रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५१ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५३ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥

अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् ।
इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥४-५२-१॥

वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् ।
यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥४-५२-२॥

तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः ।
आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥४-५२-३॥

राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५२-४॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।
तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥४-५२-५॥

वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।
राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥४-५२-६॥

अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् ।
सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा -
सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥४-५२-७॥
रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् ।
सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥४-५२-८॥

विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् ।
वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥४-५२-९॥

विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः ।
न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥४-५२-१०॥

चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् ।
लता पादप संछन्नम् तिमिरेण समावृतम् ॥४-५२-११॥

अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः ।
कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥४-५२-१२॥

साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः ।
तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥४-५२-१३॥

अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः ।
ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥४-५२-१४॥

इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।
एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥४-५२-१५॥
त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः ।

आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥४-५२-१६॥
अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः ।

यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥४-५२-१७॥
ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः ।

एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥४-५२-१८॥
प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् ।

सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥४-५२-१९॥
चरंत्या मम धर्मेण न कार्यम् इह केनचित् ।

एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥४-५२-२०॥
उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् ।

शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥४-५२-२१॥
यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना ।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥४-५२-२२॥

सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि ।
तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥४-५२-२३॥

त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् ।
महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥४-५२-२४॥
तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः ।

एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥४-५२-२५॥
जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् ।

तपसः सुप्रभावेन नियम उपार्जितेन च ॥४-५२-२६॥
सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् ।

निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥४-५२-२७॥
न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः ।

ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥४-५२-२८॥
सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः ।

वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥४-५२-२९॥
निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा ।

उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥४-५२-३०॥
निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् ।

एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥४-५२-३१॥
एष प्रसवणः शैलः सागरो अयम् महा उदधिः ।
स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः ।
इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥४-५२-३२॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥