रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३० रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३२ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥

स कामिनम् दीनम् अदीन सत्त्वः
शोक अभिपन्नम् समुदीर्ण कोपम् ।
नरेन्द्र सूनुर् नरदेव पुत्रम्
रामानुजः पूर्वजम् इति उवाच ॥४-३१-१॥

न वानरः स्थास्यति साधु वृत्ते
न मन्यते कर्म फल अनुषंगान् ।
न भोक्ष्यते वानर राज्य लक्ष्मीम्
तथा हि न अभिक्रमते अस्य बुद्धिः ॥४-३१-२॥

मति क्षयात् ग्राम्य सुखेषु सक्तः
तव प्रसाद अप्रतिकार बुद्धिः ।
हतो अग्रजम् पश्यतु वालिनम्
न राज्यम् एवम् विगुणस्य देयम् ॥४-३१-३॥

न धारये कोपम् उदीर्ण वेगम्
निहन्मि सुग्रीवम् असत्यम् अद्य ।
हरि प्रवीरैः सह वालि पुत्रो
नरेन्द्र पुत्र्या विचयम् करोतु ॥४-३१-४॥

तम् आत्त बाण आसनम् उत्पतंतम्
निवेदित अर्थम् रण चण्ड कोपम् ।
उवच रामः पर वीर हन्ता
स्व वेक्षितम् स अनुनयम् च वाक्यम् ॥४-३१-५॥

न हि वै त्वत् विधो लोके पापम् एवम् समाचरेत् ।
कोपम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः ॥४-३१-६॥

न इदम् अत्र त्वया ग्राह्यम् साधु वृत्तेन लक्ष्मण ।
ताम् प्रीतिम् अनुवर्तस्व पूर्व वृत्तम् च संगतम् ॥४-३१-७॥

साम उपहितया वाचा रूक्षाणि परिवर्जयन् ।
वक्तुम् अर्हसि सुग्रीवम् व्यतीतम् काल पर्यये ॥४-३१-८॥

सो अग्रजेन अनुशिष्ट अर्थो यथावत् पुरुषर्षभः ।
प्रविवेश पुरीम् वीरो लक्ष्मणः पर वीर हा ॥४-३१-९॥

ततः शुभ मतिः प्राज्ञो भ्रातुः प्रियहितेरतः ।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः ॥४-३१-१०॥
शक्र बाणासन प्रख्यम् धनुः कालांतक उपमः ।
प्रगृह्य गिरि शृंगाभम् मन्दरः सानुमान् इव ॥४-३१-११॥

यथा उक्त कारी वचनम् उत्तरम् चैव स उत्तरम् ।
बृहस्पति समो बुद्ध्या मत्त्वा रामानुजः तदा ॥४-३१-१२॥
काम क्रोध समुत्थेन भ्रातुः कोपाग्निना वृतः ।
प्रभंजन इव अप्रीतः प्रययौ लक्ष्मणः तदा ॥४-३१-१३॥

साल ताल अश्व कर्णाम् च तरसा पातयन् बलात् ।
पर्यस्यन् गिरि कूटानि द्रुमान् अन्याम् च वेगितः ॥४-३१-१४॥
शिलाः च शकली कुर्वन् पद्भ्याम् गज इव आशु गः ।
दूरम् एक पदम् त्यक्त्वा ययौ कार्यवशात् द्रुतम् ॥४-३१-१५॥

ताम् अपश्यत् बल आकीर्णाम् हरिराज महापुरीम् ।
दुर्गाम् इक्ष्वाकु शार्दूलः किष्किंधाम् गिरि संकटे ॥४-३१-१६॥

रोषात् प्रस्फुरमाण ओष्ठः सुग्रीवम् प्रति लक्ष्मणः ।
ददर्श वानरान् भीमान् किष्किंधाया बहिः चरान् ॥४-३१-१७॥

तम् दृष्ट्वा वानराः सर्वे लक्ष्मणम् पुरुषर्षभम्
शैल शृंगाणि शतशः प्रवृद्धाम् च महीरुहान् ।
जगृहुः कुंजर प्रख्या वानराः पर्वत अंतरे ॥४-३१-१८॥

तान् गृहीत प्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः ।
बभूव द्विगुणम् क्रुद्धो बहु इंधन इव अनलः ॥४-३१-१९॥

तम् ते भयपरीत अंगाः ख्सुब्धम् दृष्ट्वा प्लवंगमाः ।
काल मृत्यु युगांताअभम् शतशो विद्रुता दिशः ॥४-३१-२०॥

ततः सुग्रीव भवनम् प्रविश्य हरिपुंगवाः ।
क्रोधम् आगमनम् चैव लक्ष्मणस्य न्यवेदयन् ॥४-३१-२१॥

तारया सहितः कामी सक्तः कपिवृषः तदा ।
न तेषाम् कपि वीराणाम् शुश्राव वचनम् तदा ॥४-३१-२२॥

ततः सचिव संदिष्टा हरयो रोमहर्षणाः ।
गिरि कुंजर मेघ आभा नगर्या निर्ययुः तदा ॥४-३१-२३॥

नख दंष्ट्र आयुधा सर्वे वीराः विकृत दर्शनाः ।
सर्वे शार्दूल दर्पाः च सर्वे च विकृत आननाः ॥४-३१-२४॥

दश नाग बलाः केचित् केचित् दश गुणोत्तराः ।
केचित् नाग सहस्रस्य बभूवुः तुल्य वर्चसः ॥४-३१-२५॥

ततः तैः कपिभिर् व्याप्ताम् द्रुम हस्तैर् महाबलैः ।
अपश्यत् लक्ष्मणः क्रुद्धः किष्किंधाम् ताम् दुरासदम् ॥४-३१-२६॥

ततः ते हरयः सर्वे प्राकार परिख अंतरात् ।
निष्क्रम्य उदग्र सत्त्वाः तु तस्थुर् आविष्कृतम् तदा ॥४-३१-२७॥

सुग्रीवस्य प्रमादम् च पूर्वजस्य अर्थम् आत्मवान् ।
दृष्ट्वा कोप वशम् वीरः पुनर् एव जगाम सः ॥४-३१-२८॥

स दीर्घ उष्ण महा उच्छ्वासः कोप संरक्त लोचनः ।
बभूव नर शार्दूल स धूम इव पावकः ॥४-३१-२९॥

बाण शल्य स्फुरत् जिह्वः सायक आसन भोगवान् ।
स्व तेजो विष संघातः पंच आस्य इव पन्नगः ॥४-३१-३०॥

तम् दीप्तम् इव कालाग्निम् नागेन्द्रम् इव कोपितम् ।
समासाद्य अंगदः त्रासात् विषादम् अगमत् परम् ॥४-३१-३१॥

सो अंगदम् रोष ताम्राक्षः संदिदेश महायशाः ।
सुग्रीवः कथ्यताम् वत्स मम आगमनम् इति उत ॥४-३१-३२॥

एष रामानुजः प्राप्तः त्वत् सकाशम् अरिन्दमः ।
भ्रातुर् व्यसन संतप्तो द्वारि तिष्ठति लक्ष्मणः ॥४-३१-३३॥
तस्य वाक्यम् यदि रुचिः क्रियताम् साधु वानरः ।
इति उक्त्वा शीघ्रम् आगच्छ वत्स वाक्यम् अरिन्दम ॥४-३१-३४॥

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो अंगदो अब्रवीत् ।
पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः ॥४-३१-३५॥

अथ अंगदः तस्य सुतीव्र वाचा
संभ्रांत भावः परिदीन वक्त्रः ।
निर्गत्य पूर्वम् नृपतेः तरस्वी
ततो रुमायाः चरणौ ववन्दे ॥४-३१-३६॥

संगृह्य पादौ पितुः उग्रतेजा
जग्राह मातुः पुनर् एव पादौ ।
पादौ रुमायाः च निपीडयित्वा
निवेदयामास ततः तत् अर्थम् ॥४-३१-३७॥

स निद्रा मद संवीतो वानरो न विबुद्धवान् ।
बभूव मद मत्तः च मदनेन च मोहितः ॥४-३१-३८॥

ततः किल किलाम् चक्रुः लक्ष्मणम् प्रेक्ष्य वानराः ।
प्रसादयन्तः तम् क्रुद्धम् भय मोहित चेतसः ॥४-३१-३९॥

ते महा ओघ निभम् दृष्ट्वा वज्र अशनि सम स्वनम् ।
सिंह नादम् समम् चक्रुर् लक्ष्मणस्य समीपतः ॥४-३१-४०॥

तेन शब्देन महता प्रत्यबुध्यत वानरः ।
मद विह्वल ताम्राक्षो व्याकुल स्रग्वि भूषणः ॥४-३१-४१॥

अथ अंगद वचः श्रुत्वा तेन एव च समागतौ ।
मंत्रिणो वानरेन्द्रस्य सम्मत उदार दर्शिनौ ॥४-३१-४२॥
प्लक्षः च एव प्रभावः च मंत्रिणौ अर्थ धर्मयोः ।
वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः ॥४-३१-४३॥

प्रसादयित्वा सुग्रीवम् वचनैः स अर्थ निश्चितैः ।
आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम् ॥४-३१-४४॥

सत्य संधौ महाभागौ भ्रातरौ राम लक्ष्मणौ ।
वयस्य भावम् संप्राप्तौ राज्य अर्हौ राज्य दायिनौ ॥४-३१-४५॥

तयोः एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः ।
यस्य भीताः प्रवेपन्ते नादान् मुंचन्ति वानराः ॥४-३१-४६॥

स एष राघव भ्राता लक्ष्मणो वाक्य सारथिः ।
व्यवसाय रथः प्राप्तः तस्य रामस्य शासनात् ॥४-३१-४७॥

अयम् च तनयो राजन् ताराया दयितो अंगदः ।
लक्ष्मणेन सकाशम् ते प्रेषितः त्वरया अनघ ॥४-३१-४८॥

सः अयम् रोष परीताक्षो द्वारि तिष्ठति वीर्यवान् ।
वानरान् वानरपते चक्षुसा निर्दहन इव ॥४-३१-४९॥

तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्र सह बान्धवः ।
गच्छ शीघ्रम् महाराज रोषो हि अद्य उपशम्यताम् ॥४-३१-५०॥

यथा आह रामो धर्मात्मा तत् कुरुष्व समाहितः ।
राजन् तिष्ठ स्व समये भव सत्य प्रतिश्रवः ॥४-३१-५१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-३१॥