रामायणम्/किष्किन्धाकाण्डम्/सर्गः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २७ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः २९ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥

स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च ।
वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् ॥४-२८-१॥

अयम् स कालः संप्राप्तः समयो अद्य जल आगमः ।
संपश्य त्वम् नभो मेघैः संवृतम् गिरि संनिभैः ॥४-२८-२॥

नव मास धृतम् गर्भम् भास्करस्य गभस्तिभिः ।
पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम् ॥४-२८-३॥

शक्यम् अंबरम् आरुह्य मेघ सोपान पंक्तिभिः ।
कुटज अर्जुन मालाभिः अलंकर्तुम् दिवाकरम् ॥४-२८-४॥

संध्या राग उत्थितैः ताम्रैः अंतेषु अधिक पाण्डुरैः ।
स्निग्धैः अभ्र पट च्छेदैः बद्ध व्रणम् इव अंबरम् ॥४-२८-५॥

मन्द मारुत निःश्वासम् संध्या चंदन रंजितम् ।
आपाण्डु जलदम् भाति काम आतुरम् इव अंबरम् ॥४-२८-६॥

एषा घर्म परिक्लिष्टा नव वारि परिप्लुता ।
सीता इव शोक संतप्ता मही बाष्पम् विमुंचति ॥४-२८-७॥

मेघ उदर विनिर्मुक्ताः कर्पूर दल शीतलाः ।
शक्यम् अंजलिभिः पातुम् वाताः केतकि गन्धिनः ॥४-२८-८॥

एष फुल्ल अर्जुनः शैलः केतकैः अधिवासितः ।
सुग्रीव इव शान्त अरिः धाराभिः अभिषिच्यते ॥४-२८-९॥

मेघ कृष्ण अजिन धरा धारा यज्ञ उपवीतिनः ।
मारुत आपूरित गुहाः प्राधीता इव पर्वताः ॥४-२८-१०॥

कशाभिः इव हैमीभिः विद्युद्भिः इव ताडितम् ।
अन्तः स्तनित निर्घोषम् सवेदनम् इव अंबरम् ॥४-२८-११॥

नील मेघ आश्रिता विद्युत् स्फुरंती प्रतिभाति मे ।
स्फुरंती रावणस्य अंके वैदेही इव तपस्विनी ॥४-२८-१२॥

इमाः ता मन्मथवताम् हिताः प्रतिहता दिशः ।
अनुलिप्ता इव घनैः नष्ट ग्रह निशा कराः ॥४-२८-१३॥

क्वचित् बाष्प अभिसंरुद्धान् वर्ष आगम समुत्सुकान् ।
कुटजान् पश्य सौमित्रे पुष्टितान् गिरि सानुषु ।
मम शोक अभिभूतस्य काम सम्दीपनान् स्थितान् ॥४-२८-१४॥

रजः प्रशांतम् स हिमो अद्य वायुः
निदाघ दोष प्रसराः प्रशांताः ।
स्थिता हि यात्रा वसुधा अधिपानाम्
प्रवासिनो यांति नराः स्व देशान् ॥४-२८-१५॥

संप्रस्थिता मानस वास लुब्धाः
प्रिय अन्विताः संप्रति चक्रवाकः ।
अभीक्ष्ण वर्ष उदक विक्षतेषु
यानानि मार्गेषु न संपतन्ति ॥४-२८-१६॥

क्वचित् प्रकाशम् क्वचिद् अप्रकाशम्
नभः प्रकीर्णा अंबु धरम् विभाति ।
क्वचित् क्वचित् पर्वत संनिरुद्धम्
रूपम् यथा शान्त महार्णवस्य ॥४-२८-१७॥

व्यामिश्रितम् सर्ज कदंब पुष्पैः
नवम् जलम् पर्वत धातु ताम्रम् ।
मयूर केकाभिः अनुप्रयातम्
शैल अपगाः शीघ्रतरम् वहन्ति ॥४-२८-१८॥

रस आकुलम् षट्पद संनिकाशम्
प्रभुज्यते जंबु फलम् प्रकामम् ।
अनेक वर्णम् पवन अवधूतम्
भूमौ पतति आम्र फलम् विपक्वम् ॥४-२८-१९॥

विद्युत् पताकाः स बलाक मालाः
शैलेन्द्र कूट आकृति संनिकाशाः ।
गर्जन्ति मेघाः समुदीर्ण नादा
मत्त गजेन्द्रा इव संयुगस्थाः ॥४-२८-२०॥

वर्ष उदक आअप्यायित शाद्वलानि
प्रवृत्त नृत्त उत्सव बर्हिणानि ।
वनानि निर्वृष्ट बलाहकानि
पश्य अपराह्णेषु अधिकम् विभान्ति ॥४-२८-२१॥

सम् उद् वहन्तः सलिल अति भारम्
बलाकिनो वारि धरा नदन्तः ।
महत्सु शृंगेषु मही धराणाम्
विश्रम्य विश्रम्य पुनः प्रयान्ति ॥४-२८-२२॥

मेघ अभिकामा परिसंपतन्ती
सम्मोदिता भाति बलाक पंक्तिः ।
वात अवधूता वर पौण्डरीकी
लंब इव माला रुचिर अंबरस्य ॥४-२८-२३॥

बाल इन्द्रगोप्ता अंतर चित्रितेन
विभाति भूमिः नव शाद्वलेन ।
गात्र अनुपृक्तेन शुक प्रभेण
नारी इव लाक्ष उक्षित कंबलेन ॥४-२८-२४॥

निद्रा शनैः केशवम् अभ्युपैति
द्रुतम् नदी सागरम् अभ्युपैति ।
हृष्टा बलाका घनम् अभ्युपैति
कान्ता स कामा प्रियम् अभ्युपैति ॥४-२८-२५॥

जाता वनान्ताः शिखि सुप्रनृत्ता
जाताः कदंबाः स कदंब शाखाः ।
जाता वृषा गोषु समान कामा
जाता मही सस्य वन अभिरामा ॥४-२८-२६॥

वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।
नद्यो घना मत्त गजा वन अन्ताः
प्रिया विहीनाः शिखिनः प्लवंगाः ॥४-२८-२७॥

प्रहर्षिताः केतक पुष्प गन्धम्
आघ्राय मत्ता वन निर्झरेषु ।
प्रपात शब्द आकुलिता गजेन्द्राः
सार्धम् मयूरैः स मदा नदन्ति ॥४-२८-२८॥

धारा निपातैः अभिहन्यमानाः
कदंब शाखासु विलंबमानाः ।
क्षण अर्जितम् पुष्प रस अवगाढम्
शनैर् मदम् षट् चरणाः त्यजन्ति ॥४-२८-२९॥

अंगार चूर्ण उत्कर संनिकाशैः
फलैः सुपर्याप्त रसैः समृद्धैः ।
जंबू द्रुमाणाम् प्रविभान्ति शाखा
निपीयमाना इव षट्पद ओघैः ॥४-२८-३०॥

तडित् पताकाभिः अलंकृतानाम्
उदीर्ण गंभीर महा रवाणाम् ।
विभान्ति रूपाणि बलाहकानाम्
रण उत्सुकानाम् इव वारणानाम् ॥४-२८-३१॥

मार्ग अनुगः शैल वन अनुसारी
संप्रस्थितो मेघ रवम् निशम्य ।
युद्ध अभिकामः प्रतिनाद शन्की
मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥४-२८-३२॥

क्वचित् प्रगीता इव षट्पद ओघैः
क्वचित् प्रवृत्ता इव नील कण्ठैः ।
क्वचित् प्रमत्ता इव वारण इन्द्रैः
विभाति अनेक आश्रयिणो वनान्ता ॥४-२८-३३॥

कदंब सर्जा अर्जुन कंदल आढ्या
वनान्त भूमि मधु वारि पूर्णा ।
मयूर मत्ता अभिरुत प्रवृत्तैः
अपान भूमि प्रतिमा विभाति ॥४-२८-३४॥

मुक्ता समाभम् सलिलम् पतत् वै
सुनिर्मलम् पत्र पुटेषु लग्नम् ।
हृष्टा विवर्ण च्छदना विहंगाः
सुरेन्द्र दत्तम् तृषिताः पिबन्ति ॥४-२८-३५॥

षत्पद तंत्री मधुर अभिधानम्
प्लवंगम् उदीरित कण्ठ तालम् ।
आविष्कृतम् मेघ मृदंग नादैः
वनेषु संगीतम् इव प्रवृत्तम् ॥४-२८-३६॥

क्वचित् प्रनृत्तैः क्वचित् उन् नदद्भिः
क्वचित् च वृक्ष अग्र निषण्ण कायैः ।
व्यालंब बर्ह आभरणैः मयूरैः
वनेषु संगितम् इव प्रवृत्तम् ॥४-२८-३७॥

स्वनैः घनानाम् प्लवगाः प्रबुद्धा
विहाय निद्राम् चिर संनिरुद्धाम् ।
अनेक रूपा आकृति वर्ण नादा
नव अंबु धारा अभिहता नदन्ति ॥४-२८-३८॥

नद्यः समुद्वाहित चक्रवाका
तटानि शीर्णानि अपवाहयित्वा ।
दृप्ता नव प्राभृत पूर्ण भोगा
द्रुतम् स्व भर्तारम् उपोप यान्ति ॥४-२८-३९॥

नीलेषु नीला नव वारि पूर्णा
मेघेषु मेघाः प्रविभान्ति सक्ताः ।
दवाग्नि दग्धेषु दवाग्नि दग्धाः
शैलेषु शैला इव बद्ध मूलाः ॥४-२८-४०॥

प्रमत्त संनाददित बर्हिणानि
स शक्रगोप अकुल शाद्वलानि ।
चरन्ति नीप अर्जुन वासितानि
गजाः सुरम्याणि वन अन्तराणि ॥४-२८-४१॥

नव अंबु धार आहत केसराणि
द्रुतम् परित्यज्य सरोरुहाणि ।
कदंब पुष्पाणि स केसराणि
नवानि हृष्टा भ्रमराः पिबन्ति ॥४-२८-४२॥

मत्ता गजेन्द्रा मुदिता गवेन्द्रा
वनेषु विक्रांततरा मृगेन्द्राः ।
रम्या नगेन्द्रा निभृता नरेन्द्राः
प्रक्रीडितो वारि धरैः सुरेन्द्रः ॥४-२८-४३॥

मेघाः समुद् भूत समुद्र नादा
महाजल ओघैः गगन अवलंबाः ।
नदीः तटाकानि सरांसि वापिः
महीम् च कृत्स्नाम् अपवाहयन्ति ॥४-२८-४४॥

वर्ष प्रवेगा विपुला पतन्ति
प्रवान्ति वाताः समुदीर्ण वेगाः ।
प्रनष्ट कूलाः प्रवहन्ति शीघ्रम्
नद्यो जलम् विप्रतिपन्न मार्गाः ॥४-२८-४५॥

नरैः नरेन्द्रा इव पर्वतेन्द्राः
सुरेन्द्र नीतैः पवन उपनीतैः ।
घन अंबु कुम्भैः अभिषिच्यमाना
रूपम् श्रियम् स्वाम् इव दर्शयन्ति ॥४-२८-४६॥

घन उपगूढम् गगनम् न तारा
न भास्करो दर्शनम् अभ्युपैति ।
नवैः जल ओघैः धरणी वितृप्ता
तमो विलिप्ता न दिशः प्रकाशाः ॥४-२८-४७॥

महान्ति कूटानि मही धराणाम्
धारा विधौतानि अधिकम् विभान्ति ।
महा प्रमाणैः विपुलैः प्रपातैः
मुक्त कलापैः इव लंबमानैः ॥४-२८-४८॥

शैलोपल प्रस्खलमान वेगाः
शैलोत्तमानाम् विपुलाः प्रपाताः ।
गुहासु संनादित बर्हिणासु
हारा विकीर्यन्त इव अवभान्ति ॥४-२८-४९॥

शीघ्र प्रवेगा विपुलाः प्रपाता
निर्धौत शृंग उपतला गिरीणाम् ।
मुक्ता कलाप प्रतिमाः पतन्तो
महा गुह उस्त्संग तलैः ध्रियन्ते ॥४-२८-५०॥

सुरताम् अर्द विच्छिन्नाः स्वर्ग स्त्री हार मौक्तिकाः ।
पतन्ति च अतुलाः दिक्षु तोय धाराः समन्ततः ॥४-२८-५१॥

विलीयमानैः विहगैः निमीलद्भिः च पंकजैः ।
विकसन्त्या च मालत्या गतो अस्तम् ज्ञायते रविः ॥४-२८-५२॥

वृत्ता यात्रा नरेन्द्राणाम् सेना पथि एव वर्तते ।
वैराणि चैव मार्गाः च सलिलेन समीकृताः ॥४-२८-५३॥

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् ।
अयम् अध्याय समयः सामगानाम् उपस्थितः ॥४-२८-५४॥

निवृत्त कर्म आयतनो नूनम् संचित संचयः ।
आषाढीम् अभ्युपगतो भरतः कोसल अधिपः ॥४-२८-५५॥

नूनम् आपूर्यमाणायाः सरय्वा वधते रयः ।
माम् समीक्ष्य समायान्तम् अयोध्याया इव स्वनः ॥४-२८-५६॥

इमाः स्फीत गुणा वर्षाः सुग्रीवः सुखम् अश्नुते ।
विजित अरिः स दारः च राज्ये महति च स्थितः ॥४-२८-५७॥

अहम् तु हृत दारः च राज्यात् च महतः च्युतः ।
नदी कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण ॥४-२८-५८॥

शोकः च मम विस्तीर्णो वर्षाः च भृश दुर्गमाः ।
रावणः च महान् शत्रुः अपारम् प्रतिभाति मे ॥४-२८-५९॥

अयात्राम् चैव दृष्ट्वा इमाम् मार्गाम् च भृश दुर्गमान् ।
प्रणते चैव सुग्रीवे न मया किंचित् ईरितम् ॥४-२८-६०॥

अपि च अति परिक्लिष्टम् चिरात् दारैः समागतम् ।
आत्म कार्य गरीयस्त्वात् वक्तुम् न इच्छामि वानरम् ॥४-२८-६१॥

स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् ।
उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः ॥४-२८-६२॥

तस्मात् काल प्रतीक्षो अहम् स्थितो अस्मि शुभ लक्षण ।
सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन् ॥४-२८-६३॥

उपकारेण वीरो हि प्रतिकारेण युज्यते ।
अकृतज्ञो अप्रतिकृतो हन्ति सत्त्ववताम् मनः ॥४-२८-६४॥

अथ एवम् उक्तः प्रणिधाय लक्ष्मणः
कृत अंजलिः तत् प्रतिपूज्य भाषितम् ।
उवाच रामम् स्वभिराम दर्शनम्
प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२८-६५॥

यत् उक्तम् एतत् तव सर्वम् ईप्सितम्
नर इन्द्र कर्ता नचिरा हरि ईश्वरः ।
शरत् प्रतीक्षः क्षमताम् इमम् भवान्
जल प्रपातम् रिपु निग्रहे धृतः ॥४-२८-६६॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥