रामायणम्/किष्किन्धाकाण्डम्/सर्गः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २० रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २२ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥

ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् ।
शनैः आश्वासयामास हनूमान् हरि यूथपः ॥४-२१-१॥

गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् ।
अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम् ॥४-२१-२॥

शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे ।
कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे ॥४-२१-३॥

अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया ।
आयत्या च विधेयानि समर्थानि अस्य चिन्तय ॥४-२१-४॥

जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् ।
तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम् ॥४-२१-५॥

यस्मिन् हरि सहस्राणि शतानि नियुतानि च ।
वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः ॥४-२१-६॥

यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः ।
गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि ॥४-२१-७॥

सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः ।
हरि ऋक्ष पति राज्यम् च त्वत् सनाथम् अनिन्दिते ॥४-२१-८॥

तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम् ॥४-२१-९॥

संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् ।
राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः ॥४-२१-१०॥

संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् ।
सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि ॥४-२१-११॥

सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता ।
अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम् ॥४-२१-१२॥

अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् ।
हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम् ॥४-२१-१३॥

न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा ।
पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः ॥४-२१-१४॥

न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति ।
पिता हि बंधुः पुत्रस्य न माता हरि सत्तम ॥४-२१-१५॥

न हि मम हरि राज संश्रयात्
क्षमतरम् अस्ति परत्र च इह वा ।
अभिमुख हत वीर सेवितम्
शयनम् इदम् मम सेवितुम् क्षमम् ॥४-२१-१६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥