रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४२ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ४४ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥

ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् ।
वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥४-४३-१॥

उवाच राजा सर्वज्ञः सर्व वानर सत्तम ।
वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥४-४३-२॥

वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् ।
वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥४-४३-३॥

दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् ।
सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४-४३-४॥

अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।
ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥४-४३-५॥

कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना ।
तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥४-४३-६॥

अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् ।
तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥४-४३-७॥

एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥४-४३-८॥

अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः ।
अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥४-४३-९॥

इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च ।
भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥४-४३-१०॥

तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथैव च ।
प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥४-४३-११॥
कांबोज यवनान् चैव शकान् पत्तनानि च ।
अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥४-४३-१२॥

लोध्र पद्मक खण्डेषु देवदारु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥४-४३-१३॥

ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् ।
कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥४-४३-१४॥

महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।
विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥४-४३-१५॥

तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् ।
ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥४-४३-१६॥

ततो देवसखो नाम पर्वतः पतग आलय ।
नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥४-४३-१७॥

तस्य कानन खण्डेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-१८॥

तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् ।
अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥४-४३-१९॥

तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् ।
कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥४-४३-२०॥

तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् ।
कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥४-४३-२१॥

विशाला नलिनी यत्र प्रभूत कमलोत्पला ।
हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥४-४३-२२॥

तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः ।
धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥४-४३-२३॥

तस्य चन्द्र निकशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-२४॥

क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥४-४३-२५॥

वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः ।
देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥४-४३-२६॥

क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च ।
निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥४-४३-२७॥

अवृक्षम् काम शैलम् च मानसम् विहग आलयम् ।
न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥४-४३-२८॥

स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः ।
क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥

मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् ।
मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥४-४३-३०॥
स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु ।

तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥४-४३-३१॥
सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः ।

वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥४-४३-३२॥
प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ।

हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥४-४३-३३॥
तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः ।

औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥४-४३-३४॥
गजः पर्येति तम् देशम् सदा सह करेणुभिः ।

तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् ।
अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥४-४३-३५॥

गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥४-४३-३६॥

तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥४-४३-३७॥
ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च ।

उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥४-४३-३८॥
ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः ।
नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥४-४३-३९॥
रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः ।

तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥
महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः ।
नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥

निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः ।
उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४-४३-४२॥

सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः ।
जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४-४३-४३॥

नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः ।
दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४-४३-४४॥
नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः ।

मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च ।
स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४-४३-४५॥
सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः ।
महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४-४३-४६॥

शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च ।
मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४-४३-४७॥
पानानि च महा अर्हाणि भक्ष्याणि विविधानि च ।

स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४-४३-४८॥
गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा ।
रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४-४३-४९॥

सर्वे सुकृत कर्माणः सर्वे रति परायणाः ।
सर्वे काम अर्थ सहिता वसंति सह योषितः ॥४-४३-५०॥

गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः ।
श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥४-४३-५१॥

तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः ।
अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥४-४३-५२॥

तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः ।
तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥४-४३-५३॥

इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये ।
देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥४-४३-५४॥

स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते ।
सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥४-४३-५५॥

भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः ।
ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥४-४३-५६॥

न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः ।
अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥४-४३-५७॥

सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः ।
तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥४-४३-५८॥

एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः ।
अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४३-५९॥

सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् ।
यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥४-४३-६०॥

ततः कृतम् दाशरथेः महत् प्रियम्
महत्तरम् च अपि ततो मम प्रियम् ।
कृतम् भविष्यति अनिलोअनलोउपमा
विदेहजा दर्शनजेन कर्मणा ॥४-४३-६१॥

ततः कृतार्थाः सहिताः सबान्धवा
मया अर्चिताः सर्व गुणैः मनो रमैः ।
चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअः
सह प्रिया भूत धराः प्लवंगमाः ॥४-४३-६२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥