रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← सर्गः ४० रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ४२ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥

ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।
दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥

नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।
पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥
सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।
गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥
मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।
उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥
अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।
वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥

तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।
विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥

ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।
कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥

सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।
नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥
ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।
वरदाम् च महाभागाम् महोरग निषेविताम् ।
मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥
अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।
विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥

तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।
अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥
नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।
तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥४-४१-१२॥

अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।
विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥
सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।

ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥
तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।

तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥
द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।

ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥
ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।

सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥
कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।

ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥
युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।

ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥
अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।
चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥
जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।

नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥
देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।
सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥
तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।

द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥
अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।

तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥
स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।
राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।
अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥

एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।
मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥

तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।
गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥

चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।
भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥

तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।
श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।
न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥

प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।
तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।

ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥
सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।

तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥४-४१-३३॥
मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।

तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥
अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।

तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥
शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।

तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥
विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैः घोरैः तीक्ष्णदंष्ट्रैः महाविषैः ॥४-४१-३७॥
सर्पराजो महाघोरो यस्याम् वसति वासुकिः ।

निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥
तत्र च अंतरोद्देशा ये केचन समावृताः ।

तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥
सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।

गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥
दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।

न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥
रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।

तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।
रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥

अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।
ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥

राजधानी यमस्य एषा कष्टेन तमसा आवृता ।
एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।
शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥

सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।
गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥

यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।
मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥

ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।
कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥

अमित बल पराक्रमा भवन्तो
विपुल गुणेषु कुलेषु च प्रसूताः ।
मनुज पति सुताम् यथा लभध्वम्
तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥