रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५६ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५८ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥

शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः ।
श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः ॥४-५७-१॥

ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः ।
चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति ॥४-५७-२॥

सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति ।
कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः ॥४-५७-३॥

एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः ।
अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा ॥४-५७-४॥

बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् ।
मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ ॥४-५७-५॥
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ ।
लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम ॥४-५७-६॥

राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५७-७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।
पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः ॥४-५७-८॥

तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।
रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् ॥४-५७-९॥
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा ।

रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रान्तः च वृद्धः च रावणेन हतो रणे ॥४-५७-१०॥

एवम् गृध्रो हतः तेन रावणेन बलीयसा ।
संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् ॥४-५७-११॥

ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवः सख्यम् सः अवधीत् पितरम् मम ॥४-५७-१२॥
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।
निहत्य वालिनम् रामः ततः तम् अभिषेचयत् ॥४-५७-१३॥

स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः ।
राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् ॥४-५७-१४॥

एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः ।
वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव ॥४-५७-१५॥

ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः ।
अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् ॥४-५७-१६॥

मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् ।
व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः ॥४-५७-१७॥

ते वयम् कपि राजस्य सर्वे वचन कारिणः ।
कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः ॥४-५७-१८॥

क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे ।
गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् ॥४-५७-१९॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥