रामायणम्/किष्किन्धाकाण्डम्/सर्गः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १९ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २१ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥

राम चाप विसृष्टेन शरेण अंतकरेण तम् ।
दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥४-२०-१॥
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।

इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥४-२०-२॥
वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।
तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥४-२०-३॥

रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।
किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४-२०-४॥

उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।
न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥४-२०-५॥

अतीव खलु ते कांता वसुधा वसुधाधिप ।
गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥४-२०-६॥

व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।
किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥४-२०-७॥

यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।
विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥४-२०-८॥

निरानंदा निराशा अहम् निमग्ना शोक सागरे ।
त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥४-२०-९॥

हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।
यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥४-२०-१०॥

सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।
यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥४-२०-११॥

निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।
या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥४-२०-१२॥

रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।
नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥

कालो निःसंशयो नूनम् जीवित अंतकरः तव ।
बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥४-२०-१४॥

अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।
न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥४-२०-१५॥

वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।
अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥४-२०-१६॥

लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।
वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥४-२०-१७॥

कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।
दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥४-२०-१८॥

समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।
मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥४-२०-१९॥

रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।
आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥

सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।
भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥४-२०-२१॥

किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।
इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥४-२०-२२॥

तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।
परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥४-२०-२३॥

किम् अंगदम् स अंगद वीर बाहो
विहाय यातो असि अद्य चिरम् प्रवासम् ।
न युक्तम् एवम् गुण संनिकृष्टम्
विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥४-२०-२४॥

यदि अप्रियम् किंचिद् असंप्रधार्य
कृतम् मया स्यात् तव दीर्घ बाहो ।
क्षमस्व मे तत् हरि वम्श नाथ
व्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥

तथा तु तारा करुणम् रुदंती
भर्तुः समीपे सह वानरीभिः ।
व्यवस्यत प्रायम् अनिन्द्य वर्णा
उपोपवेष्टुम् भुवि यत्र वाली ॥४-२०-२६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥