रामायणम्/किष्किन्धाकाण्डम्/सर्गः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १७ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १९ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ॥४-१८-१॥

तं निष्प्रभम् इव आदित्यं मुक्त तोयम् इवाम्बुदम् ।
उक्त वाक्यं हरि श्रेष्ठम् उपशांतम् इवानलम् ॥४-१८-२॥
धर्मार्थगुण सम्पन्नम् हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चात् वालिनम् अब्रवीत् ॥४-१८-३॥

धर्मम् अर्थञ्च कामञ्च समयञ्च अपि लौकिकम् ।
अविज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे ॥४-१८-४॥

अपृष्ट्वा बुद्धि संपन्नान् वृद्धान् आचार्य संमतान् ।
सौम्य वानर चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि ॥४-१८-५॥

इक्ष्वाकूणाम् इयम् भूमिः स शैल वन कानना ।
मृग पक्षि मनुष्याणाम् निग्रह अनुग्रहेषु अपि ॥४-१८-६॥

ताम् पालयति धर्मात्मा भरतः सत्यवान् ऋजुः ।
धर्म काम अर्थ तत्त्वज्ञो निग्रह अनुग्रहे रतः ॥४-१८-७॥

नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् ।
विक्रमः च यथा दृष्टः स राजा देश कालवित् ॥४-१८-८॥

तस्य धर्म कृत आदेशा वयम् अन्ये च पार्थिवः ।
चरामो वसुधाम् कृत्स्नाम् धर्म संतानम् इच्छवः ॥४-१८-९॥

तस्मिन् नृपति शार्दूल भरते धर्म वत्सले ।
पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म विप्रियम् ॥४-१८-१०॥

ते वयम् मार्ग विभ्रष्टम् स्वधर्मे परमे स्थिताः ।
भरत आज्ञाम् पुरस्कृत्य निगृह्णीमो यथा विधि ॥४-१८-११॥

त्वम् तु संक्लिष्ट धर्मः च कर्मणा च विगर्हितः ।
काम तंत्र प्रधानः च न स्थितो राज वर्त्मनि ॥४-१८-१२॥

ज्येष्ठो भ्राता पिता चैव यः च विद्याम् प्रयच्छति ।
त्रयः ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥४-१८-१३॥

यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुणोदितः ।
पुत्रवत् ते त्रयः चिंत्या धर्मः चैव अत्र कारणम् ॥४-१८-१४॥

सूक्ष्मः परम दुर्ज्ञेयः सताम् धर्मः प्लवंगम ।
हृदिस्थः सर्व भूतानाम् आत्मा वेद शुभाशुभम् ॥४-१८-१५॥

चपलः चपलैः सार्धम् वानरैः अकृत आत्मभिः ।
जात्यंध इव जात्यन्धैः मंत्रयन् द्रक्ष्यसे नु किम् ॥४-१८-१६॥

अहम् तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते ।
न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि ॥४-१८-१७॥

तत् एतत् कारणम् पश्य यत् अर्थम् त्वम् मया हतः ।
भ्रातुर् वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम् ॥४-१८-१८॥

अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायाम् वर्तसे कामात् स्नुषायाम् पाप कर्मकृत् ॥४-१८-१९॥

तद् व्यतीतस्य ते धर्मात् काम वृत्तस्य वानर ।
भ्रातृ भार्या अभिमर्शे अस्मिन् दण्डो अयम् प्रतिपादितः ॥४-१८-२०॥

न हि लोक विरुद्धस्य लोक वृत्तात् अपेयुषः ।
दण्डात् अन्यत्र पश्यामि निग्रहम् हरि यूथप ॥४-१८-२१॥

न च ते मर्षये पापम् क्ष्त्रियो अहम् कुलोद्गतः ।
औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः ॥४-१८-२२॥
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ।

भरतः तु महीपालो वयम् तु आदेश वर्तिनः ॥४-१८-२३॥
त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् ।

गुरु धर्म व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् ॥४-१८-२४॥
भरतः काम युक्तानाम् निग्रहे पर्यवस्थितः ।

वयम् तु भरत आदेशम् विधिम् कृत्वा हरीश्वर ।
त्वत् विधान् भिन्न मर्यादान् निग्रहीतुम् व्यवस्थिताः ॥४-१८-२५॥

सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा ।
दार राज्य निमित्तम् च निःश्रेयसकरः स मे ॥४-१८-२६॥

प्रतिज्ञा च मया दत्ता तदा वानर संनिधौ ।
प्रतिज्ञा च कथम् शक्या मत् विधेन अनवेक्षितुम् ॥४-१८-२७॥

तत् एभिः कारणैः सर्वैर् महद्भिः धर्म संहितैः ।
शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम् ॥४-१८-२८॥

सर्वथा धर्म इति एव द्रष्टव्यः तव निग्रहः ।
वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता ॥४-१८-२९॥

शक्यम् त्वया अपि तत् कार्यम् धर्मम् एव अनुवर्तता ।
श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ ॥
गृहीतौ धर्म कुशलैः तथा तत् चरितम् मयाअ ॥४-१८-३०॥

राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥

शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते ।
राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥४-१८-३२॥

आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् ।
श्रमणेन कृते पापे यथा पापम् कृतम् त्वया ॥४-१८-३३॥

अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा अधिपैः ।
प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः ॥४-१८-३४॥

तत् अलम् परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल न वयम् स्व वशे स्थिताः ॥४-१८-३५॥

श्रुणु च अपि अपरम् भूयः कारणम् हरिपुंगव ।
तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि ॥४-१८-३६॥

न मे तत्र मनस्तापो न मन्युः हरिपुंगव ।
वागुराभिः च पाशैः च कूटैः च विविधैः नराः ॥४-१८-३७॥
प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सुबहून् मृगान् ।

प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् ॥४-१८-३८॥
प्रमत्तान् अप्रमत्तान् वा नरा माम्स अशिनो भृशम् ।
विध्यन्ति विमुखाम् च अपि न च दोषो अत्र विद्यते ॥४-१८-३९॥

यान्ति राजर्षयः च अत्र मृगयाम् धर्म कोविदाः ।
तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर ।
अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखा मृगो हि असि ॥४-१८-४०॥

दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।
राजानो वानरश्रेष्ठ प्रदातारो न सम्शयः ॥४-१८-४१॥

तान् न हिंस्यात् न च आक्रोशेन् न आक्षिपेन् न अप्रियम् वदेत् ।
देवा मानुष रूपेण चरन्ति एते मही तले ॥४-१८-४२॥

त्वम् तु धर्मम् अविज्ञाय केवलम् रोषम् आस्थितः ।
विदूषयसि माम् धर्मे पितृ पैतामहे स्थितम् ॥४-१८-४३॥

एवम् उक्तः तु रामेण वाली प्रव्यथितो भृशम् ।
न दोषम् राघवे दध्यौ धर्मे अधिगत निश्चयः ॥४-१८-४४॥

प्रत्युवाच ततो रामम् प्रांजलिर् वानरेश्वरः ।
यत् त्वम् आत्थ नरश्रेष्ठ तत् थथा एव न अत्र संशयः ॥४-१८-४५॥

प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् ।
यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम् ॥४-१८-४६॥
तत्र अपि खलु माम् दोषम् कर्तुम् न अर्हसि राघव ।

त्वम् हि दृष्टार्थ तत्त्वज्ञः प्रजानाम् च हिते रतः ।
कार्य कारण सिद्धौ च प्रसन्ना बुद्धिः अव्यया ॥४-१८-४७॥

माम् अपि अवगतम् धर्मात् व्यतिक्रान्त पुरस्कृतम् ।
धर्म संहितया वाचा धर्मज्ञ परिपालय ॥४-१८-४८॥

बाष्प संरुद्ध कण्ठः तु वाली स आर्त रवः शनैः ।
उवाच रामम् संप्रेक्ष्य पंकलग्न इव द्विपः ॥४-१८-४९॥

न च आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् ।
यथा पुत्रम् गुणश्रेष्ठम् अंगदम् कनकांगदम् ॥४-१८-५०॥

स मम अदर्शनात् दीनो बाल्यात् प्रभृति लालितः ।
तटाक इव पीतांबुः उपशोषम् गमिष्यति ॥४-१८-५१॥

बालः च अकृतबुद्धिः च एक पुत्रः च मे प्रियः ।
तारेयो राम भवता रक्षणीयो महाबलः ॥४-१८-५२॥

सुग्रीवे च अंगदे चैव विधत्स्व मतिम् उत्तमाम् ।
त्वम् हि गोप्ता च शास्ता च कार्याकार्य विधौ स्थितः ॥४-१८-५३॥

या ते नरपते वृत्तिः भरते लक्ष्मणे च या ।
सुग्रीवे च अंगदे राजन् ताम् चिंतयितुम् अर्हसि ॥४-१८-५४॥

मत् दोष कृत दोषाम् ताम् यथा ताराम् तपस्विनीम् ।
सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि ॥४-१८-५५॥

त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् ।
त्वत् वशे वर्तमानेन तव चित्त अनुवर्तिना ॥४-१८-५६॥
शक्यम् दिवम् च आर्जयितुम् वसुधाम् च अपि शासितुम् ।

त्वतः अहम् वधम् आकांक्षयन् वार्यमाणो अपि तारया ॥४-१८-५७॥
सुग्रीवेण सह भ्राता द्वन्द्व युद्धम् उपागतम् ।
इति उक्त्वा वानरो रामम् विरराम हरीश्वरः ॥४-१८-५८॥

स तम् आश्वासयत् रामो वालिनम् व्यक्त दर्शनम् ।
साधु सम्मतया वाचा धर्म तत्त्वार्त्ध युक्तया ॥४-१८-५९॥

न संतापः त्वया कार्यम् एतत् अर्थम् प्लवंगम ।
न वयम् भवता चिंत्या न अपि आत्मा हरिसत्तम ।
वयम् भवत् विशेषेण धर्मतः कृत निश्चयाः ॥४-१८-६०॥

दण्ड्ये यः पातयेत् दण्डम् दण्ड्यो यः च अपि दण्ड्यते ।
कार्य कारण सिद्धार्थौ उभौ तौ न अवसीदतः ॥४-१८-६१॥

तत् भवान् दण्ड सम्योगात् अस्मात् विगत कल्मषः ।
गतः स्वाम् प्रकृतिम् धर्म्याम् धर्म दिष्टेन वर्त्मना ॥४-१८-६२॥

त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् ।
त्वया विधानम् हर्यग्र्य न शक्यम् अतिवर्तितुम् ॥४-१८-६३॥

यथा त्वयि अंगदो नित्यम् वर्तते वानरेश्वरः ।
तथा वर्तते सुग्रीवो मयि च अपि न संशयः ॥४-१८-६४॥

स तस्य वाक्यम् मधुरम् महात्मनः
समाहितम् धर्म पथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो
वचः सुयुक्तम् निजगाद वानरः ॥४-१८-६५॥

शराभितप्तेन विचेतसा मया
प्रदूषितः त्वम् यद् अजानता विभो ।
इदम् महेन्द्रोपम भीम विक्रम
प्रसादितः त्वम् क्षम मे नरेश्वर ॥४-१८-६६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥