रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६७

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥

तम् दृष्ट्वा जृंभमाणम् ते क्रमितुम् शत योजनम् ।
वेगेन आपूर्यमाणम् च सहसा वानरोत्तमम् ॥४-६७-१॥
सहसा शोकम् उत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुः तुष्टुवुः च अपि हनूमन्तम् महाबलम् ॥४-६७-२॥

प्रहृष्टा विस्मिताः च अपि ते वीक्षन्ते समंततः ।
त्रिविक्रम कृत उत्साहम् नारायणम् इव प्रजाः ॥४-६७-३॥

संस्तूयमानो हनुमान् व्यवर्धत महाबलः ।
समाविद्ध्य च लांगूलम् हर्षात् बलम् उपेयिवान् ॥४-६७-४॥

तस्य संस्तूयमानस्य सर्वैः वनर पुंगवैः ।
तेजसा आपूर्यमाणस्य रूपम् आसीत् अनुत्तमम् ॥४-६७-५॥

यथा विजृंभते सिंहो विवृते गिरि गह्वरे ।
मारुतस्य औरसः पुत्रः तथा संप्रति जृंभते ॥४-६७-६॥

अशोभत मुखम् तस्य जृंभमाणस्य धीमतः ।
अंबरीष उपमम् दीप्तम् विधूम इव पावकः ॥४-६७-७॥

हरीणाम् उत्थितो मध्यात् संप्रहृष्ट तनू रुहः ।
अभिवाद्य हरीन् वृद्धान् हनुमान् इदम् अब्रवीत् ॥४-६७-८॥

अरुजन् पर्वत अग्राणि हुताशन सखो अनिलः ।
बलवान् अप्रमेयः च वायुः आकाश गोचरः ॥४-६७-९॥

तस्य अहम् शीघ्र वेगस्य शीघ्र गस्य महात्मनः ।
मारुतस्य औरसः पुत्रः प्लवने च अस्मि तत् समः ॥४-६७-१०॥

उत्सहेयम् हि विस्तीर्णम् आलिखंतम् इव अंबरम् ।
मेरुम् गिरिम् असंगेन परिगंतुम् सहस्रशः ॥४-६७-११॥

बाहु वेग प्रणुन्नेन सागरेण अहम् उत्सहे ।
समाप्लावयितुम् लोकम् स पर्वत नदी ह्रदम् ॥४-६७-१२॥

मम ऊरु जन्घा वेगेन भविष्यति समुत्थितः ।
समुत्थित महा ग्राहः समुद्रो वरुण आलयः ॥४-६७-१३॥

पन्नग अशनम् आकाशे पतन्तम् पक्षि सेवितम् ।
वैनतेयम् अहम् शक्तः परिगंतुम् सहस्रशः ॥४-६७-१४॥

उदयात् प्रस्थितम् वा अपि ज्वलंतम् रश्मि मालिनम् ।
अन् अस्तमितम् आदित्यम् अभिगंतुम् समुत्सहे ॥४-६७-१५॥
ततो भूमिम् असंस्पृष्ट्वा पुनः आगन्तुम् उत्सहे ।
प्रवेगेन एव महता भीमेन प्लवगर्षभाः ॥४-६७-१६॥

उत्सहेयम् अतिक्रांतुम् सर्वान् आकाश गोचरान् ।
सागरम् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥४-६७-१७॥

पर्वतान् चूर्णष्यामि प्लवमानः प्लवंगमाः ।
हरिष्यामि ऊरु वेगेन प्लवमानो महाअर्णवम् ॥४-६७-१८॥

लतानाम् विविधाम् पुष्पम् पादपानाम् च सर्वशः ।
अनुयास्यति माम् अद्य प्लवमानम् विहायसा ॥४-६७-१९॥
भविष्यति हि मे पन्थाः स्वातेः पन्था इव अंबरे ।

चरन्तम् घोरम् आकाशम् उत्पतिष्यन्तम् एव च ॥४-६७-२०॥
द्रक्ष्यन्ति निपतन्तम् च सर्व भूतानि वानराः ।

महा मेरु प्रतीकाशम् माम् द्रक्ष्यध्वम् प्लवंगमाः ॥४-६७-२१॥
दिवम् आवृत्य गच्छन्तम् ग्रसमानम् इव अंबरम् ।

विधमिष्यामि जीमूतान् कंपयिष्यामि पर्वतान् ।
सागरम् शोषयिष्यामि प्लवमानः समाहितः ॥४-६७-२२॥

वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा ।
ऋते सुपर्ण राजानम् मारुतम् वा महाबलम् ।
न तत् भूतम् प्रपश्यामि यत् माम् प्लुतम् अनुव्रजेत् ॥४-६७-२३॥

निमेष अन्तर मात्रेण निरालंबनम् अंबरम् ।
सहसा निपतिष्यामि घनात् विद्युत् इव उत्थिता ॥४-६७-२४॥

भविष्यति हि मे रूपम् प्लवमानस्य सागरम् ।
विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव ॥४-६७-२५॥

बुद्ध्या च अहम् प्रपश्यामि मनः चेष्टा च मे तथा ।
अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवंगमाः ॥४-६७-२६॥

मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतम् योजनानाम् तु गमिष्यामि इति मे मतिः ॥४-६७-२७॥

वासवस्य स वज्रस्य ब्रह्मणो वा स्वयंभुवः ।
विक्रम्य सहसा हस्तात् अमृतम् तत् इह आनये ॥४-६७-२८॥
लंकाम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः ।

तम् एवम् वानर श्रेष्ठम् गर्जन्तम् अमित प्रभम् ॥४-६७-२९॥
प्रहृष्टा हरयः तत्र समुदैक्षन्त विस्मिताः ।

तत् च अस्य वचनम् श्रुत्वा ज्ञातीनाम् शोक नाशनम् ॥४-६७-३०॥
उवाच परिसंहृष्टो जांबवान् प्लवगेश्वरः ।

वीर केसरिणः पुत्र वेगवन् मारुत आत्मज ॥४-६७-३१॥
ज्ञातीनाम् विपुलः शोकः त्वया तात प्रणाशितः ।

तव कल्याण रुचयः कपि मुख्याः समागताः ॥४-६७-३२॥
मंगलम् कार्य सिद्धि अर्थम् करिष्यन्ति समाहिताः ।

ऋषीणाम् च प्रसादेन कपि वृद्ध मतेन च ॥४-६७-३३॥
गुरूणाम् च प्रसादेन प्लवस्व त्वम् महाअर्णवम् ।

स्थास्यामः च एक पादेन यावत् आगमनम् तव ॥४-६७-३४॥
त्वत् गतानि च सर्वेषाम् जीवितानि वन ओकसाम् ।

ततः च हरि शार्दूलः तान् उवाच वन ओकसः ॥४-६७-३५॥
को अपि लोके न मे वेगम् प्लवने धारयिष्यति ।

एतानि हि नगस्य अस्य शिला संकट शालिनः ॥४-६७-३६॥
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ।

येषु वेगम् गमिष्यामि महेन्द्र शिखरेषु अहम् ॥४-६७-३७॥
नाना द्रुम विकीर्णेषु धातु निष्पन्द शोभिषु ।

एतानि मम वेगम् हि शिखराणि महान्ति च ॥४-६७-३८॥
प्लवतो धारयिष्यन्ति योजनानाम् इतः शतम् ।

ततः तु मारुत प्रख्यः स हरिः मारुत आत्मजः ।
आरुरोह नग श्रेष्ठम् मह्न्द्रम् अरिंअर्दमः ॥४-६७-३९॥
वृतम् नाना विधैः पुष्पैः मृग सेवित शाद्वलम् ।
लता कुसुम संबाधम् नित्य पुष्प फल द्रुमम् ॥४-६७-४०॥
सिंह शार्दूल चरितम् मत्त मातंग सेवितम् ।
मत्त द्विज गण उद् धुष्टम् सलिल उत्पीड संकुलम् ॥४-६७-४१॥

महद्भिः उच्छ्रितम् शृन्गैः महेन्द्रम् स महाबलः ।
विचचार हरिश्रेष्ठो महेन्द्र साम विक्रमः ॥४-६७-४२॥

बाहुभ्याम् पीडितः तेन महाशैलो महात्मना ।
ररास सिंह अभिहतो महान् मत्त इव द्विपः ॥४-६७-४३॥

मुमोच सलिल उत्पीडान् विप्रकीर्ण शिलोउच्चयः ।
वित्रस्त मृग मातंगः प्रकंपित महा द्रुमः ॥४-६७-४४॥

नानागंधर्वमिथुनैर्पानसंसर्गकर्कशैः ।
उत्पतद्भिर्विहंगैश्चविद्याधरगणैरपि - यद्वा -
नाना गन्धर्व मिथुनैः पान संसर्ग कर्कशैः ।
उत् पतद्भिः विहंगैः च विद्याधर गणैः अपि ॥४-६७-४५॥
त्यज्यमान महा सानुः संनिलीन महा उरगः ।
शैल शृन्ग शिला उत्पातः तदा अभूत् स महा गिरिः ॥४-६७-४६॥

निःश्वसद्भिस्तदातैतुभुजगैरर्धनिःसृतैः ।
सपताकैवाभातिसतदाधरणीधरः ॥
यद्वा -
निःश्वसद्भिः तदा तैः तु भुजगैः अर्ध निःसृतैः ।
स पताक इव आभाति स तदा धरणी धरः ॥४-६७-४७॥

ऋषिभित्राससंभ्रान्तैस्त्यज्यमानश्शिलोच्चयः - यद्वा -
ऋषिभिः त्रास संभ्रांतैः त्यज्यमानः शिला उच्चयः ।
सीदन् महति कांतारे सार्थ हीन इव अध्व गः ॥४-६७-४८॥

स वेगवान् वेग समाहित आत्मा
हरि प्रवीरः पर वीर हन्ता ।
मनः समाधाय महाअनुभावो
जगाम लंकाम् मनसा मनस्वी ॥४-६७-४९॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कडियाँ[सम्पाद्यताम्]