रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५२ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५४ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥

ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् ।
अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥४-५३-१॥

मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् ।
तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४-५३-२॥

विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे ।
उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥४-५३-३॥

ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा -
ततः पुष्प अतिभार अग्रान् लता शत समावृतान् ।
द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥४-५३-४॥

ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् ।
नष्ट संदेश काल अर्था निपेतुर् धरणी तले ॥४-५३-५॥

ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः ।
वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥४-५३-६॥
स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः ।
युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥४-५३-७॥

शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः ।
मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥४-५३-८॥

वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः ।
प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥४-५३-९॥

भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः ।
हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥४-५३-१०॥

कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः ।
माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥४-५३-११॥

इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः ।
हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥४-५३-१२॥

आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् ।
प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥४-५३-१३॥

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः ।
न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥४-५३-१४॥

अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति ।
तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥४-५३-१५॥
त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च ।

ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥४-५३-१६॥
वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः ।

न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥४-५३-१७॥
नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा ।

स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥४-५३-१८॥
घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः ।

किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे ।
इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥४-५३-१९॥

एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् ।
सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥४-५३-२०॥

तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः ।
समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥४-५३-२१॥
अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् ।
राघव प्रिय कामाय घातयिष्यति असंशयम् ॥४-५३-२२॥

न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः ।
प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥४-५३-२३॥

इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा ।
नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥४-५३-२४॥

प्लवंगमानाम् तु भय अर्दितानाम्
श्रुत्वा वचः तार इदम् बभाषे ।
अलम् विषादेन बिलम् प्रविश्य
वसाम सर्वे यदि रोचते वः ॥४-५३-२५॥

इदम् हि माया विहितम् सुदुर्गमम्
प्रभूत वृक्ष उदक भोज्य पेयम् ।
इह अस्ति नः न एव भयम् पुरंदरात्
न राघवात् वानर राजतो अपि वा ॥४-५३-२६॥

श्रुत्वा अंगदस्य अपि वचो अनुकूलम्
ऊचुः च सर्वे हरयः प्रतीताः ।
यथा न हन्येम तथा विधानम्
असक्तम् अद्य एव विधीयताम् नः ॥४-५३-२७॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥