रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ५ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥

ततः प्रहृष्टो हनुमान् कृत्यवान् इति तत् वचः ।
श्रुत्वा मधुर भावम् च सुग्रीवम् मनसा गतः ॥४-४-१॥

भाव्यो राज्यागमः तस्य सुग्रीवस्य महात्मनः ।
यत् अयम् कृत्यवान् प्राप्तः कृत्यम् च एतत् उपागतम् ॥४-४-२॥

ततः परम संहृष्टः हनुमान् प्लवगोत्तमः ।
प्रति उवाच ततो वाक्यम् रामम् वाक्य विशारदः ॥४-४-३॥

किम् अर्थम् त्वम् वनम् घोरम् पम्पा कानन मण्डितम् ।
आगतः सानुजो दुर्गम् नाना व्याल मृग आयुतम् ॥४-४-४॥

तस्य तद् वचनम् श्रुत्वा लक्ष्मणो राम चोदितः ।
आचचक्षे महात्मानम् रामम् दशरथात्मजम् ॥४-४-५॥

राजा दशरथो नाम द्युतिमान् धर्म वत्सलः ।
चातुर् वर्ण्यम् स्व धर्मेण नित्यम् एव अभिपालयन् ॥४-४-६॥

न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन ।
स तु सर्वेषु भूतेषु पितामह इव अपरः ॥४-४-७॥

अग्निष्टोमादिभिः यज्ञैः इष्टवान् आप्त दक्षिणैः ।
तस्य अयम् पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥४-४-८॥

शरण्यः सर्व भूतानाम् पितुः निर्देश पारगः ।
ज्येष्टो दशरथस्य अयम् पुत्राणाम् गुणवत्तरः ॥४-४-९॥
राज लक्षण संयुक्तः संयुक्तो राज्य सम्पदा ॥
राजात् भ्रष्टो मया वस्तुम् वने सार्धम् इह आगतः ॥४-४-१०॥

भार्यया च महाभाग सीतया अनुगतो वशी ।
दिन क्षये महातेजाः प्रभ एव दिवाकरः ॥४-४-११॥

अहम् अस्य अवरः भ्राता गुणैः दास्यम् उपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥४-४-१२॥

सुखार्हस्य महार्हस्य सर्वभूत हितात्मनः ।
ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥४-४-१३॥
रक्षस अपहृता भार्या रहिते काम रूपिणा ।
तत् च न ज्ञायते रक्षः पत्नी येन अस्य वा हृता ॥४-४-१४॥

दनुः नाम दितेः पुत्रः शापात् राक्षसताम् गतः ।
आख्यातः तेन सुग्रीवः समर्थो वानराधिपः ॥४-४-१५॥
स ज्ञास्यति महावीर्यः तव भार्या अपहारिणम् ।
एवम् उक्त्वा दनुः स्वर्गम् भ्राजमानो दिवम् गतः ॥४-४-१६॥

एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः ।
अहम् चैव च रामः च सुग्रीवम् शरणम् गतौ ॥४-४-१७॥

एष दत्त्वा च वित्तानि प्राप्य च अनुत्तमम् यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवम् नाथम् इच्छति ॥४-४-१८॥

सीता यस्य स्नुषा च आसीत् शरण्यो धर्मवत्सलः ।
तस्य पुत्रः शरण्यस्य सुग्रीवम् शरणम् गतः ॥४-४-१९॥

सर्व लोकस्य धर्मात्मा शरण्यः शरणम् पुरा ।
गुरुर् मे राघवः सोऽयम् सुग्रीवम् शरणम् गतः ॥४-४-२०॥

यस्य प्रसादे सततम् प्रसीदेयुः इमाः प्रजाः ।
स रामः वानरेन्द्रस्य प्रसादम् अभिकाङ्क्षते ॥४-४-२१॥

येन सर्व गुणोपेताः पृथिव्याम् सर्व पार्थिवाः ।
मानिताः सततम् राज्ञा सदा दशरथेन वै ॥४-४-२२॥
तस्य अयम् पूर्वजः पुत्रः त्रिषु लोकेषु विश्रुतः ।
सुग्रीवम् वानरेन्द्रम् तु रामः शरणम् आगतः ॥४-४-२३॥

शोक अभिभूते रामे तु शोक आर्ते शरणम् गते ।
कर्तुम् अर्हति सुग्रीवः प्रसादम् सह यूथपैः ॥४-४-२४॥

एवम् ब्रुवाणम् सौमित्रिम् करुणम् स अश्रु पातनम् ।
हनुमान् प्रति उवाच इदम् वाक्यम् वाक्य विशारदः ॥४-४-२५॥

ईदृशा बुद्धि संपन्ना जितक्रोधा जितेइन्द्रियाः ।
द्रष्टव्या वानरेइन्द्रेण दिष्ट्या दर्शनम् आगताः ॥४-४-२६॥

स हि राज्यात् च विभ्रष्टः कृत वैरः च वालिना ।
हृत दारो वने त्रस्तः भ्रात्रा विनिकृतः भृशम् ॥४-४-२७॥

करिष्यति स साहाय्यम् युवयोः भास्करात्मजः ।
सुग्रीवः सह च अस्माभिः सीतायाः परिमार्गणे ॥४-४-२८॥

इति एवम् उक्त्वा हनुमान् श्लक्ष्णम् मधुरया गिरा ।
बभाषे साधु गच्छामः सुग्रीवम् इति राघवम् ॥४-४-२९॥

एवम् ब्रुवन्तम् धर्मात्मा हनूमन्तम् स लक्ष्मणः ।
प्रतिपूज्य यथा न्यायम् इदम् प्रोवाच राघवम् ॥४-४-३०॥

कपिः कथयते हृष्टो यथा अयम् मारुतात्मजः ।
कृत्यवान् सोऽपि संप्राप्तः कृत कृत्योऽसि राघव ॥४-४-३१॥

प्रसन्न मुख वर्णः च व्यक्तम् हृष्टः च भाषते ।
न अनृतम् वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥४-४-३२॥

ततः स सुमहाप्राज्ञः हनुमान् मारुतात्मजः ।
जगाम आदाय तौ वीरौ हरि राजाय राघवौ ॥४-४-३३॥

भिक्षु रूपम् परित्यज्य वानरम् रूपम् आस्थितः ।
पृष्टम् आरोप्य तौ वीरौ जगाम कपिकुङ्जरः ॥४-४-३४॥

स तु विपुल यशाः कपि प्रवीरः पवनसुतः कृत कृत्यवत् प्रहृष्टः ।
गिरि वरम् उरुविक्रमः प्रयातः स शुभमतिः सह राम लक्ष्मणाभ्याम् ॥४-४-३५॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥