रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५३ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५५ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥

तथा ब्रुवति तारे तु तारा अधिपति वर्चसि ।
अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत् ॥४-५४-१॥

बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् ।
चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम् ॥४-५४-२॥

आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः ।
शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया ॥४-५४-३॥
बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः ।
शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम् ॥४-५४-४॥
भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः ।
अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः ॥४-५४-५॥

स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् ।
भेदयामास तान् सर्वान् वानरान् वाक्य संपदा ॥४-५४-६॥

तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् ।
भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः ॥४-५४-७॥

त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् ।
दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता ॥४-५४-८॥

नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव ।
न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया ॥४-५४-९॥

त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते ।
यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः ॥४-५४-१०॥
न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः ।
दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम् ॥४-५४-११॥

विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा ।
आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः ॥४-५४-१२॥

याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् ।
एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे ॥४-५४-१३॥

स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा ।
लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा ॥४-५४-१४॥

लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः ।
वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः ॥४-५४-१५॥

अवस्थाने यदा एव त्वम् आसिष्यसि परंतप ।
तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः ॥४-५४-१६॥

स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः ।
खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः ॥४-५४-१७॥

स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः ।
तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि ॥४-५४-१८॥

अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः ।
अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः ॥४-५४-१९॥

अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् ।
आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति ॥४-५४-२०॥

धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः ।
शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत् ॥४-५४-२१॥

प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् ।
तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम् ॥४-५४-२२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥