रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३४ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३६ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥

तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा ।
अब्रवीत् लक्ष्मणम् तारा तारा अधिप निभ आनना ॥४-३५-१॥

न एवम् लक्ष्मण वक्तव्यो न अयम् परुषम् अर्हति ।
हरीणाम् ईश्वरः श्रोतुम् तव वक्त्रात् विशेषतः ॥४-३५-२॥

न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुणः ।
न एव अनृत कथो वीर न जिह्मः च कपीश्वरः ॥४-३५-३॥

उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यत् अन्यैः दुष्करम् रणे ॥४-३५-४॥

राम प्रसादात् कीर्तिम् च कपि राज्यम् च शाश्वतम् ।
प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप ॥४-३५-५॥

सुदुःख शयितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् ।
प्राप्त कालम् न जानीते विश्वामित्रो यथा मुनिः ॥४-३५-६॥

घृताच्याम् किल संसक्तो दश वर्षाणि लक्ष्मण ।
अहो अमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥४-३५-७॥

स हि प्राप्तम् न जानीते कालम् कालविदाम् वरः ।
विश्वामित्रो महातेजाः किम् पुनर् यः पृथग् जनः ॥४-३५-८॥

देह धर्म गतस्य अस्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु रामः क्षन्तुम् इह अर्हति ॥४-३५-९॥

न च रोष वशम् तात गंतुम् अर्हसि लक्ष्मण ।
निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥४-३५-१०॥

सत्त्व युक्ता हि पुरुषाः त्वत् विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥४-३५-११॥

प्रसादये त्वाम् धर्मज्ञ सुग्रीवार्थे समाहिता ।
महान् रोष समुत्पन्नः संरंभः त्यज्यताम् अयम् ॥४-३५-१२॥

रुमाम् माम् च अंगदम् राज्यम् धन धान्य पशूनि च ।
राम प्रियार्थम् सुग्रीवः त्यजेत् इति मतिर् मम ॥४-३५-१३॥

समानेष्यति सुग्रीवः सीतया सह राघवम् ।
शशांकम् इव रोहिण्या हत्वा तम् राक्षस अधमम् ॥४-३५-१४॥

शत कोटि सहस्राणि लंकायाम् किल रक्षसाम् ।
अयुतानि च षट् त्रिंशत् सहस्राणि शतानि च ॥४-३५-१५॥

अहत्वा ताम् च दुर्धर्षान् राक्षसान् काम रूपिणः ।
न शक्यो रावणो हंतुम् येन सा मैथिली हृता ॥४-३५-१६॥

ते न शक्या रणे हंतुम् असहायेन लक्ष्मण ।
रावणः क्रूर कर्मा च सुग्रीवेण विशेषतः ॥४-३५-१७॥

एवम् आख्यातवान् वाली स हि अभिज्ञो हरीश्वरः ।
आगमः तु न मे व्यक्तः श्रवात् तस्य ब्रवीमि अहम् ॥४-३५-१८॥

त्वत् सहाय निमित्तम् हि प्रेषिता हरिपुंगवाः ।
आनेतुम् वानरान् युद्धे सुबहून् हरिपुंगवान् ॥४-३५-१९॥

ताम् च प्रतीक्षमाणो अयम् विक्रांतान् सुमहा बलान् ।
राघवस्य अर्थ सिद्धि अर्थम् न निर्याति हरि ईश्वरः ॥४-३५-२०॥

कृता सुसंस्था सौमित्रे सुग्रीवेण यथा पुरा ।
अद्य तैः वानरैः सर्वैः आगंतव्यम् महाबलैः ॥४-३५-२१॥

ऋक्ष कोटि सहस्राणि गोलांगूल शतानि च ।
अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिन्दम
कोट्यो अनेकाः तु काकुत्स्थ कपीनाम् दीप्त तेजसाम् ॥४-३५-२२॥

तव हि मुखम् इदम् निरीक्ष्य कोपात्
क्षतज समे नयने निरीक्षमाणाः ।
हरि वर वनिता न यान्ति शान्तिम्
प्रथम भयस्य हि शन्किताः स्म सर्वाः ॥४-३५-२३॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥