रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३१ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ३३ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥

अंगदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।
लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान् ॥४-३२-१॥

स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरु लाघवम् ।
मंत्रज्ञान् मंत्र कुशलो मंत्रेषु परिनिष्ठितः ॥४-३२-२॥

न मे दुर् व्याहृतम् किंचित् न अपि मे दुर् अनुष्ठितम् ।
लक्ष्मणो राघव भ्राता क्रुद्धः किम् इति चिंतये ॥४-३२-३॥

असुहृद्भिः मम अमित्रैः नित्यम् अन्तर दर्शिभिः ।
मम दोषान् असंभूतान् श्रावितो राघवानुजः ॥४-३२-४॥

अत्र तावत् यथा बुद्धि सर्वैः एव यथा विधि ।
भावस्य निश्चयः तावत् विज्ञेयो निपुणम् शनैः ॥४-३२-५॥

न खलु अस्ति मम त्रासो लक्ष्मणान् न अपि राघवात् ।
मित्रम् तु अस्थान कुपितम् जनयति एव संभ्रमम् ॥४-३२-६॥

सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् ।
अनित्यत्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते ॥४-३२-७॥

अतो निमित्तम् त्रस्तो अहम् रामेण तु महात्मना ।
यन् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तन् मया ॥४-३२-८॥

सुग्रीवेण एवम् उक्ते तु हनुमान् हरि पुंगवः ।
उवाच स्वेन तर्केण मध्ये वानर मंत्रिणाम् ॥४-३२-९॥

सर्वथा न एतद् आश्चर्यम् यत् त्वम् हरिगणेश्वर ।
न विस्मरसि सुस्निग्धम् उपकारम् कृतम् शुभम् ॥४-३२-१०॥

राघवेण तु वीरेण भयम् उत्सृज्य दूरतः ।
त्वत् प्रिय अर्थम् हतो वाली शक्र तुल्य पराक्रमः ॥४-३२-११॥

सर्वथा प्रणयात् क्रुद्धो राघवो न अत्र संशयः ।
भ्रातरम् संप्रहितवान् लक्ष्मणम् लक्ष्मि वर्धनम् ॥४-३२-१२॥

त्वम् प्रमत्तो न जानीषे कालम् कलविदाम् वर ।
फुल्ल सप्त च्छद श्यामा प्रवृत्ता तु शरत् शिवा ॥४-३२-१३॥

निर्मल ग्रह नक्षत्रा द्यौः प्रनष्ट बलाहका ।
प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च ॥४-३२-१४॥

प्राप्तम् उद्योग कालम् तु न अवैषि हरिपुंगव ।
त्वम् प्रमत्त इति व्यक्तम् लक्ष्मणो अयम् इह आगतः ॥४-३२-१५॥

आर्तस्य हृत दारस्य परुषम् पुरुष अन्तरात् ।
वचनम् मर्षणीयम् ते राघवस्य महात्मनः ॥४-३२-१६॥

कृत अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् ।
अंतरेण अंजलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥४-३२-१७॥

नियुक्तैः मंत्रिभिः वाच्यो अवश्यम् पार्थिवो हितम् ।
इत एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः ॥४-३२-१८॥

अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः ।
स देव असुर गंधर्वम् वशे स्थापयितुम् जगत् ॥४-३२-१९॥

न स क्षमः कोपयितुम् यः प्रसाद्य पुनर् भवेत् ।
पूर्व उपकारम् स्मरता कृतज्ञेन विशेषतः ॥४-३२-२०॥

तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृत् जनः ।
राजन् तिष्ठ स्व समये भर्तुः भार्या इव तत् वशे ॥४-३२-२१॥

न राम रामानुज शासनम् त्वया
कपीन्द्र युक्तम् मनसा अपि अपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषम् बलम्
स राघवस्य अस्य सुरेन्द्र वर्चसः ॥४-३२-२२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥