रामायणम्/किष्किन्धाकाण्डम्/सर्गः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १४ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १६ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥

अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः ।
शुश्राव अन्तःपुर गतो वाली भ्रातुर् अमर्षणः ॥४-१५-१॥

श्रुत्वा तु तस्य निनदम् सर्वभूत प्रकंपनम् ।
मदः च एकपदे नष्टः क्रोधः च आपादितो महान् ॥४-१५-२॥

ततो रोष परीत अंगो वाली स कनक प्रभः ।
उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥४-१५-३॥

वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।
भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥४-१५-४॥

शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः ।
वेगेन च पद न्यासैर् दारयन् इव मेदिनीम् ॥४-१५-५॥

तम् तु तारा परिष्वज्य स्नेहाद् दर्शित सौहृदा ।
उवाच त्रस्त संभ्रांता हित उदर्कम् इदम् वचः ॥४-१५-६॥

साधु क्रोधम् इमम् वीर नदी वेगम् इव आगतम् ।
शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम् ॥४-१५-७॥

काल्यम् एतेन संग्रामम् करिष्यसि च वानर ।
वीर ते शत्रु बाहुल्यम् फल्गुता वा न विद्यते ॥४-१५-८॥

सहसा तव निष्क्रामो मम तावत् न रोचते ।
श्रूयताम् अभिधास्यामि यन् निमित्तम् निवार्यते ॥४-१५-९॥

पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि ।
निष्पत्य च निरस्तः ते हन्यमानो दिशो गतः ॥४-१५-१०॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
इह एत्य पुनर् आह्वानम् शंकाम् जनयति इव मे ॥४-१५-११॥

दर्पः च व्यवसायः च यादृशः तस्य नर्दतः ।
निनादस्य च संरंभो न एतत् अल्पम् हि कारणम् ॥४-१५-१२॥

न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् ।
अवष्टब्ध सहायः च यम् आश्रित्य एष गर्जति ॥४-१५-१३॥

प्रकृत्या निपुणः चैव बुद्धिमान् चैव वानरः ।
न अपरीक्षित वीर्येण सुग्रीवः सख्यम् एष्यति ॥४-१५-१४॥

पूर्वम् एव मया वीर श्रुतम् कथयतो वचः ।
अंगदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः ॥४-१५-१५॥

अंगदः तु कुमरो अयम् वनांतम् उपनिर्गतः ।
प्रवृत्तिः तेन कथिता चारैः असीत् निवेदिता ॥४-१५-१६॥

अयोध्य अधिपतेः पुत्रौ शूरौ समर दुर्जयौ ।
इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम लक्ष्मणौ ॥४-१५-१७॥
सुग्रीव प्रिय कामार्थम् प्राप्तौ तत्र दुरासदौ ।

स ते भ्रातुर् हि विख्यातः सहायो रण कर्मणि ॥४-१५-१८॥
रामः पर बलमर्दी युगान्त अग्निः इव उत्थितः ।

निवास वृक्षः साधूनाम् आपन्नानाम् परा गतिः ॥४-१५-१९॥
आर्तानाम् संश्रयः चैव यशसः च एक भाजनम् ।

ज्ञान विज्ञान संपन्नो निदेशो निरतः पितुः ॥४-१५-२०॥
धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् ।

तत् क्षमो न विरोधः ते सह तेन महात्मना ॥४-१५-२१॥
दुर्जयेन अप्रमेयेण रामेण रण कर्मसु ।

शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् ॥४-१५-२२॥
श्रूयताम् क्रियताम् चैव तव वक्ष्यामि यद् हितम् ।

यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय ॥४-१५-२३॥
विग्रहम् मा कृथा वीर भ्रात्रा राजन् यवीयसा ।

अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् ॥४-१५-२४॥
सुग्रीवेण च संप्रीतिम् वैरम् उत्सृज्य दूरतः ।

लालनीयो हि ते भ्राता यवीयान् एष वानरः ॥४-१५-२५॥
तत्र वा सन्निहस्थो वा सर्वथा बन्धुः एव ते ।

नहि तेन समम् बन्धुम् भुवि पश्यामि किंचन ॥४-१५-२६॥
दान मानादि सत्कर्रैः कुरुष्व प्रत्यनन्तरम् ।
वैरम् एतत् सम् उत्स्रृज्य तव पार्श्वे स तिष्ठतु ॥४-१५-२७॥

सुग्रीवो विपुल ग्रीवो महाबन्धुः मतः तव ।
भ्रातृ सौहृदम् आलंब्य न अन्या गति इह अस्ति ते ॥४-१५-२८॥

यदि ते मत् प्रियम् कार्यम् यदि च अवैषि माम् हिताम् ।
याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे ॥४-१५-२९॥

प्रसीद पथ्यम् श्रुणु जल्पितम् हि मे
न रोषम् एव अनुविधातुम् अर्हसि ।
क्षमो हि ते कोशल राज सूनुना
न विग्रहः शक्र सम तेजसा ॥४-१५-३०॥

तदा हि तारा हितम् एव वाक्यम्
तम् वालिनम् पथ्यम् इदम् बभाषे ।
न रोचते तद् वचनम् हि तस्य
काल अभिपन्नस्य विनाश काले ॥४-१५-३१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥