रामायणम्/किष्किन्धाकाण्डम्/सर्गः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १३ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥

एतच् च वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।
प्रत्ययार्थम् महातेजा रामो जग्राह कार्मुकम् ॥४-१२-१॥

स गृहीत्वा धनुर् घोरम् शरम् एकम् च मानदः ।
सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः ॥४-१२-२॥

स विसृष्टो बलवता बाणः स्वर्ण परिष्कृतः ।
भित्त्वा सालान् गिरि प्रस्थम् सप्त भूमिम् विवेश ह ॥४-१२-३॥

सायकः तु मुहूर्तेन सालान् भित्त्वा महाजवः ।
निष्पत्य च पुनः तूर्णम् तम् एव प्रविवेश ह ॥४-१२-४॥

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ।
रामस्य शर वेगेन विस्मयम् परमम् गतः ॥४-१२-५॥

स मूर्ध्ना न्यपतत् भूमौ प्रलंबीकृत भूषणः ।
सुग्रीवः परम प्रीतो राघवाय कृतांजलिः ॥४-१२-६॥

इदम् च उवाच धर्मज्ञम् कर्मणा तेन हर्षितः ।
रामम् सर्व अस्त्र विदुषाम् श्रेष्ठम् शूरम् अवस्थितम् ॥४-१२-७॥

स इन्द्रान् अपि सुरान् सर्वाम् त्वम् बाणैः पुरुषर्षभ ।
समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो ॥४-१२-८॥

येन सप्त महा साला गिरिर् भूमिः च दारिताः ।
बाणेन एकेन काकुत्स्थ स्थाता ते को रण अग्रतः ॥४-१२-९॥

अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम ।
सुहृदम् त्वाम् समासाद्य महेन्द्र वरुणोपमम् ॥४-१२-१०॥

तम् अद्य एव प्रियार्थम् मे वैरिणम् भ्रातृ रूपिणम् ।
वालिनम् जहि काकुत्स्थ मया बद्धो अयम् अंजलिः ॥४-१२-११॥

ततो रामः परिष्वज्य सुग्रीवम् प्रिय दर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतम् वचः ॥४-१२-१२॥

अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः ।
गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ गन्धिनम् ॥४-१२-१३॥

सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् ।
वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने ॥४-१२-१४॥

सुग्रीवो अपि व्यनदद् घोरम् वालिनो ह्वान कारणात् ।
गाढम् परिहितो वेगान् नादैः भिन्दन् इव अंबरम् ॥४-१२-१५॥

तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महाबलः ।
निष्पपात सुसंरब्धो भास्करो अस्त तटात् इव ॥४-१२-१६॥

ततः सुतुमुलम् युद्धम् वालि सुग्रीवयोः अभूत् ।
गगने ग्रहयोः घोरम् बुध अंगारकयोः इव ॥४-१२-१७॥

तलैः अशनि कल्पैः च वज्र कल्पैः च मुष्टिभिः ।
जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध मूर्च्छितौ ॥४-१२-१८॥

ततो रामो धनुष् पाणिः तौ उभौ समुदैक्षत ।
अन्योन्य सदृशौ वीरौ उभौ देवौ इव अश्विनौ ॥४-१२-१९॥

यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ।
ततो न कृतवान् बुद्धिम् मोक्तुम् अन्तकरम् शरम् ॥४-१२-२०॥

एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना ।
अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे ॥४-१२-२१॥

क्लान्तो रुधिर सिक्त अंगो प्रहारैः जर्जरी कृतः ।
वालिना अभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥४-१२-२२॥

तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप भयात् ततः ।
मुक्तो हि असि त्वम् इति उक्त्वा स निवृत्तो महाबलः ॥४-१२-२३॥

राघवो अपि सह भ्रात्रा सह चैव हनूमता ।
तदेव वनम् आगच्छत् सुग्रीवो यत्र वानरः ॥४-१२-२४॥

तम् समीक्ष्य आगतम् रामम् सुग्रीवः सह लक्ष्मणम् ।
ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन् ॥४-१२-२५॥

आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् ।
वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम् ॥४-१२-२६॥

ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः ।
वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे ॥४-१२-२७॥

तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
करुणम् दीनया वाचा राघवः पुनर् अब्रवीत् ॥४-१२-२८॥

सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् ।
कारणम् येन बाणो अयम् स मया न विसर्जितः ॥४-१२-२९॥

अलंकारेण वेषेण प्रमाणेन गतेन च ।
त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥४-१२-३०॥

स्वरेण वर्चसा च एव प्रेक्षितेन च वानर ।
विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये ॥४-१२-३१॥

ततो अहम् रूप सादृश्यात् मोहितो वानरोत्तम ।
न उत्सृजामि महावेगम् शरम् शत्रु निबर्हणम् ॥४-१२-३२॥

जीवित अन्तकरम् घोरम् सादृश्यात् तु विशंकितः ।
मूलघातो न नौ स्याद्धि द्वयोः इति कृतो मया ॥४-१२-३३॥

त्वयि वीर विपन्ने हि अज्ञान् लाघवान् मया ।
मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपीस्वर ॥४-१२-३४॥

दत्त अभय वधो नाम पातकम् महत् अद्भुतम् ।
अहम् च लक्ष्मणः च एव सीत च वरवर्णिनी ॥४-१२-३५॥
त्वत् अधीना वयम् सर्वे वने अस्मिन् शरणम् भवान् ।

तस्मात् युध्यस्व भूयस्त्वम् मा शंकी च वानर ॥४-१२-३६॥
एतन् मुहूर्ते तु मया पश्य वालिनम् आहवे ।
निरस्तम् इषुणा एकेन वेष्टमानम् महीतले ॥४-१२-३७॥

अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानरेश्वर ।
येन त्वाम् अभिजानीयाम् द्वन्द्व युद्धम् उपागतम् ॥४-१२-३८॥

गज पुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ लक्षणाम् ।
कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः ॥४-१२-३९॥

ततो गिरि तटे जाताम् उत्पाट्य कुसुमायुताम् ।
लक्ष्मणो गज पुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत् ॥४-१२-४०॥

स तथा शुशुभे श्रीमान् लतया कण्ठ सक्तया ।
मालया इव बलाकानाम् ससंध्य इव तोयदः ॥४-१२-४१॥

विभ्राजमानो वपुषा राम वाक्य समाहितः ।
जगाम सह रामेण किष्किंधाम् पुनराप सः ॥४-१२-४२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥