रामायणम्/किष्किन्धाकाण्डम्/सर्गः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १० रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः १२ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥

रामस्य वचनम् श्रुत्वा हर्ष पौरुष वर्धनम् ।
सुग्रीवः पूजयाम् चक्रे राघवम् प्रशशंस च ॥४-११-१॥

असंशयम् प्रज्वलितैः तीक्ष्णैर् मर्म अतिगैः शरैः ।
त्वम् दहेः कुपितो लोकान् युगान्त इव भास्करः ॥४-११-२॥

वालिनः पौरुषम् यत् तद् यत् च वीर्यम् धृतिः च या ।
तन् मम एक मनाः श्रुत्वा विधत्स्व यद् अनन्तरम् ॥४-११-३॥

समुद्रात् पश्चिमात् पूर्वम् दक्षिणाद् अपि च उत्तरम् ।
क्रामति अनुदिते सूर्ये वाली व्यपगत क्लमः ॥४-११-४॥

अग्राणि आरुह्य शैलानाम् शिखराणि महान्ति अपि ।
ऊर्ध्वम् उत्पात्य तरसा प्रति गृह्णाति वीर्यवान् ॥४-११-५॥

बहवः सारवन्तः च वनेषु विविधा द्रुमाः ।
वालिना तरसा भग्ना बलम् प्रथयता आत्मनः ॥४-११-६॥

महिषो दुन्दुभिर् नाम कैलास शिखर प्रभः ।
बलम् नाग सहस्रस्य धारयामास वीर्यवान् ॥४-११-७॥

स वीर्य उत्सेक दुष्टात्मा वर दानेन च मोहितः ।
जगाम स महाकायः समुद्रम् सरिताम् पतिम् ॥४-११-८॥

ऊर्मिमंतम् अतिक्रम्य सागरम् रत्न संचयम् ।
मम युद्धम् प्रयच्छ इति तम् उवाच महार्णवम् ॥४-११-९॥

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।
अब्रवीद् वचनम् राजन् असुरम् काल चोदितम् ॥४-११-१०॥

समर्थो न अस्मि ते दातुम् युद्धम् युद्ध विशारद ।
श्रूयताम् त्वम् अभिधास्यामि यत् ते युद्धम् प्रदास्यति ॥४-११-११॥

शैल राजो महारण्ये तपस्वि शरणम् परम् ।
शंकर श्वशुरो नाम्ना हिमवान् इति विश्रुतः ॥४-११-१२॥
महा प्रस्रवण उपेतो बहु कन्दर निर्झरः ।
स समर्थः तव प्रीतिम् अतुलाम् कर्तुम् अर्हति ॥४-११-१३॥

तम् भीतम् इति विज्ञाय समुद्रम् असुरोत्तमः ।
हिमवद् वनम् आगम्य शरः चापाद् इव च्युतः ॥४-११-१४॥
ततः तस्य गिरेः श्वेता गजेन्द्र प्रतिमाः शिलाः ।
चिक्षेप बहुधा भूमौ दुन्दुभिर् विननाद च ॥४-११-१५॥

ततः श्वेत अम्बुद आकारः सौम्यः प्रीति कर आकृतिः ।
हिमवान् अब्रवीद् वाक्यम् स्व एव शिखरे स्थितः ॥४-११-१६॥

क्लेष्टुम् अर्हसि माम् न त्वम् दुन्दुभे धर्म वत्सल ।
रण कर्मसु अकुशलः तपस्वि शरणो हि अहम् ॥४-११-१७॥

तस्य तद् वचनम् श्रुत्वा गिरि राजस्य धीमतः ।
उवाच दुन्दुभिर् वाक्यम् क्रोधात् संरक्त लोचनः ॥४-११-१८॥

यदि युद्धे असमर्थः त्वम् मद् भयाद् वा निरुद्यमः ।
तम् आचक्ष्व प्रदद्यात् मे यो हि युद्धम् युयुत्सतः ॥४-११-१९॥

हिमवान् अब्रवीद् वाक्यम् श्रुत्वा वाक्य विशारदः ।
अनुक्त पूर्वम् धर्मात्मा क्रोधात् तम् असुरोत्तमम् ॥४-११-२०॥

वाली नाम महा प्राज्ञः शक्र पुत्र प्रतापवान् ।
अध्यास्ते वानरः श्रीमान् किष्किन्धाम् अतुल प्रभाम् ॥४-११-२१॥

स समर्थो महा प्राज्ञः तव युद्ध विशारदः ।
द्वन्द्व युद्धम् स दातुम् ते नमुचिः इव वासवः ॥४-११-२२॥

तम् शीघ्रम् अभिगच्छ त्वम् यदि युद्धम् इह इच्छसि ।
स हि दुर्मर्षणो नित्यम् शूरः समर कर्मणि ॥४-११-२३॥

श्रुत्वा हिमवतो वाक्यम् कोप आविष्टः स दुन्दुभिः ।
जगाम ताम् पुरीम् तस्य किष्किन्धाम् वालिनः तदा ॥४-११-२४॥

धारयन् माहिषम् रूपम् तीक्ष्ण शृङ्गो भयावहः ।
प्रावृषि इव महा मेघः तोय पूर्णो नभस्तले ॥४-११-२५॥
ततः तु द्वारम् आगम्य किष्किन्धाया महाबलः ।
ननर्द कम्पयन् भूमिम् दुन्दुभिर् दुन्दुभिर् यथा ॥४-११-२६॥

समीपजान् द्रुमान् भंजन् वसुधाम् दारयन् खुरैः ।
विषाणेन उल्लिखन् दर्पात् तद् द्वारम् द्विरदो यथा ॥४-११-२७॥

अन्तःपुर गतो वाली श्रुत्वा शब्दम् अमर्षणः ।
निष्पपात सह स्त्रीभिः ताराभिः इव चंद्रमाः ॥४-११-२८॥

मितम् व्यक्त अक्षर पदम् तम् उवाच स दुन्दुभिम् ।
हरीणाम् ईश्वरो वाली सर्वेषाम् वन चारिणाम् ॥४-११-२९॥

किम् अर्थम् नगर द्वारम् इदम् रुद् ध्वा विनर्दसे ।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥४-११-३०॥

तस्य तद् वचनम् श्रुत्वा वानरेन्द्रस्य धीमतः ।
उवाच दुन्दुभिर् वाक्यम् क्रोधात् संरक्त लोचनः ॥४-११-३१॥

न त्वम् स्त्री सन्निधौ वीर वचनम् वक्तुम् अर्हसि ।
मम युद्धम् प्रयच्छ अद्य ततो ज्ञास्यामि ते बलम् ॥४-११-३२॥

अथवा धारयिष्यामि क्रोधम् अद्य निशाम् इमाम् ।
गृह्यताम् उदयः स्वैरम् काम भोगेषु वानर ॥४-११-३३॥

दीयताम् संप्रदानम् च परिष्वज्य च वानरान् ।
सर्व शखा मृगेन्द्रत्वम् संसादय सुहृज्जनम् ॥४-११-३४॥

सु दृष्टाम् कुरु किष्किन्धाम् कुरुष्व आत्म समम् पुरे ।
क्रीडयस्व च समम् स्त्रीभिः अहम् ते दर्प शासनः ॥४-११-३५॥

यो हि मत्तम् प्रमत्तम् वा भग्नम् वा रहितम् कृशम् ।
हन्यात् स भ्रूणहा लोके त्वद् विधम् मद मोहितम् ॥४-११-३६॥

स प्रहस्य अब्रवीत् मन्दम् क्रोधात् तम् असुरेश्वरम् ।
विसृज्य ताः स्त्रियः सर्वाः तारा प्रभृतिकाः तदा ॥४-११-३७॥

मत्तो अयम् इति मा मंस्था यदि अभीतो असि संयुगे ।
मदो अयम् संप्रहारे अस्मिन् वीर पानम् समर्थ्यताम् ॥४-११-३८॥

तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य कांचनीम् ।
पित्रा दत्ताम् महेन्द्रेण युद्धाय व्यवतिष्ठत ॥४-११-३९॥

विषाणयो गृहीत्वा तम् दुन्दुभिम् गिरि संनिभम् ।
आविध्यत तथा वाली विनदन् कपि कुंजरः ॥४-११-४०॥

वाली व्यापादयाम् चक्रे ननर्द च महास्वनम् ।
श्रोत्राभ्याम् अथ रक्तम् तु तस्य सुस्राव पात्यतः ॥४-११-४१॥

तयोः तु क्रोध संरम्भात् परस्पर जयैषिणोः ।
युद्धम् समभवत् घोरम् दुन्दुभेर् वालिनः तथा ॥४-११-४२॥

अयुध्यत तदा वाली शक्र तुल्य पराक्रमः ।
मुष्टिभिर् जानुभिः पद्भिः शिलाभिः पादपैः तथा ॥४-११-४३॥

परस्परम् घ्नतोः तत्र वानर असुरयोः तदा ।
आसीत् हीनो असुरो युद्धे शक्र सूनुः व्यवर्धत ॥४-११-४४॥

तम् तु दुन्दुभिम् उद्यम्य धरण्याम् अभ्यपातयत् ।
युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिः तदा ॥४-११-४५॥

स्रोत्रेभ्यो बहु रक्तम् तु तस्य सुस्राव पात्यतः ।
पपात च महाबाहुः क्षितौ पंचत्वम् आगतः ॥४-११-४६॥

तम् तोलयित्वा बाहुभ्याम् गत सत्त्वम् अचेतनम् ।
चिक्षेप वेगवान् वाली वेगेन एकेन योजनम् ॥४-११-४७॥

तस्य वेग प्रविद्धस्य वक्त्रात् क्षतज बिन्दवः ।
प्रपेतुः मारुत उत्क्षिप्ता मतंगस्य आश्रमम् प्रति ॥४-११-४८॥

तान् दृष्ट्वा पतिताम् तत्र मुनिः शोणित विप्रुषः ।
क्रुद्धः तस्य महाभाग चिन्तयामास कोन्वम् ॥४-११-४९॥

येन अहम् सहसा स्पृष्टः शोणितेन दुरात्मना ।
कोऽयम् दुरात्मा दुर् बुद्धिः अकृतात्मा च बालिशः ॥४-११-५०॥

इति उक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तम ।
महिषम् पर्वत आकारम् गत असुम् पतितम् भुवि ॥४-११-५१॥

स तु विज्ञाय तपसा वानरेण कृतम् हि तत् ।
उत्ससर्ज महा शापम् क्षेप्तारम् वानरम् प्रति ॥४-११-५२॥

इह तेन अप्रवेष्टव्यम् प्रविष्टस्य वधो भवेत् ।
वनम् मत् संश्रयम् येन दूषितम् रुधिर स्रवैः ॥४-११-५३॥

क्षिपता पादपाः च इमे संभग्नाः च असुरीम् तनुम् ।
समन्तात् आश्रमम् पूर्णम् योजनम् मामकम् यदि ॥४-११-५४॥
आगमिष्यति दुर्बुद्धिः व्यक्तम् स न भविष्यति ।

ये च अस्य सचिवाः केचित् संश्रिता मामकम् वनम् ॥४-११-५५॥
न च तैः इह वस्तव्य श्रुत्वा यांतु यथा सुखम् ।

ते अपि वा यदि तिष्टन्ति शपिष्ये तान् अपि ध्रुवम् ॥४-११-५६॥
वने अस्मिन् मामके नित्यम् पुत्रवत् परिरक्षते ।
पत्र अंकुर विनाशाय फल मूल अभवाय च ॥४-११-५७॥

दिवसः च अद्य मर्यादा यम् द्रष्टा श्वः अस्मि वानरम् ।
बहु वर्ष सहस्राणि स वै शैलः भविष्यति ॥४-११-५८॥

ततः ते वानराः श्रुत्वा गिरम् मुनि समीरिताम् ।
निश्चक्रमुः वनात् तस्मात् तान् दृष्ट्वा वालिर् अब्रवीत् ॥४-११-५९॥

किम् भवन्तः समस्ताः च मतंग वन वासिनः ।
मत् समीपम् अनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥४-११-६०॥

ततः ते कारणम् सर्वम् तथा शापम् च वालिनः ।
शशंसुर् वानराः सर्वे वलिने हेममालिने ॥४-११-६१॥

एतत् श्रुत्वा तदा वाली वचनम् वनर ईरितम् ।
स महर्षिम् समासाद्य याचते स्म कृत अंजलिः ॥४-११-६२॥

महर्षिः तम् अनादृत्य प्रविवेश आश्रमम् प्रति ।
शाप धारण भीतः तु वाली विह्वलताम् गतः ॥४-११-६३॥

ततः शाप भयात् भीत ऋश्यमूकम् महागिरिम् ।
प्रवेष्टुम् न इच्छति हरिः द्रष्टुम् वा अपि नरेश्वर ॥४-११-६४॥

तस्य अप्रवेशम् ज्ञात्वा अहम् इदम् राम महावनम् ।
विचरामि सह अमात्यो विषादेन विवर्जितः ॥४-११-६५॥

एषो अस्थिनिचयः तस्य दुन्दुभेः संप्रकाशते ।
वीर्य उत्सेकात् निरस्तस्य गिरि कूट निभो महान् ॥४-११-६६॥

इमे च विपुलाः सालाः सप्त शाखा अवलंबिनः ।
यत्र एकम् घटते वाली निष् पत्रयितुम् ओजसा ॥४-११-६७॥

एतत् अस्य असमम् वीर्यम् मया राम प्रकाशितम् ।
कथम् तम् वालिनम् हन्तुम् समरे शक्ष्यसे नृप ॥४-११-६८॥

तथा बृउवाणम् सुग्रीवम् प्रहसन् लक्ष्मणो अब्रवीत् ।
कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनः वधम् ॥४-११-६९॥

तम् उवाचथ सुग्रीवः सप्त सालन् इमान् पुरा ।
एवम् एकैकशो वाली विव्याथ अथ स असकृत् ॥४-११-७०॥

रामो निर्दारयेद् एषाम् बाणेन एकेन च द्रुमम् ।
वालिनम् निहतम् मन्ये दृष्ट्वा रामस्य विक्रमम् ॥४-११-७१॥

हतस्य महिषस्य अस्थि पादेन एकेन लक्ष्मण ।
उद्यम्य प्रक्षिपेत् च अपि तरसा द्वे धनुः शते ॥४-११-७२॥

एवम् उक्त्वा तु सुग्रीवो रामम् रक्तान्त लोचनम् ।
ध्यत्वा मुहूर्तम् काकुत्स्थम् पुनरेव वचो अब्रवीत् ॥४-११-७३॥

शूरः च शूरमानी च प्रख्यात बल पौरुषः ।
बलवान् वानरः वाली संयुगेषु अपराजितः ॥४-११-७४॥

दृश्यन्ते च अस्य कर्माणि दुष्कराणि सुरैः अपि ।
यानि संचिन्त्य भीतः अहम् ऋष्यमूकम् उपाश्रितः ॥४-११-७५॥

तम् अजय्यम् अधृष्यम् च वानरेन्द्रम् अमर्षणम् ।
विचिन्तयन् न मुंचामि ॠष्यमूकम् अमुम् तु अहम् ॥४-११-७६॥

उद्विग्नः शंकितः च अहम् विचरामि महावने ।
अनुरक्तैः सह अमात्यैः हनुमत् प्रमुखैः वीरैः ॥४-११-७७॥

उपलब्धम् च मे श्लाघ्यम् सन् मित्रम् मित्र वत्सल ।
त्वाम् अहम् पुरुषव्याघ्र हिमवन्तम् इव आश्रितः ॥४-११-७८॥

किम् तु तस्य बलज्ञः अहम् दुर्भ्रातुः बलशालिनः ।
अप्रत्यक्षम् तु मे वीर्यम् समरे तव राघव ॥४-११-७९॥

न खलु अहम् त्वाम् तुलये न अवमन्ये न भीषये ।
कर्मभिः तस्य भीमैः च कातर्यम् जनितम् मम ॥४-११-८०॥

कामम् राघव ते वाणी प्रमाणम् धैर्यम् आकृतिः ।
सूचयन्ति परम् तेजो भस्म च्छन्नम् इव अनलम् ॥४-११-८१॥

तस्य तद् वचनम् श्रुत्वा सुग्रीवस्य महत्मनः ।
स्मित पूर्वम् अथः रामः प्रति उवाच हरिम् प्रति ॥४-११-८२॥

यदि न प्रत्ययो अस्मासु विक्रमे तव वानर ।
प्रत्ययम् समरे श्लाघ्यम् अहम् उत्पादयामि ते ॥४-११-८३॥

एवम् उक्त्वा तु सुग्रीवम् सान्त्वयन् लक्ष्मणाग्रजः ।
राघवो दुन्दुभेः कायम् पाद अंगुष्ठेन लीलया ॥४-११-८४॥
तोलयित्वा महाबाहुः चिक्षेप दश योजनम् ।
असुरस्य तनुम् शुष्कम् पादांगुष्टेन वीर्यवान् ॥४-११-८५॥

क्षिप्तम् दृष्ट्वा ततः कायम् सुग्रीवः पुनर् अब्रवीत् ।
लक्ष्मणस्य अग्रतो रामम् तपन्तम् इव भास्करम्
हरीणाम् अग्रतो वीरम् इदम् वचनम् अर्थवत् ॥४-११-८६॥

आर्द्रः स मांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।
परिश्रान्तेन मत्तेन भ्राता मे वालिना तदा॥४-११-८७॥

लघुः संप्रति निर्मांसः तृण भूतः च राघव ।
क्षिप्ता एवम् प्रहर्षेण भवता रघुनंदन ॥४-११-८८॥

न अत्र शक्यम् बलम् ज्ञातुम् तव वा तस्य वा अधिकम् ।
आर्द्रम् शुष्कम् इति हि एतत् सुमहद् राघव अन्तरम् ॥४-११-८९॥

स एव संशयः तात तव तस्य च यद् बलम् ।
सालम् एकम् विनिर् भिद्या भवेत् व्यक्तिः बलाबले ॥४-११-९०॥

कृत्वा एतत् कार्मुकम् सज्यम् हस्ति हतम् इव अपरम् ।
आकर्ण पूर्णम् आयम्य विसृजस्व महाशरम् ॥४-११-९१॥

इमम् हि सालम् प्रहितः त्वया शरो
न संशयो अत्र अस्ति विदारयिष्यति ।
अलम् विमर्शेन मम प्रियम् ध्रुवम्
कुरुष्व राजन् प्रति शापितो मया ॥४-११-९२॥

यथा हि तेजस्सु वरः सदा रविः
यथा हि शैलो हिमवान् महा अद्रिषु ।
यथा चतुष्पात्सु च केसरी वरः
तथा नराणाम् असि विक्रमे वरः ॥४-११-९३॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥