रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३९
दिखावट
← सर्गः ३८ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ४० → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः। बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ १॥ यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति। आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः॥ २॥ चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम्। त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप॥ ३॥ एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम्। जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥ ४॥ त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्। त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥ ५॥ जहारात्मविनाशाय मैथिलीं राक्षसाधमः। वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्॥ ६॥ नचिरात् तं वधिष्यामि रावणं निशितैः शरैः। पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥ ७॥ एतस्मिन्नन्तरे चैव रजः समभिवर्तत। उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्॥ ८॥ दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः। चचाल च मही सर्वा सशैलवनकानना॥ ८॥ ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः। कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः॥ १०॥ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः। कोटीशतपरीवारैर्वानरैर्हरियूथपैः॥ ११॥ नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः। हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः॥ १२॥ तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः। पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः॥ १३॥ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा। वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत॥ १४॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता। अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत॥ १५॥ तथापरेण कोटीनां सहस्रेण समन्वितः। पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः॥ १६॥ पद्मकेसरसंकाशस्तरुणार्कनिभाननः। बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः॥ १७॥ अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः। पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ १८॥ गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः। वृतः कोटिसहस्रेण वानराणामदृश्यत॥ १९॥ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः। वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत॥ २०॥ महाचलनिभैर्घोरैः पनसो नाम यूथपः। आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥ २१॥ नीलाञ्जनचयाकारो नीलो नामैष यूथपः। अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः॥ २२॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥ २३॥ दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा। वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः॥ २४॥ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ। कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥ २५॥ गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः। आजगाम महातेजाः सुग्रीवस्य समीपतः॥ २६॥ ऋक्षराजो महातेजा जाम्बवान्नाम नामतः। कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः॥ २७॥ रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः। आगतो बलवांस्तूर्णं कोटीशतसमावृतः॥ २८॥ ततः कोटिसहस्राणां सहस्रेण शतेन च। पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः॥ २९॥ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च। युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः॥ ३०॥ ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः। पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत॥ ३१॥ इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत। एकादशानां कोटीनामीश्वरस्तैश्च संवृतः॥ ३२॥ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः। अयुतेन वृतश्चैव सहस्रेण शतेन च॥ ३३॥ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः। प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली॥ ३४॥ कैलासशिखराकारैर्वानरैर्भीमविक्रमैः। वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत॥ ३५॥ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः। कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च॥ ३६॥ ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः। सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः॥ ३७॥ शरभः कुमुदो वह्निर्वानरो रंह एव च। एते चान्ये च बहवो वानराः कामरूपिणः॥ ३८॥ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च। यूथपाः समनुप्राप्ता येषां संख्या न विद्यते॥ ३९॥ आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः। आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥ ४०॥ कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः। शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥ ४१॥ अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्। सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा॥ ४२॥ सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्। निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥ ४३॥ यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः। निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥ ४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।