रामायणम्/किष्किन्धाकाण्डम्/सर्गः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ८ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १० →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥

वाली नाम मम भ्राता ज्येष्ठः शत्रु निषूदनः ।
पितुः बहुमतः नित्यम् मम च अपि तथा पुरा ॥४-९-१॥

पितरि उपरते तस्मिन् ज्येष्ठो अयम् इति मंत्रिभिः ।
कपीनाम् ईश्वरो राज्ये कृतः परम सम्मतः ॥४-९-२॥

राज्यम् प्रशासतः तस्य पितृपैतामहम्महत् ।
अहम् सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥४-९-३॥

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।
तेन तस्य महद् वैरम् वालिनः स्त्री कृतम् पुरा ॥४-९-४॥

स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः ।
नर्दति स्म सुसम्रब्धो वालिनम् च आह्वयत् रणे ॥४-९-५॥

प्रसुप्तः तु मम भ्राता नर्दितो भैरवस्वनम् ।
श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥४-९-६॥

स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुरोत्तमम् ।
वार्यमाणः ततः स्त्रीभिः मया च प्रणत आत्मना ॥४-९-७॥

स तु निर्धूय सर्वान् नो निर्जगाम महाबलः ।
ततः अहमपि सौहार्दान्निःसृतः वालिना सह ॥४-९-८॥

स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् ।
असुरो जात संत्रासः प्रदुद्राव तदा भृशम् ॥४-९-९॥

तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ ।
प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा ॥४-९-१०॥

स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् ।
प्रविवेश असुरः वेगात् आवाम् आसाद्य विष्ठितौ ॥४-९-११॥

तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष वशम् गतः ।
माम् उवाच ततो वाली वचनम् क्षुभित इन्द्रियः ॥४-९-१२॥

इह तिष्ठ अद्य सुग्रीव बिल द्वारि समाहितः ।
यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम् ॥४-९-१३॥

मया तु एतत् वचः श्रुत्वा याचितः स परंतपः ।
शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततः ॥४-९-१४॥

तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः ।
स्थितस्य च बिल द्वारि सः कालः व्यत्यवर्तत ॥४-९-१५॥

अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत संभ्रमः ।
भ्रातरम् न प्रपश्यामि पाप शङ्कि च मे मनः ॥४-९-१६॥

अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् ।
सः फेनम् रुधिरम् दृष्ट्वा ततो अहम् भृशदुःखितः ॥४-९-१७॥

नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः ।
न रस्तस्य च संग्रामे क्रोशतो अपि स्वनो गुरोः ॥४-९-१८॥

अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् ।
पिधाय च बिल द्वारम् शिलया गिरि मात्रया ॥४-९-१९॥
शोकार्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे ।
गूहमानस्य मे तत्त्वम् यत्नतः मंत्रिभिः श्रुतम् ॥४-९-२०॥

ततः अहम् तैः समागम्य समेतैः अभिषेचितः ।
राज्यम् प्रशासतः तस्य न्यायतो मम राघव ॥४-९-२१॥
आजगाम रिपुम् हत्वा दानवम् स तु वानरः ।

अभिषिक्तम् तु माम् दृष्ट्वा कोपात् संरक्त लोचनः ॥४-९-२२॥
मदीयान् मंत्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् ।

निग्रहे च समर्थस्य तम् पापम् प्रति राघव ॥४-९-२३॥
न प्रावर्तत मे बुद्धिः भ्रातृ गौरव यंत्रिता ।

हत्वा शत्रुम् सः मे भ्राता प्रविवेश पुरम् तदा ॥४-९-२४॥
मानयन् तम् महात्मानम् यथावत् च अभिअवादयम् ।
उक्ताः च न आशिषः तेन संतुष्टेन अन्तरात्मना ॥४-९-२५॥

नत्वा पादौ अहम् तस्य मुकुटेन अस्पृशम् प्रभो ।
अपि वाली मम क्रोधात् न प्रसादम् चकार सः ॥४-९-२६॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे नवमः सर्गः ।


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥