रामायणम्/किष्किन्धाकाण्डम्/सर्गः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १३ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १५ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥

सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।
वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥४-१४-१॥

विसार्य सर्वतो दृष्टिम् कानने काननप्रियः ।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ॥४-१४-२॥

ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।
परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥४-१४-३॥
गर्जन् इव महामेघो वायु वेग पुरस्सरः ।

अथ बालार्कसदृशो दृप्तसिंहगतिः ततः ॥४-१४-४॥
दृष्ट्वा रामम्क्रिया दक्षम् सुग्रीवो वाक्यमब्रवीत् ।

हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम् ॥४-१४-५॥
प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।

प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥४-१४-६॥
सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।

एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥४-१४-७॥
तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।

कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥४-१४-८॥
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।

सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥४-१४-९॥
विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।

अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥४-१४-१०॥
एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।

मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥४-१४-११॥
वाली विनिहतो यावद् वने पांसुषु चेष्टते ।

यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥४-१४-१२॥
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।

प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥४-१४-१३॥
ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।

अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥४-१४-१४॥
धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।

सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥४-१४-१५॥
प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।

तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥४-१४-१६॥
सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।

जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥४-१४-१७॥
निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।

रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥४-१४-१८॥
जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।

स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥४-१४-१९॥
ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।

तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥४-१४-२०॥
राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।

द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।
पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥४-१४-२१॥

ततः स जीमूत कृत प्रणादो
नादम् हि अमुंचत् त्वरया प्रतीतः ।
सूर्यात्मजः शौर्य विवृद्ध तेजाः
सरित् पतिर्वा अनिल चंचल ऊर्मिः ॥४-१४-२२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥