रामायणम्/किष्किन्धाकाण्डम्/सर्गः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४ रामायणम्/किष्किन्धाकाण्डम्
किष्किन्धाकाण्डम्
वाल्मीकिः
सर्गः ६ →

श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥

ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् ।
आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥४-५-१॥

अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥४-५-२॥

इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥४-५-३॥

राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः ।
दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४-५-४॥
तपसा सत्य वाक्येन वसुधा येन पालिता ।
स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥४-५-५॥

तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥४-५-६॥

भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ ।
प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥४-५-७॥

श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः ।
दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥४-५-८॥

भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥४-५-९॥

तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो ।
यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥४-५-१०॥

रोचते यदि मे सख्यम् बाहुः एष प्रसारितः ।
गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा ॥४-५-११॥

एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।
संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥४-५-१२॥
हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् ।

ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥४-५-१३॥
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥४-५-१४॥
तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।

ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥४-५-१५॥
सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ ।

ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥४-५-१६॥
अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः ।

त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥४-५-१७॥
सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् ।

ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥४-५-१८॥
सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः ।

लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥
शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् ।

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥४-५-२०॥
प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः ।

अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥४-५-२१॥
हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः ।

सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥४-५-२२॥
वालिना निकृतो भ्रात्रा कृत वैरः च राघव ।

वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥४-५-२३॥
कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा ।

एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥४-५-२४॥
प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव ।

उपकार फलम् मित्रम् विदितम् मे महाकपे ॥४-५-२५॥
वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् ।

अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥४-५-२६॥
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।
कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥४-५-२७॥
तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव ।

तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥४-५-२८॥
शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् ।

स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् ।
सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥४-५-२९॥

तव प्रसादेन नृसिंह वीर
प्रियाम् च राज्यम् च समाप्नुयाम् अहम् ।
तथा कुरु त्वम् नर देव वैरिणम्
यथा न हिंस्यत् स पुनर् मम अग्रजम् ॥४-५-३०॥

सीत कपीन्द्र क्षणदा चराणाम्
राजीव हेम ज्वलनोपमानानि ।
सुग्रीव राम प्रणय पसङ्गे
वामानि नेत्राणि समम् स्फुरन्ति ॥४-५-३१॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥