रामायणम्/किष्किन्धाकाण्डम्/सर्गः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ७ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-६॥

पुनरेव अब्रवीत् प्रीतः राघवम् रघुनन्दनम् ।
अयम् आख्याति ते राम सेवकः मन्त्रि सत्तमः ॥४-६-१॥
हनुमान् यन् निमित्तम् त्वम् निर्जनम् वनम् आगतः ।
लक्ष्मणेन सह भ्रात्रा वसतः च वने तव ॥४-६-२॥
रक्षसा अपहृता भार्या मैथिली जनक आत्मजा ।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥४-६-३॥

अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम् ।
भार्या वियोगजम् दुःखम् प्रापितः तेन रक्ष्सा ॥४-६-४॥

भर्या वियोगजम् दुःखम् न चिरात् त्वम् विमोक्ष्यसे ।
अहम् ताम् आनयिष्यामि नष्टाम् वेदश्रुतीम् इव ॥४-६-५॥

रसातले वा वर्तन्तीम् वर्तन्तीम् वा नभः तले ।
अहम् आनीय दास्यामि तव भार्याम् अरिन्दम ॥४-६-६॥

इदम् तथ्यम् मम वचः त्वम् अवेहि च राघव ।
न शक्या सा जरयितुम् अपि सः इन्द्रैः सुर असुरैः ॥४-६-७॥
तव भार्या महाबाहो भक्ष्यम् विष कृतम् यथा ।

त्यज शोकम् महाबाहो ताम् कान्ताम् आनयामि ते ॥४-६-८॥
अनुमानात् तु जानामि मैथिली सा न संशयः ।
ह्रियमाणा मया दृष्टा रक्षसा रौउद्र कर्मणा ॥४-६-९॥
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।
स्फुरन्ती रावणस्य अन्के पन्नगेन्द्र वधूः यथा ॥४-६-१०॥

आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल तले स्थितम् ।
उत्तरीयम् तया त्यक्तम् शुभानि आभरणानि च ॥४-६-११॥

तानि अस्माभिः गृहीतानि निहितानि च राघव ।
आनयिष्यामि अहम् तानि प्रत्यभिज्ञातुम् अर्हसि ॥४-६-१२॥

तम् अब्रवीत् ततः रामः सुग्रीवम् प्रिय वादिनम् ।
आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे ॥४-६-१३॥

एवम् उक्तः तु सुग्रीवः शैलस्य गहनाम् गुहाम् ।
प्रविवेश ततः शीघ्रम् राघव प्रिय काम्यया ॥४-६-१४॥

उत्तरीयम् गृहीत्वा तु स तानि आभरणानि च ।
इदम् पश्य इति रामाय दर्शयामास वानरः ॥४-६-१५॥

ततो गृहीत्वा वासः तु शुभानि आभरणानि च ।
अभवत् बाष्प सम्रुद्धः नीहारेण इव चन्द्रमाः ॥४-६-१६॥

सीता स्नेह प्रवृत्तेन स तु बाष्पेण दूषितः ।
हा प्रिये इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ ॥४-६-१७॥

हृदि कृत्वा स बहुशः तम् अलंकारम् उत्तमम् ।
निशश्वास भृशम् सर्पः बिलस्थ इव रोषितः ॥४-६-१८॥

अविच्छिन्न अश्रु वेगः तु सौमित्रिम् प्रेक्ष्य पार्श्वतः ।
परिदेवयितुम् दीनम् रामः सम् उपचक्रमे ॥४-६-१९॥

पश्य लक्ष्मण वैदेह्या संत्यक्तम् ह्रियमाणया ।
उत्तरीयम् इदम् भूमौ शरीराद् भूषणानि च ॥४-६-२०॥

शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया ।
उत्सृष्टम् भूषणाम् इदम् तथा रूपम् हि दृश्यते ॥४-६-२१॥

एवम् उक्तसः तु रामेण लक्ष्मणो वाक्यम् इदम् अब्रवीत् ।
न अहम् जानामि केयूरे न अहम् जानामि कुन्डले ॥४-६-२२॥
नूपुरे तु अभिजनामि नित्यम् पाद अभिवंदनात् ।

ततः तु राघवो वाक्यम् सुग्रीवम् इदम् अब्रवीत् ॥४-६-२३॥
ब्रूहि सुग्रीव कम् देशम् ह्रियन्ती लक्षिता त्वया ।
रक्षसा रौद्ररूपेण मम प्राणप्रिया प्रिया ॥४-६-२४॥

क्व वा वसति तत् रक्षJः महत् व्यसनदम् मम ।
यन् निमित्तम् अहम् सर्वान् नाशयिष्यामि राक्षसान् ॥४-६-२५॥

हरता मैथिलीम् येन माम् च रोषयता ध्रुवम् ।
आत्मनो जीवित अन्ताय मृत्यु द्वारम् अपावृतम् ॥४-६-२६॥

मम दयित तमा हृता वनात् रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुम् तम् अद्य वै प्लवगपते यम सन्निधिम् नयामि ॥४-६-२७॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ॥४-६॥