रामायणम्/किष्किन्धाकाण्डम्/सर्गः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १६ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १८ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥

ततः शरेण अभिहतो रामेण रण कर्कशः ।
पपात सहसा वाली निकृत्तैव पादपः ॥४-१७-१॥

स भूमौ न्यस्त सर्वांगः तप्त कांचन भूषणः ।
अपतत् देव राजस्य मुक्त रश्मिर् इव ध्वजः ॥४-१७-२॥

अस्मिन् निपतिते भूमौ हरि ऋषाणाम् गणेश्वरे ।
नष्ट चन्द्रम् इव व्योम न व्यराजत मेदिनी ॥४-१७-३॥

भूमौ निपतितस्य अपि तस्य देहम् महात्मनः ।
न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः ॥४-१७-४॥

शक्र दत्ता वरा माला कान्चनी रत्न भूषिता ।
दधार हरि मुख्यस्य प्राणान् तेजः श्रियम् च सा ॥४-१७-५॥

स तया मालया वीरो हैमया हरियूथपः ।
संध्यानुगत पर्यन्तः पयोधर इव अभवत् ॥४-१७-६॥

तस्य माला च देहः च मर्मघाती च यः शरः ।
त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते ॥४-१७-७॥

तत् अस्त्रम् तस्य वीरस्य स्वर्ग मार्ग प्रभावनम् ।
राम बाणासन क्षिप्तम् आवहत् परमाम् गतिम् ॥४-१७-८॥

तम् तथा पतितम् संख्ये गत अर्चिषम् इव अनलम् ।
ययातिम् इव पुण्यान्ते देव लोकात् परिच्युतम् ॥४-१७-९॥
आदित्यम् इव कालेन युगान्ते भुवि पातितम् ।
महेन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुस्सहम् ॥४-१७-१०॥
महेन्द्र पुत्रम् पतितम् वालिनम् हेम मालिनम् ।
व्यूढ उरस्कम् महाबाहुम् दीप्तास्यम् हरि लोचनम् ॥४-१७-११॥
लक्ष्मण अनुचरो रामो ददर्श उपससर्प च ।

तम् तथा पतितम् वीरम् गत अर्चिष्मतम् इव अनलम् ॥४-१७-१२॥
बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव ।
उपयातौ महावीर्यौ भ्रातरौ राम लक्ष्मणौ ॥४-१७-१३॥

तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महाबलम् ।
अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म संहितम् ॥४-१७-१४॥
स भूमौ अल्पतेजोसुः निहतो नष्ट चेतनः ।
अर्थ सहितया वाचा गर्वितम् रण गर्वितम् ॥४-१७-१५॥

त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय दर्शनः ।
पराङ्मुख वधम् कृत्वा को अत्र प्राप्तः त्वया गुणः ।
यदहम् युद्ध सम्रब्धः त्वत् कृते निधनम् गतः ॥४-१७-१६॥

कुलीनः सत्त्व संपन्नः तेजस्वी चरितव्रतः ।
रामः करुणवेदी च प्रजानाम् च हितेरतः ॥४-१७-१७॥
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।
इति एतत् सर्व भूतानि कथयन्ति यशो भुवि ॥४-१७-१८॥

दमः शमः क्षमा धर्मो धृति सत्यम् पराक्रमः ।
पर्थिवानाम् गुणा राजन् दण्डः च अपकारिषु ॥४-१७-१९॥

तान् गुणान् संप्रधार्य अहम् अग्र्यम् च अभिजनम् तव ।
तारया प्रतिषिद्धो अपि सुग्रीवेण समागतः ॥४-१७-२०॥

न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि ।
इति मे बुद्धिर् उत्पन्ना बभूव अदर्शने तव ॥४-१७-२१॥

न त्वाम् विनिहत आत्मानम् धर्म ध्वजम् अधार्मिकम् ।
जाने पाप समाचारम् तृणैः कूपम् इव आवृतम् ॥४-१७-२२॥

सताम् वेष धरम् पापम् प्रच्छन्नम् इव पावकम् ।
न अहम् त्वाम् अभिजानामि धर्म छद्माभि संवृतम् ॥४-१७-२३॥

विषये वा पुरे वा ते यदा पापम् करोमि अहम् ।
न च त्वाम् अवजाने अहं कस्मात् त्वम् हंसि अकिल्बिषम् ॥४-१७-२४॥
फल मूल अशनम् नित्यम् वानरम् वन गोचरम् ।
माम् इह अप्रतियुध्यन्तम् अन्येन च समागतम् ॥४-१७-२५॥

त्वम् नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।
लिन्गम् अपि अस्ति ते राजन् दृश्यते धर्म सम्हितम् ॥४-१७-२६॥

कः क्षत्रिय कुलेजातः श्रुतवान् नष्टसंशयः ।
धर्म लिंग प्रतिच्छन्नः क्रूरम् कर्म समाचरेत् ॥४-१७-२७॥

राम राघव कुले जातो धर्मवान् इति विश्रुतः ।
अभव्यो भव्य रूपेण किम् अर्थम् परिधावसे ॥४-१७-२८॥

साम दानम् क्षमा धर्मः सत्यम् धृति पराक्रमौ ।
पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु ॥४-१७-२९॥

वयम् वनचरा राम मृगा मूल फल अशनाः ।
एषा प्रकृतिर् अस्माकम् पुरुषः त्वम् नरेश्वरः ॥४-१७-३०॥

भूमिर् हिरण्यम् रूपम् च निग्रहे कारणानि च ।
तत्र कः ते वने लोभो मदीयेषु फलेषु वा ॥४-१७-३१॥

नयः च विनयः च उभौ निग्रह अनुग्रहौ अपि ।
राज वृत्तिर् असंकीर्णा न नृपाः काम वृत्तयः ॥४-१७-३२॥

त्वम् तु काम प्रधानः च कोपनः च अनवस्थितः ।
राज वृत्तेषु संकीर्णः शरासन परायणः ॥४-१७-३३॥

न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिर् अवस्थिता ।
इन्द्रियैः काम वृत्तः सन् कृष्यसे मनुजेश्वर ॥४-१७-३४॥

हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् ।
किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम् ॥४-१७-३५॥

राजहा ब्रह्महा गोघ्नः चोरः प्राणिवधे रतः ।
नास्तिकः परिवेत्ता च सर्वे निरय गामिनः ॥४-१७-३६॥

सूचकः च कदर्यः च मित्र्घ्नो गुरुतल्पगः ।
लोकं पापात्मानम् एते गच्छन्ते न अत्र संशयः ॥४-१७-३७॥

अधार्यम् चर्म मे सद्भी रोमाणि अस्थि च वर्जितम् ।
अभक्ष्याणि च मांसानि त्वत् विधैः धर्मचारिभिः ॥४-१७-३८॥

पंच पंच नखा भक्ष्या ब्रह्म क्षत्रेण राघव ।
शल्यकः श्वाविधो गोधा शशः कूर्मः च पंचमः ॥४-१७-३९॥

चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः ।
अभक्ष्याणि च मांसानि सो अहम् पंच नखो हतः ॥४-१७-४०॥

तारया वाक्यम् उक्तो अहम् सत्यम् सर्वज्ञया हितम् ।
तद् अतिक्रम्य मोहेन कालस्य वशम् आगतः ॥४-१७-४१॥

त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।
प्रमदा शील संपूर्णा पति एव च विधर्मिणा ॥४-१७-४२॥

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित मानसः ।
कथम् दशरथेन त्वम् जातः पापो महात्मना ॥४-१७-४३॥

छिन्न चारित्र्य कक्ष्येण सताम् धर्म अतिवर्तिना ।
त्यक्त धर्म अंकुशेन अहम् निहतो राम हस्तिना ॥४-१७-४४॥

अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् ।
वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः ॥४-१७-४५॥

उदासीनेषु यो अस्मासु विक्रमो अयम् प्रकाशितः ।
अपकारिषु ते राम न एवम् पश्यामि विक्रमम् ॥४-१७-४६॥

दृश्यमानः तु युध्येथा मया युधि नृपात्मज ।
अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतो मया ॥४-१७-४७॥

त्वया अदृश्येन तु रणे निहतो अहम् दुरासदः ।
प्रसुप्तः पन्नगेन इव नरः पाप वशम् गतः ॥४-१७-४८॥

सुग्रीव प्रिय कामेन यद् अहम् निहतः त्वया ।
माम् एव यदि पूर्वम् त्वम् एतद् अर्थम् अचोदयः ।
मैथिलिम् अहम् एक आह्ना तव च आनीतवान् भवेः ॥४-१७-४९॥
राक्षसम् च दुरात्मानाम् तव भार्य अपहारिणम् ।
कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे ॥४-१७-५०॥

न्यस्ताम् सागर तोये वा पाताले वा अपि मैथिलीम् ।
आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव ॥४-१७-५१॥

युक्तम् यत् प्रप्नुयात् राज्यम् सुग्रीवः स्वर् गते मयि ।
अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे ॥४-१७-५२॥

कामम् एवम् विधम् लोकः कालेन विनियुज्यते ।
क्षमम् चेत् भवता प्राप्तम् उत्तरम् साधु चिंत्यताम् ॥४-१७-५३॥

इति एवम् उक्त्वा परिशुष्क वक्त्रः
शर अभिघातात् व्यथितो महात्मा ।
समीक्ष्य रामम् रवि संनिकाशम्
तूष्णीम् बभौ वानर राज सूनुः ॥४-१७-५४॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥