रामायणम्/किष्किन्धाकाण्डम्/सर्गः २
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १ | रामायणम्/किष्किन्धाकाण्डम् किष्किन्धाकाण्डम् वाल्मीकिः |
सर्गः ३ → |
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ राम लक्ष्मणौ । वर आयुध धरौ वीरौ सुग्रीवः श्ङ्कितोऽभवत् ॥४-२-१॥ उद्विग्न हृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिन् चित् देशे वानर पुङ्गवः ॥४-२-२॥ नैव चक्रे मनः स्थातुम् वीक्षमाणो महाबलौ । कपेः परम भीतस्य चित्तम् व्यवससाद ह ॥४-२-३॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरु लाघवम् । सुग्रीवः परम उद्विग्नः सर्वैः तैः वानरैः सह ॥४-२-४॥ ततः स सचिवेभ्यः तु सुग्रीवः प्लवगाधिपः । शशंस परम उद्विग्नः पश्यन् तौ राम लक्ष्मणौ ॥४-२-५॥ एतौ वनम् इदम् दुर्गम् वालि प्रणिहितौ ध्रुवम् । छद्मना चीर वसनौ प्रचरन्तौ इह आगतौ ॥४-२-६॥ ततः सुग्रीव सचिवा दृष्ट्वा परम धन्विनौ । जग्मुः गिरि तटात् तस्माद् अन्यत् शिखरम् उत्तमम् ॥४-२-७॥ ते क्षिप्रम् अभिगम्य अथ यूथपा यूथपर्षभम् । हरयो वानर श्रेष्ठम् परिवार्य उपतस्थिरे ॥४-२-८॥ एवम् एक आयन गताः प्लवमाना गिरेः गिरिम् । प्रकंपयन्तो वेगेन गिरीणाम् शिखराणि च ॥४-२-९॥ ततः शाखा मृगाः सर्वे प्लवमाना महाबलाः । बभंजुः च नगान् तत्र पुष्पितान् दुर्गम् आश्रितान् ॥४-२-१०॥ आप्लवन्तो हरिवराः सर्वतः तम् महागिरिम् । मृग मार्जार शार्दूलान् त्रासयन्तो ययुः तदा ॥४-२-११॥ ततः सुग्रीव सचिवाः पर्वतेन्द्रे समाहिताः । संगम्य कपि मुख्येन सर्वे प्रांजलयः स्थिताः ॥४-२-१२॥ ततः तु भय संत्रस्तम् वालि किल्बिष शन्कितम् । उवाच हनुमान् वाक्यम् सुग्रीवम् वाक्य कोविदः ॥४-२-१३॥ संभ्रमः त्यजताम् एष सर्वैः वालि कृते महान् । मलयोऽयम् गिरिवरो भयम् न इह अस्ति वालिनः ॥४-२-१४॥ यस्मात् उद्विग्न चेताः त्वम् विद्रुतो हरिपुंगव । तम् क्रूर दर्शनम् क्रूरम् न इह पश्यामि वालिनम् ॥४-२-१५॥ यस्मात् तव भयम् सौम्य पूर्वजात् पाप कर्मणः । स न इह वाली दुष्टात्मा न ते पश्यामि अहम् भयम् ॥४-२-१६॥ अहो शाखा मृगत्वम् ते व्यक्तम् एव प्लवंगम । लघु चित्ततया आत्मानम् न स्थापयसि यो मतौ ॥४-२-१७॥ बुद्धि विज्ञान संपन्न इङ्गितैः सर्वम् आचर । न हि अबुद्धिम् गतो राजा सर्व भूतानि शास्ति हि ॥४-२-१८॥ सुग्रीवः तु शुभम् वाक्यम् श्रुत्वा सर्वम् हनूमतः । ततः शुभतरम् वाक्यम् हनूमन्तम् उवाच ह ॥४-२-१९॥ दीर्घ बाहू विशालाक्षौ शर चाप असि धारिणौ । कस्य न स्यात् भयम् दृष्ट्वा हि एतौ सुर सुत उपमौ ॥४-२-२०॥ वालि प्रणिहितौ एव शन्के अहम् पुरुषोत्तमौ । राजानो बहु मित्राः च विश्वासो न अत्र हि क्षमः ॥४-२-२१॥ अरयः च मनुष्येण विज्ञेयाः छद्म चारिणः । विश्वस्तानाम् अविश्वस्ताः छिद्रेषु प्रहरन्ति अपि ॥४-२-२२॥ कृत्येषु वाली मेधावी राजानो बहु दर्शनः । भवन्ति पर हन्तारः ते ज्ञेयाः प्राकृतैः नरैः ॥४-२-२३॥ तौ त्वया प्राकृतेन एव गत्वा ज्ञेयौ प्लवंगम । इङ्गितानाम् प्रकारैः च रूपव्या भाषणेन च ॥४-२-२४॥ लक्षयस्व तयोः भावम् प्रहृष्ट मनसौ यदि । विश्वासयन् प्रशंसाभिः इङ्गितैः च पुनः पुनः ॥४-२-२५॥ मम एव अभिमुखम् स्थित्वा पृच्छ त्वम् हरि पुंगव । प्रयोजनम् प्रवेशस्य वनस्य अस्य धनुर् धरौ ॥४-२-२६॥ शुद्ध आत्मानौ यदि एतौ जानीहि त्वम् प्लवंगम । व्याभाषितैः वा रूपैः वा विज्ञेया दुष्टता अनयोः ॥४-२-२७॥ इति एवम् कपिराजेन संदिष्टो मारुतात्मजः । चकार गमने बुद्धिम् यत्र तौ राम लक्ष्मणौ ॥४-२-२८॥ तथा इति संपूज्य वचः तु तस्य कपेः सुभीतस्य दुरासदस्य । महानुभावो हनुमान् ययौ तदा स यत्र रामो अतिबली स लक्ष्मणः ॥४-२-२९॥ इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्दे द्वितीयः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।