रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५९ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ६१ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥

ततः कृत उदकम् स्नातम् तम् गृध्रम् हरि यूथपाः ।
उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥४-६०-१॥

तम् अंगदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् ।
जनित प्रत्ययो हर्षात् संपातिः पुनः अब्रवीत् ॥४-६०-२॥

कृत्वा निःशब्दम् एक अग्राः शृण्वन्तु हरयो मम ।
तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥४-६०-३॥

अस्य विन्ध्यस्य शिखरे पतितो अस्मि पुरा अनघ ।
सूर्य ताप परीत अंगो निर्दग्धः सूर्य रश्मिभिः ॥४-६०-४॥

लब्ध संज्ञः तु षड् रात्रात् विवशो विह्वलन् इव ।
वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन ॥४-६०-५॥

ततः तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।
वनानि च प्रदेशान् च समीक्ष्य मतिः आगताम् ॥४-६०-६॥

हृष्ट पक्षि गण आकीर्णः कन्दर उदर कूटवान् ।
दक्षिणस्य उदधेः तीरे विन्ध्यो अयम् इति निश्चितः ॥४-६०-७॥

आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सुपूजितम् ।
ऋषिः निशाकरो नाम यस्मिन् उग्र तपा अभवत् ॥४-६०-८॥

अष्टौ वर्ष सहस्राणि तेन अस्मिन् ऋषिणा गिरौ ।
वसतो मम धर्मज्ञो स्वर् गते तु निशाकरे ॥४-६०-९॥

अवतीर्य च विन्ध्य अग्रात् कृच्छ्रेण विषमात् शनैः ।
तीक्ष्ण दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः ॥४-६०-१०॥

तम् ऋषिम् द्रष्टु कामो अस्मि दुःखेन अभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशो अभिगतो हि सः ॥४-६०-११॥

तस्य आश्रम पदाभ्याशे ववुः वाताः सुगन्धिनः ।
वृक्षो न अपुष्पितः कश्चित् अफलो वा न दृश्यते ॥४-६०-१२॥

उपेत्य च आश्रमम् पुण्यम् वृक्ष मूलम् उपाश्रितः ।
द्रष्टु कामः प्रतीक्षे च भगवंतम् निशाकरम् ॥४-६०-१३॥

अथ पश्यमि दूरस्थम् ऋषिम् ज्वलित तेजसम् ।
कृत अभिषेकम् दुर्धर्षम् उपावृत्तम् उदन् मुखम् ॥४-६०-१४॥

तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नाना सरीसृपाः ।
परिवार्य उपगच्छन्ति दातारम् प्राणिनो यथा ॥४-६०-१५॥

ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम् ॥४-६०-१६॥

ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः ।
मुहूर्त मात्रान् निर्गम्य ततः कार्यम् अपृच्छत ॥४-६०-१७॥

सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् ते न अवगम्यते ।
अग्नि दग्धौ इमौ पक्षौ प्राणाः चापि शरीरके ॥४-६०-१८॥

गृध्रौ द्वौ दृष्ट पूर्वौ मे मातरिश्व समौ जवे ।
गृध्राणाम् चैव राजानौ भ्रातरौ काम रूपिणौ ॥४-६०-१९॥

ज्येष्ठो अवित स्त्वम् तु संपाते जटायुः अनुजः तव ।
मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम ॥४-६०-२०॥

किम् ते व्याधि समुत्थानम् पक्षयोः पतनम् कथम् ।
दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः ॥४-६०-२१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥