५८.३२ ।।

पलाशकाष्ठैः प्रज्वाल्य भगवन्तं हुताशनम्।
पलाशसमिधस्तत्र जुहुयात्त्रिमधुप्लुता।। ५८.३३ ।।

द्वे शते द्विजशार्दूला वषट्कारेण साधकः।
ततो विवरद्वारं तु प्रकटं जायते क्षणात्।। ५८.३४ ।।

ततो विशेत्तु निःशङ्कं कवची विवरं बुधः।
गच्छतः संकटं तस्य तमोमोहश्च नश्यति।। ५८.३५ ।।

राजमार्गः सुविस्तीर्णो दृश्यते भ्रमराजि(ञ्चि) तः।
नरसिंहं स्मरंस्तत्र पातालं विशते द्विजाः।। ५८.३६ ।।

गत्वा तत्र जपेत्तत्त्वं नरसिंहाख्यमव्ययम्।
ततः स्त्रीणां सहस्राणि वीणावादनकर्मणाम्।। ५८.३७ ।।

निर्गच्छन्ति पुरो विप्राः स्वागतं ता वदन्ति च।
प्रवेशयन्ति ता हस्ते गृहीत्वा साधकेश्वरम्।। ५८.३८ ।।

ततो रसायनं दिव्यं पाययन्ति द्विजोत्तमाः।
पीतमात्रे दिव्यदेहो जायते सुमहाबलः।। ५८.३९ ।।

क्रीडते सह कन्याभिर्यावदाभूतसंप्लवम्।
भिन्नदेहो वासुदेवे लीयते नात्र संशयः।। ५८.४० ।।

यदा न रोचते वासस्तस्मान्निर्गच्छते पुनः।
पट्टं च खड्गं च रोजनां च मणिं तथा।। ५८.४१ ।।

रसं रसायनं चैव पादुकाञ्जनमेव च।
कृष्णाजिनं मुनिश्रेष्ठा गुटिकां च मनोहराम्।। ५८.४२ ।।

कपण्डलुं चाक्षसूत्रं यष्टिं सञ्जीवनीं तथा।
सिद्धविद्यां च शास्त्राणि गृहीत्वा साधकेश्वरः।। ५८.४३ ।।

ज्वलद्विह्रिफुलिङ्गोर्मिष्टितं त्रिशिखं हृदि।
सकन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिजम्।। ५८.४४ ।।

विषेन्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम्।
स्वदेहे भ्रूणहत्यादि कृत्वा दिव्येन शुध्यति।। ५८.४५ ।।

महाग्राहगृहीतेषु ज्वलमानं विचिन्तयेत्।
हृदन्ते वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः।। ५८.४६ ।।

बालानां कण्ठके बद्धं रक्षा भवति नित्यशः।
गण्डपिण्डकलूतानां नाशनं कुरुते ध्रुवम्।। ५८.४७ ।।

व्याधिजाते समिद्भिश्च घृतक्षीरेण होमयेत्।
त्रिसंध्यं मासमेकं तु सर्वरोगान्विनाशयेत्।। ५८.४८ ।।

असाध्यं तु न पश्यामि त्रैलोक्ये सचराचरे।
यां यां कामयते सिद्धिं तां तां प्राप्नोति स ध्रुवम्।। ५८.४९ ।।

अष्टोत्तरशतं त्वेकं पूजयित्वा मृगाधिपम्।
मृत्तिकाः सप्त वल्मीके श्मशाने च चतुष्पथे।। ५८.५० ।।

रक्तचन्दनसंमिश्रा गवां क्षीरेण लोडयेत्।
सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडड्गुलाम्।। ५८.५१ ।।

लिम्पेत्तथा भूर्जपत्रे रोचनया समालिखेत्।
नरसिंहस्य कण्ठे तु बद्ध्वा चैव हि मन्त्रवित्।। ५८.५२ ।।

जपेत्संख्याविहीनं तु पूजयित्वा जलाशये।
यावत्सप्ताहमात्रं तु जपेत्संयमितेन्द्रियः।। ५८.५३ ।।

जलाकीर्णआ मुहुर्तेन जायते सर्वमोदिनी।
अथवा शुष्कवृक्षाग्रे नरसिंहं तु पूजयेत्।। ५८.५४ ।।

जप्त्वा चाष्टशतं तत्त्वं वर्षन्तं विनिवारयेत्।
तमेवं पिञ्जके बद्ध्वा भ्रामयेत्साधकोत्तमः।। ५८.५५ ।।

महावातो मुहुर्तेन आगच्छेन्नात्र संशयः।
पुनश्च धारयेत्क्षिप्रं सप्तस(ज)प्तेन वारिणाः।। ५८.५६ ।।

अथ तां प्रतिमां द्वारि निखनेद्यस्य साधकः।
गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तिदः।। ५८.५७ ।।

तस्मात्तं मुनिशार्दूला भक्त्या संपूजयेत्सदा।
मृगराजं महावीर्यं सर्वकामफलप्रदम्।। ५८.५८ ।।

विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
क्षत्रिया वैश्याः शूद्रान्त्यजातयः।। ५८.५९ ।।

संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम्।
मुच्यन्ते चाशुभैर्दुः खैर्जन्मकोटिसमुद्भवैः।। ५८.६० ।।

संपूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम्।
देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः।। ५८.६१ ।।

यक्षविद्याधरत्वं च तथाऽन्यच्चाभिवाञ्छितम्।
दृष्ट्वा स्तुत्वा नमस्कृत्वा संपूज्य नरकेसरीम्।। ५८.६२ ।।

प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम्।
नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम्।। ५८.६३ ।।

निर्मुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छति।
सकृद्दृष्ट्वा तु तं देवं भक्त्या सिंहवपुर्धरम्।। ५८.६४ ।।

मुच्यते चाशुभैर्दुः खैर्जन्मकोटिसमुद्भवैः।
संग्रामे संकटे दुर्गे चोरव्याघ्रादिपीडिते।। ५८.६५ ।।

कान्तारे प्राणसंदेहे विषविह्निजलेषु च।
राजादिभ्यः समुद्रेभ्यो ग्रहरोगादिपीडिते।। ५८.६६ ।।

स्मृत्वा तं पुरुषः सर्वै राजग्रामैर्विमुच्यते।
सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम्।। ५८.६७ ।।

तथा संदर्शने तस्य विनाशं यान्त्युपद्रवाः।
गृटिकाञ्जनपातालपादुके च रसायनम्।। ५८.६८ ।।

नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान्।
यान्यान्कामानभिध्यायन्भजते नरकेसरीम्।। ५८.६९ ।।

तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः।
दृष्ट्वा तं देवदेवेशं भक्त्याऽऽपूज्य प्रणम्य च।। ५८.७० ।।

दशानामश्वमेधानां फलं दशगुणं लभेत्।
पापैः सर्वैर्विनिर्मुक्तो गुणैः सर्वैरलंकृतः।। ५८.७१ ।।

सर्वकामसमृद्धात्मा जरामरणवर्जितः।
सौवर्णेन विमानेन किंकिणीजालमालिना।। ५८.७२ ।।

सर्वकामसमृद्धेन कामगेन सुवर्चसा।
तुणादित्यवर्णेन मुक्ताहारावलम्बिना।। ५८.७३ ।।

दिव्यस्त्रीशतयुक्तेन दिव्यगन्धर्वनादिना।
कुलैकविंशमुद्धृत्य देववन्मुदितः सुखी।। ५८.७४ ।।

स्तूयमानोऽप्सरोभिश्च विष्णुलोकं व्रजेन्नरः।
भुक्त्वा तत्र वरान्भोगान्विष्णुलोके द्विजोत्तमाः।। ५८.७५ ।।

गन्धर्वैरप्सरैर्युक्तः कृत्वा रूपं चतुर्भुजम्।
मनोह्लादकरं सौख्यं यावदाभूतदसंप्लवम्।। ५८.७६ ।।

पुण्यक्षयादिहाऽऽयातः प्रवरे योगिनां कुले।
चतुर्वेदी भवेद्विप्रो वेदवेदाङ्गपारगः।।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात्।। ५८.७७ ।।

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे नरसिंहमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः।। ५८ ।।